सञ्जयः-
एवं विलपमाने तु कुन्तीपुत्रे युधिष्ठिरे
कृष्णद्वैपायनस्तत्र प्रादुर्भूतो महानृषिः
अथ दृष्ट्वा महात्मानं पाण्डुपुत्रो युधिष्ठिरः
मुक्तासनो दीनमनाः पूजां चक्रे महात्मनः
तं समर्च्य यथान्यायमुतिष्ठद्युधिष्ठिरः
अब्रवीच्छोकसन्तप्तो भ्रातुः पुत्रवधेन सः
युधिष्ठिरः-
अधर्मयुद्धे बहुभिः परिवार्य महारथैः
युध्यमानो महेष्वासैस्सौभद्रो निहतो रणे
बालश्चाबालबुद्धिश्च वीरश्च परवीरहा
अनुपायेन सङ्ग्रामे युध्यमानो विनाशितः
मयाऽपि चोक्तस्सङ्ग्रामे द्वारं सञ्जनयस्व नः
प्रविष्टे च परांस्तस्मिन्सैन्धवेन स्म वारिताः
ननु नाम समं युद्धमेष्टव्यं युद्धजीविना
इदं च विषमं युद्धमीदृशं बहुभिः कृतम्
तेनास्मि भृशसन्तप्तश्शोकबाष्पसमाकुलः
शमं नैवाधिगच्छामि चिन्तयानः पुनः पुनः
सञ्जयः-
तं तथा विलपन्तं वै शोकोपहतचेतसम्
उवाच भगवान्व्यासो युधिष्ठिरमिदं वचः
व्यासः-
युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद
व्यसनेषु न मुह्यन्ति पुरुषा पुरुषर्षभ
स्वर्गमेष गतश्शूरश्शत्रून्हत्वा रणे बहून्
अबालसदृशं कर्म कृत्वा वै पुरुषर्षभः
अनतिक्रमणीयो हि विधिरेष सनातनः
देवदानवगन्धर्वा मृत्युं गच्छन्ति भारत
युधिष्ठिरः-
य इमे पृथिवीपालाश्शेरते पृथिवीतले
निहताः पृतनामध्ये मृतसञ्ज्ञा महाबलाः
एकैकशो भीमबला नागायुतशतोपमाः
इषुवेगबलाश्चान्ये वायुवेगबलास्तथा
नैषां पश्यामि हन्तारं प्राणिनां संयुगे क्वचित्
विक्रमेणोपपन्ना हि तेजोबलसमन्विताः
अथ चेमे महाप्राज्ञाश्शेरते च गतायुषः
मृता इति च शब्दोयं वर्तते च गतायुषाम्
इमे मृता महीपालाः प्रायशो भीमविक्रमाः
राजपुत्राश्च संरब्धा वैश्वानरसमप्रभाः
तत्र मे संशयः प्राप्तः कुतस्सञ्ज्ञा मृता इति
कस्य मृत्युः कुतो मृत्युः केन मृत्युरिमाः प्रजाः
हरत्यमरसङ्काश तन्मे ब्रूहि पितामह
सञ्जयः-
तं तथा परिपृच्छन्तं कुन्तीपुत्रं युधिष्ठिरम्
आश्वासनमिदं वाक्यमुवाच भगवानृषिः
व्यासः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
अकम्पनस्य कथितं नारदेन पुरा नृप
स चापि राजा राजेन्द्र पुत्रव्यसनमुत्तमम्
अप्रसह्यतमं लोके प्राप्तवानिति नश्श्रुतम्
तत्तेऽहं सम्प्रवक्ष्यामि मृत्योः प्रभवमुत्तमम्
ततस्त्वं मोक्ष्यसे दुःखाद्देहबन्धनसंश्रयात्
पुरावृत्तमिदं तात मम कीर्तयतश्शृणु
धर्म्यमाख्यानमायुष्यं शोकघ्नं पुष्टिवर्धनम्
पुरा कृतयुगे तात राजा ह्यासीदकम्पनः
स शत्रुवशमापन्नो मध्ये सङ्ग्राममूर्धनि
योधयामास बलवान्बद्धश्चासीदकम्पनः
तस्य पुत्रो हरिर्नाम नारायणसमद्युतिः
श्रीमान्कृतास्त्रो मेधावी युधि शक्रोपमो बली
स शत्रुभिः परिवृतो बहुधा रणमूर्धनि
योधयामास तान्सर्वान्सर्वास्त्रकुशलो बली
वर्षन्बाणसहस्राणि शत्रुष्वमितविक्रमः
पदातिरथनागाश्वान्प्रममाथ महाबलः
तदुदीर्णं बलं सर्वं हत्वाऽरीनरिसूदनः
त्रिविष्टपं यथा शक्रः प्रविवेश पुरोत्तमम्
स दृष्ट्वा पितरं युद्धे तदवस्थं महाद्युतिः
अचिन्तयित्वा मरणं शत्रुमध्येऽविशत्सुतः
स शरैराचितश्चित्रैर्गदाभिर्मुसलैरपि
मृद्नन्रथिसहस्राणि रथांश्च हयवारणान्
परानीकं विभिद्याजौ मोक्षयित्वा च तं नृपम्
पुनरेवाकरोद्युद्धं शत्रुमध्यगतो बली
ततस्ते रथिनस्सर्वे समेत्य पुनराहवे
जघ्नुस्तं परिवार्यैकं तोमरैरिव कुञ्जरम्
स कर्म दुष्करं कृत्वा सङ्ग्रामे शत्रुतापनः
शत्रुभिर्निहतश्शेते पृतानायां युधिष्ठिर
द्विषद्भिर्निहतं दृष्ट्वा प्रियं पुत्रमकम्पनः
अमर्षजनितक्रोध आहवात्सहसाऽऽगतः
स राजा प्रेतकृत्यानि तस्य कृत्वा शुचाऽन्वितः
शोचन्नहनि रात्रौ च न लभे सुखमात्मनः
तस्य शोकं विदित्वा तु पुत्रव्यसनसम्भवम्
अथाजगाम देवर्षिर्नारदोऽस्य समीपतः
स तु राजा महाभागो दृष्ट्वा देवर्षिमागतम्
पूजयित्वा यथान्यायं कथामकथयत्तदा
तदस्मै सर्वमाचष्ट यथावृत्तं युधिष्ठिर
शत्रुभिर्निर्जितं सङ्ख्ये पुत्रस्य च वधं तथा
अकम्पनः-
मम पुत्रो महावीर्य इन्द्रविष्णुसमद्युतिः
शत्रुभिर्बहुभिस्सङ्ख्ये पराक्रम्य हतो बली
शृणोमि प्राणिनां चापि मृत्युः प्रभवते किल
क एष बलवान् मृत्युः किंवीर्यबलपौरुषः
एतदिच्छामि तत्त्वेन कथितं द्विजसत्तम
व्यासः-
तस्य तद्वचनं श्रुत्वा नारदो भगवानृषिः
आख्यानमिदमाचष्ट पुत्रशोकापहं महत्
नारदः-
राजन्शृणु ममेदं त्वमाख्यानं बहुविस्तरम्
यथावृत्तं श्रुतं चैव मयाऽपि वसुधाधिप
प्रजास्सृष्ट्वा महाराज प्रजासर्गे पितामहः
असंहृतं महातेजा दृष्ट्वा जगदिदं प्रभुः
तस्य चिन्ता समुत्पन्ना संहारं प्रति पार्थिव
चिन्तयन्नाससादैव संहारं वसुधाधिप
तस्य रोषान्महाराज मुखेभ्योऽग्निरजायत
तेन सर्वा दिशो व्याप्तास्सर्वान्देशान् दिधक्षता
ततो भुवं दिवं चैव सर्वं ज्वालाभिरावृतम्
चराचरं जगत्सर्वं ब्रह्मणः परवीरहन्
कोपो दहति भूतानि जङ्गमानि ध्रुवाणि च
महता कोपवेगेन त्रासयन्निव वीर्यवान्
ततो हरो जटी स्थाणुर्निशाचरपतिश्शिवः
जगाम शरणं देवं ब्रह्माणं परवीरहन्
तस्मिन्निपतिते स्थाणौ प्रजानां हितकाम्यया
अब्रवीत्परमो देवो ज्वलन्निव महाद्युतिः
ब्रह्मा-
किं कुर्मि कामं कामारे कामार्होऽसि मतो मम
करिष्येते प्रियं कामं ब्रूहि स्थाणो यदिच्छसि