नारदः-
विनीय दुःखमबला आत्मन्येव प्रजापतिम्
उवाच प्राञ्जलिर्भूत्वा लतेवानिलकम्पिता
मृत्युः-
त्वया सृष्टा कथं नारी मादृशी वदतां वर
क्रूरं कर्माहितं कुर्यां मूढेव किमु जानती
बिभेम्यहमधर्माय प्रसीद भगवन्प्रभो
प्रियान्पुत्रान्वयस्यांश्च भ्रातॄन्मातॄः पितॄन्पतीन्
अनुध्यास्यन्ति ये देव मृतांस्तेषां बिभेम्यहम्
कृपणाऽश्रुपरिक्लेदात् पतेयं शाश्वतीस्समाः
तेभ्योऽतिबलवद्भीता शरणं त्वाऽहमागता
यमस्य सदनं देव प्रजा रोद्धुं न चोत्सहे
प्रसादये त्वा वरद मूर्ध्ना देववर प्रभो
एकमिच्छामि मे कामं त्वत्तो लोकपितामह
इच्छेयं त्वत्प्रसादाद्धि तपस्तप्तुं प्रजेश्वर
प्रदिशेमं वरं देवं त्वं मह्यं भगवन्प्रभो
त्वयोक्ताऽहं गमिष्यामि धेनुकाश्रममुत्तमम्
तत्र तप्स्ये तपस्तीव्रं तवैवाराधने रता
न हि शक्ष्यामि देवेश प्राणान्प्राणभृतां प्रियान्
हर्तुं विलपमानानामधर्मं चापि रक्षितुम्
ब्रह्मा-
मृत्यो सङ्कल्पिता मे त्वं प्रजासंहरणे तु वै
गच्छ संहर सर्वास्त्वं प्रजा मा ते विचारणा
भविता त्वेतदेवं हि नैतज्जात्वन्यथा भवेत्
तस्मादनिन्दिता काले कुरुष्व वचनं मम
नारदः-
एवमुक्ता भगवता प्राञ्जलिश्चाप्यवाङ्मुखी
संहारे नाकरोद्बुद्धिं प्रजानां हितकाम्यया
तूष्णीमासीत्तदा देवः प्रजानामीश्वरेश्वरः
प्रसादं चागमत्क्षिप्रमात्मन्येव पितामहः
स्मयमानश्च देवेशो लोकान्सर्वानवैक्षत।
लोकाश्चासन्यथापूर्वं दृष्टास्तेनापमन्युना
निवृत्तरोषे तस्मिंस्तु भगवत्यपराजिते
सा कन्याऽपि जगामाऽथ समीपात्तस्य धीमतः
अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तथा
त्वरमाणा च राजेन्द्र मृत्युर्धेनुकमभ्ययात्
सा तत्र परमं तीव्रं चचार तप उत्तमम्
समानामेकपादेन तस्थौ पद्मानि षोडश
पञ्च चान्यानि कारुण्यात्प्रजानामभयैषिणी
इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यस्सन्निवर्त्य सा
ततस्त्वेकेपदेनैव पुनरन्यानि सप्त वै
तस्थौ पद्मानि षट् चैव सप्त पञ्चैव वै नृप
तत्र वर्षायुतं तात मृगैस्सह चचार सा
पुनर्गत्वा ततो गङ्गां पुण्यां शीतकलां शिवाम्
अप्सु वर्षसहस्राणि सप्त चैकं च साऽवसत्
तं पारयित्वा नियमं गङ्गायां वीतकल्मषा
सा पुनः कौशिकीं पुण्यां जगाम नियमैर्वृताम्
तत्र वायुजलाहारा चचार नियतं पुनः
पञ्चगङ्गे च सा पुण्ये कन्या वैतंसिकेषु च
तपोविशेषैर्विविधैः कर्शयद्देहमात्मनः
ततो गत्वा महाभाग महामेरुं च केवलम्
तस्थावश्मेव निश्चेष्टा प्राणायामपरायणा
ततो हिमवतो मूर्ध्नि यत्र देवाः पुराऽयजन्
तत्राङ्गुष्ठेन सा तस्थौ निखर्वं परमा शुभा
पुष्करेष्वथ गोकर्णे नैमिशे मलदेषु च
अकर्शयत्स्वकं देहं नियमैर्मनसः प्रियैः
अनन्यदेवता नित्यं दृढभक्ता पितामहे
तस्थौ पितामहं चैव तोषयामास यत्नतः
ततस्तामब्रवीत्प्रीतो लोकानां प्रभवोऽव्ययः
ब्रह्मा-
नारदः-
मृत्यो किमिदमत्यर्थं तपांसि चरसीति ह
ततोऽब्रवीत्पुनर्मृत्युर्भगवन्तं पितामहम्
मृत्युः-
नाऽहं हन्यां प्रजा देव स्वस्थाश्च क्रोशतीः प्रभो
एतदिच्छामि सर्वेश त्वत्तो वरमहं प्रभो
अधर्मभयभीताऽस्मि ततोऽहं तप आस्थिता
भीताया मे महाभाग प्रदेहि वरमव्ययम्
नारदः-
आर्ता चानागसी च त्वा याचामि भव मे गतिः
तामब्रवीत्ततो देवो भूतभव्यभविष्यकृत्
ब्रह्मा-
अधर्मो नास्ति ते मृत्यो संहरन्त्या इमाः प्रजाः
मया चोक्तं मृषा भद्रे भविता न कथञ्चन
तस्मात्संहर कल्याणि प्रजास्सर्वाश्चतुर्विधाः
धर्मस्सनातनश्च त्वां सर्वथाऽनुप्रवेक्ष्यति
शर्वः कालो यमश्चैव सहाया व्याधयश्च ते
यैस्त्वं युक्ता भयान्मुक्ता विरजाः ख्यातिमेष्यसि
अहं च विबुधाश्चैव पुनर्दास्याम ते वरान्
नारदः-
सैवमुक्ता महाराज कृताञ्जलिरिदं प्रभुम्
पुनरेवाब्रवीद्वाक्यं प्रसाद्य शिरसा तदा
मृत्युः-
यद्येतदेवं कर्तव्यं धर्मतो नास्त्यतो भयम्
तवाज्ञा मूर्ध्नि मे न्यस्ता यत्तु वक्ष्यामि तच्छृणु
लोभः क्रोधो ह्यसूयेर्ष्या मोहो द्रोहश्च देहिनाम्
अप्रियान्योन्यजनिता देहान् भिन्द्युः पृथिग्वधाः
ब्रह्मा-
तथा भविष्यते मृत्यो साधु संहर वै प्रजाः
अधर्मस्ते न भविता तथा दास्यामि तेऽभयम्
यान्यश्रुबिन्दूनि करे तवासंस्ते व्याधयः प्राणिनामात्मजास्स्युः
ते मारयिष्यन्ति नरान्गतासून्नाधर्मस्ते भविता मा स्म भैषीः
धर्मो मृत्यो मारणे प्राणिनां ते त्वं वै धर्मस्त्वं हि सर्वस्य चेशा
धर्म्या भूत्वा धर्मनित्या धरित्री तस्मात्प्राणान्सर्वथेमान्नियच्छ
प्राप्ता तथा नो भविता कदाचिदेवं मया वै विनियुज्यसे त्वम्
सर्वेषां वै प्राणिनां कामरोषौ सन्त्यज्य त्वं संहर सर्वजीवान्
येषां धर्मास्ते भविष्यन्त्यनन्ताः मिथ्यावृत्तं मारयिष्यत्यधर्मः
तेनात्मानं प्लावयस्व व्यपेक्षं पापात्मानो मज्जयिष्यन्त्यसन्तः
तस्मात्कामं रोषमप्यागतं त्वं सन्त्यज्यान्तः संहरस्वेति जीवान्
नारदः-
सा चैवमुक्ता मृत्युसञ्ज्ञापदेशाच्छापाद्भीता बाढमित्यब्रवीत्तम्
सा च प्राणान्प्राणिनां प्रायणान्ते कामक्रोधौ हरत्येव हित्वा
मृत्युस्त्वेषां व्याधयस्तत्प्रसूता व्याधी रोगेर्युज्यते येन देहः
सर्वेषां च प्राणिनां प्रायणान्ते प्राणा गत्वा सन्निवृत्तास्तथैव
एवं मृत्युः प्राणिनां तत्र गत्वा भूत्वा देवी मर्त्यतां याति भूयः
वायुर्भीमो भीमनादो महौजा भेत्ता देहान्प्राणिनां देहभूतः
नैवावृत्तिं नातिवृत्तिं कदाचित्प्राप्नोत्युग्रोऽनन्ततेजोविशिष्टः
सर्वे देवा मर्त्यसञ्ज्ञाविशिष्टास्सर्वे मर्त्या देवसञ्ज्ञा विशिष्टाः
तस्मात्पुत्रं मा शुचो राजसिंह स्वर्गं प्राप्तो मोदते त्वत्तनूजः
नित्यं रम्यान्वीरलोकानवाप्य त्यक्त्वा दुःखं सङ्गतः पुण्यकृद्भिः
एवं मृत्युर्देवसृष्टा प्रजानां काले प्राप्ते संहरत्येव जन्तून्
रोगो ह्येते व्याधयो देहजाश्च स्वयं कृताः प्राणहराः प्रजानाम्
आत्मानं वै देहिनो घ्नन्ति सर्वे नैतान्मृत्युर्दण्डपाणिर्हिनस्ति
तस्मान्मृतान्नानुशोचन्ति धीरास्तत्त्वं ज्ञात्वा निश्चयं ब्रह्मसृष्टम्
व्यासः-
एतच्छ्रुत्वार्थवद्वाक्यं नारदेन प्रभाषितम्
उवाचाकम्पनो राजा सखायं नारदं तदा
अकम्पनः-
व्यपेतशोकः प्रीतोऽस्मि भगवन्नृषिसत्तम
श्रुत्वेतिहासं त्वत्तोऽद्य कृतार्थोऽस्म्यभिवादये
व्यासः-
तथोक्तो नारदस्तेन राज्ञा देवर्षिसत्तमः
जगाम नन्दनं शीघ्रमशोकवनमात्मनः
पुण्यं यशस्यमायुष्यं स्वर्गीयं धर्म्यमेव च
अस्येतिहासस्य सदा श्रवणं श्रावणं तथा
एवमर्थं हि संश्रुत्य ज्ञात्वा चैव स पाण्डव
क्षत्रधर्मं च विज्ञाय शूराणां च परां गतिम्
सम्प्राप्तो हि महावीर्यस्स्वर्गलोकं महारथः
अभिमन्युः परान्हत्वा प्रमुखे सर्वधन्विनाम्
युध्यमानो महेष्वासांसत्यक्त्वात्माऽभिमुखो रणे
असिना गदया शक्त्या धनुषा च महारथः
तस्मात्परां धृतिं कृत्वा भ्रातृभिस्सह पाण्डव
अप्रमत्तस्सुसंरब्धो राजन्युध्यस्व शत्रुभिः