सञ्जयः-
निहते पाण्डवास्तत्र सौभद्रे रथयूथपे
विमुक्तरथसन्नाहास्सर्वे निक्षिप्तकार्मुकाः
उपोपविष्टा राजानः परिवव्रुर्युधिष्ठिरम्
तदेव दुःखं ध्यायन्तः सौभद्रगतमानसाः
ततो युधिष्ठिरो राजा विललाप सुदुःखितः
अभिमन्यौ हते वीरे भ्रातुः पुत्रे महारथे
युधिष्ठिरः-
एष जित्वा कृपं शल्यं राजानं च सुयोधनम्
द्रोणं द्रौणिं महेष्वासं तथैवान्यान्महारथान्
द्रोणानीकमसम्बाधं मम प्रियचिकीर्षया
हत्वा शत्रुगणान्वीरानेष शेते निपातितः
कृतास्त्रान्युद्धकुशलान्महेष्वासान्महारथान्
कुलशीलगुणैर्युक्ताञ्छूरान्विख्यातपौरुषान्
द्रोणेन विहितं व्यूहमभेद्यममरैरपि
अदृष्टपूर्वमस्माभिः पद्मं चक्रायुधप्रियः
भित्त्वाऽनीकं प्रविष्टोऽसौ गोमध्यमिव केसरी
विक्रीडितं रणे तेन निघ्नता वै परान्वरान्
यस्य शूरा महेष्वासाः प्रत्यनीकगता रणे
प्रभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः
अत्यन्तशत्रुरस्माकं येन दुःशासनः शरैः
क्षिपन्नभिमुखस्सङ्ख्ये विस्सञ्ज्ञो विमुखीकृतः
स कथं प्राप्य दुष्प्रापं द्रोणानीकमहार्णवम्
शूरग्रहाकुलं भीमं तीर्त्वा चैनमभीतवत्
प्राप्तो दौश्शासनिं पापं यातो वैवस्वतक्षयम्
किंस्विद्वक्ष्यामि सौभद्रे निहते चार्जुनं प्रति
किं वा सुभद्रां वक्ष्यामि प्रियं पुत्रमपश्यतीम्
हतवत्सां यथा धेनुं तद्दर्शनकृतोन्मुखीम्
किंस्विद्वक्ष्याम्यपेतार्थमक्लिष्टमसमञ्जसम्
तावुभौ प्रतिवक्ष्यामि प्रियं पुत्रमपश्यतौ
अहं ह्येवं सुभद्रायाः केशवार्जुनयोरपि
प्रियकामो जयाकाङ्क्षी कृतवानिदमप्रियम्
न लुब्धो बुध्यते दोषान्मोहाल्ल्लोभात्प्रवर्तते
मधुलिप्सुर्हि नाद्राक्षं प्रपातमहमीदृशम्
योऽसौ भोज्ये पुरस्कार्यो धनेषु वसनेषु च
भूषणेषु च सोऽस्माभिर्बालो युधि पुरस्कृतः
कथं हि बालस्तरुणो युद्धानामविशारदः
सदश्व इव सम्बाधे विषमे क्षेममर्हति
नो चेद्धि वयमप्येवं महीमनुशयीमहि
बीभत्सोः कोपदीप्तस्य दग्धाः क्रूरेण चक्षुषा
अलुब्धो मतिमाञ्श्रीमान्क्षमावान्रूपवान्बली
वपुष्मान्नयकृद्वीरः प्रियस्सत्यपराक्रमः
श्लाघन्ते यस्य विबुधाः कर्माभिर्भीमकर्मणः
निवातकवचान् योऽघ्नत्कालकेयांश्च वीर्यवान्
महेन्द्रशत्रवो येन हिरण्यपुरवासिनः
अक्ष्णोर्निमेषमात्रेण पौलोमास्सगणा हताः
परेभ्योह्यभयार्थिभ्यो यो दद्यादभयं प्रभुः
तस्यास्माभिर्न च कृतं पुत्रत्राणं भयादिह
भयं तु सुमहत्प्राप्तं धार्तराष्ट्रबलं महत्
पार्थः पुत्रवधात्क्रुद्धश्शात्रवाञ्शमयिष्यति
क्षुद्रः क्षुद्रसहायश्च स्वपक्षक्षयमातुरः
व्यक्तं दुर्योधनो दृष्ट्वा शोचन्हास्यति जीवितम्
न मे जयः प्रीतिकरो न राज्यं न चामरत्वं न सुरैस्सलोकता
इमं समीक्ष्याप्रतिवीर्यपौरुषं निपातितं देववरात्मजात्मजम्