सञ्जयः-
ततः कर्णं समासाद्य रणे विव्याध फाल्गुनिः
शरैः पञ्चाशता चैनमविध्यत्कोपयन्निव
प्रतिविव्याध राधेयस्तावद्भिरथ तं पुनः
शरैर्विकृत्तसर्वाङ्गो बह्वशोभत भारत
कर्णं चाप्यकरोद्युद्धे रुधिरौधपरिपलुतम्
कर्णत्त्वतिबभौ तस्मात्शरैश्चित्रैरभिप्लुतः
सन्ध्यानुगतपर्यन्तश्शाशरदीव दिवाकरः
तौ तदा शरचित्राङ्गौ रुधिरेण समुक्षितौ
बभतुः कर्णसौभद्रौ पुष्पिताविव किंशुकौ
अथ कर्णस्य सचिवान्षड्रथांश्चित्रयोधिनः
साश्वसूतध्वजरथान्सौभद्रो ह्यहनद्बली
अथेतरान्महेष्वासान्दशभिर्दशभिश्शरैः
प्रत्यविध्यदसम्भ्रान्तस्तदद्भुतमिवाभवत्
मागधस्य पुनः पुत्रं हत्वा षड्भिरजिह्मगैः
साश्वं ससूतं तरुणमश्मकेतुमपोययत्
मार्तिकावतकाम्भोजं पुनः कुञ्जरकेतनम्
क्षुरप्रेण समुन्मथ्य ननाद विसृजञ्शरान्
तस्य दौःशासनिर्विद्ध्वा चतुर्भिश्चतुरो हयान्
सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम्
ततो दौश्शासनिं कार्ष्णिर्विद्ध्वा सप्तभिराशुगैः
संरम्भरक्तनयनो वाक्यमुच्चैरथाब्रवीत्
अभिमन्युः-
पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा
दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे
सञ्जयः-
एतावदुक्त्वा वचनं कर्मारपरिमार्जितम्
नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत्
तस्यार्जुनिर्धनुश्छित्त्वा शल्यं त्रिभिरताडयत्
तं शल्यो दशभिर्बाणैर्गृध्रपत्रैरताडयत्
तस्यार्जुनिर्धनुच्छित्त्वा उभौ च पार्ष्णिसारथी
तं विव्याधायसैष्षड्भिस्सोपाक्रामद्रथान्तरम्
शत्रुञ्जयं चन्द्रकेतुं मेघवेगं सुवर्चसम्
सूर्यभासं च पञ्चैतान्हत्वा विव्याध सौबलम्
सौबलः-
तं सौबलस्त्रिभिर्विद्ध्वा दुर्योधनमथाब्रवीत्
सर्व एनं प्रमृद्गीम पुरैकैकं हिनस्ति नः
सञ्जयः-
कर्णः-
अथाब्रवीत्ततो द्रोणं कर्णो वैकर्तनो रणे
पुरा सर्वान्प्रमथ्नाति ब्रूह्यस्य वधमाशु नः
सञ्जयः-
ततो द्रोणो महेष्वासस्सर्वांस्तान्प्रत्यभाषत
द्रोणः-
नास्य बाणान्तरं किञ्चित्कुमारस्याथ पश्यत
अस्यतो विवरं चास्य चरतस्सर्वतो दिशम्
शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत
धनुर्मण्डलमेवास्य रथमार्गेषु दृश्यते
सन्दधानस्य विशिखान्प्रशीघ्रं चैव मुञ्चतः
आरुजन्नपि मे प्राणान्मोहयन्नपि सैनिकान्
सङ्घर्षयति मां वीरस्सौभद्रः परवीरहा
अभिमानं दधात्येष सौभद्रो विचरन्रणे
अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः
अस्यतो लघुहस्तस्य दिशस्सर्वा महेषुभिः
न विशेषं प्रपश्यामि रणे गाण्डीवधन्वनः
सञ्जयः-
कर्णः-
अथ कर्णः पुनर्द्रोणमाहार्जुनिशराहतः
स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना
तेजस्विनः कुमारस्य शराः परमदारुणाः
क्षिपन्ति हृदयं मेऽद्य तोत्रास्तु द्विरदं यथा
सञ्जयः-
द्रोणः-
तमाचार्योऽब्रवीत्कर्णं शनकैः प्रहसन्निव
अभेद्यं कवचं चास्य युवा च लघुविक्रमः
उपदिष्टं मयाऽप्यस्य पितुः कवचधारणा
तदेष निखिलं वेत्ति युवा परपुरञ्जयः
शक्यं नास्य धनुश्छेत्तुं ज्यां वा बाणैस्समाहितैः
अस्यतो लघुहस्तस्य तथोभौ पार्ष्णिसारथी
एतत्कुरु महेष्वास राधेय यदि शक्यते
अथैनं विमुखीकृत्य ततः प्रहरणं कुरु
सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः
विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि
पुरस्स्थितेन केनापि दुश्शको जेतुमार्जुनिः
सञ्जयः-
तदाचार्यवचश्श्रुत्वा कर्णो वैकर्तनस्त्वरन्
अस्यतो लघुहस्तस्य पृष्ठतो धनुराच्छिनत्
अश्वानस्यावधीद्द्रोणो गौतमः पार्ष्णिसारथी
शेषास्तं च्छिन्नधन्वानं शरवर्षैरवाकिरन्
त्वरमाणास्तदा काले विरथं षण्महारथाः
शरवर्षैण महता बालमेकमवाकिरन्
स च्छिन्नधन्वा विरथो हताश्वो हतसारथि
खड्गचर्मधरश्शीघ्रमुत्पपात विहायसम्
बललाघवशिक्षाभिः कैशिकानां च शिक्षया
भृशं क्रुद्धोऽर्जुनिर्व्योम्नि व्यचरत्पक्षिराडिव
मयि किं नपतेदेष सासिरित्यूर्ध्वदृष्टयः
विव्यधुस्तं महेष्वासं विवरे च्छिद्रदर्शिनः
तस्य द्रोणोऽच्छिनन्मुष्टौ खङ्गं मणिमयत्सरुम्
राधेयो निशितैर्बाणैर्व्यधमच्चर्म सुप्रभम्
व्यसिचर्मेषुपूर्णाङ्गस्सोऽन्तरिक्षात्पुनः क्षितिम्
आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत
स चक्रपाणीर्बलदीप्तगात्रो बभावतीवोन्नतपत्रिणां सहः
रणेऽभिमन्युर्बलवान्सुभद्रजस्स वासुदेवानुकृतिं विकुर्वन्
स्रुतरुधिरकृताङ्गरागवक्त्रं भ्रुकुटिपुटाकुटिलातिसिंहनादम्
वपुरमितबलं रणेऽभिमन्योर्नृपबलसंहननेऽप्यतिप्रणुन्नम्
विष्णोस्स्वसुर्नन्दकरस्स विष्ण्वायुधभूषणः
रराजातिरथो रङ्गे स विष्णुरिव फल्गुनिः
मारुतोद्धूतकेशान्तमुद्यतारिवरायुधम्
अभिमन्योर्वपुर्युद्धे सुरैरपि निरीक्षितम्
यदि पाणितलादेतच्चक्रं मुञ्चेत फाल्गुनिः
वरदानान्मातुलस्य विष्णोश्चक्रमिवापतेत्
तच्चक्रं भृशमुद्विग्नास्सञ्चिच्छिदुरनेकधा
स्वरथात्तुमुलात् कार्ष्णिस्स्वां जग्राह पुनर्गदाम्
विधनुस्स्यन्दनासिस्तैर्विचक्रश्चारिभिः कृतः
अभिमन्युर्गदापाणिरश्वत्थामानमभ्ययात्
गदां समुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव
अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्रथर्षभः
तस्याश्वान्गदया हत्वा तथोभौ पार्ष्णिसारथी
शराचिताङ्गस्सौभद्रश्श्वाविदेव स्म दृश्यते
ततस्सुबलदायादं कोपवेगमपोथयत्
जघान चास्यानुचरान्गान्धारान्सप्तविंशतिम्
पुनर्बहून्वसातीयाञ्जघानतिरथान्दश
केकयानां रथान्सप्त हत्वा च दश सकुञ्जरान्
दौश्शासने रथं साश्वं गदया समपोथयत्
ततो दौश्शासनिः क्रुद्धो गदामुद्यम्य मारिष
अभिदुद्राव सौभद्रं तिष्ठ तिष्ठेति चाब्रवीत्
तावुद्यतगदौ वीरावन्योन्यवधकाङ्क्षिणौ
भ्रातृव्यौ सम्प्रजह्राते पुरेव त्र्यम्बकान्धकौ
तावन्योन्यं गदाग्राभ्यां ताडितौ पतितौ क्षितौ
इन्द्रध्वजाविवोत्सृष्टौ रत्रुमध्ये परन्तपौ
तापयित्वा महीपालान्कुरूणां कीर्तिवर्धनः
देवकल्पो महेष्वासः क्षत्रं दग्ध्वा महायशाः
गदावेगेन महता व्यायामेन च मोहितः
विमना न्यपतद्भूमौ सौभद्रः परवीरहा
अभिमन्युर्हतो राजन्नेको बहुभिराहवे
क्षोभयित्वा चमूं सर्वां नलिनीमिव कुञ्जरः
अशेत निहतो वीरो व्याधैर्वनगजो यथा
तं तथा पतितं वीरं तावकाः पर्यवारयन्
वनं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये
विमृद्य तरुशृङ्गाणि सन्निवृत्तमिवानिलम्
अस्तं गतमिवादित्यं तप्त्वा भारत वाहिनीम्
उपप्लुतं यथा सोमं संशुष्कमिव सागरम्
पूर्णचन्द्राभवदनं काकपक्षवृतालिकम्
तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः
मुदा परमया युक्तास्सिंहवद्व्यनदन्मुहुः
आसीत्परमको हर्षस्तावकानां विशां पते
इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम्
अतिक्रोशन्ति भूतानि ह्यन्तरिक्षे विशां पते
तं दृष्ट्वा पतितं वीरं च्युतं चन्द्रमिवाम्बरात्
द्रोणकर्णमुखैष्षड्भिर्धार्तराष्ट्रैर्महारथैः
एकोऽयं निहतस्सङ्ख्ये नैतद्धर्म्यं मतं हि नः
तस्मिंस्तु निहते वीरे बह्वशोभत मेदिनी
द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी
रुक्मपुङ्खैश्च संस्तीर्णा रुधिरौघपरिप्लुता
उत्तमाङ्गैश्च वीराणां भ्राजमानैस्सकुण्डलैः
विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता
चामरैश्च कशाभिश्च प्रविद्धैश्चाम्बरोत्तमैः
रथाश्वनरनागानामलङ्कारैश्च सुप्रभैः
खड्गैस्सुनिशितैः पीतैर्निर्मुक्तैरुरगैरिव
चापैश्च बहुभिश्छिन्नैश्शक्त्यृष्टिप्रासतोमरैः
विविधैश्चायुधैश्चान्यैस्संवृता भूरशोभत
निष्टनद्भिरतीवार्तैरुद्वमद्रुधिरस्रवैः
नरैः पतद्भिः पतितैर्हेमभाण्डपरिच्छदैः
वाजिभिश्चापि निर्जीवैश्श्वसद्भिश्शोणितोक्षितैः
सारोहैर्विषमा भूमिस्सौभद्रेण निपातितैः
साङ्कुशैस्समहामात्रैस्सर्वमायुधकेतुभिः
पर्वतैरिव विध्वस्तैर्विशिखोन्मथितैर्गजैः
पृथिव्यानुकीर्णैश्च व्यश्वसारथियोधिभिः
ह्रदैरिव प्रक्षुभितैर्हृतनागै रथोत्तमैः
पदातिसङ्घैश्च हतैर्विविधायुधभूषणैः
भीरूणां त्रासजननी घोररूपाऽभवन्मही
तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम्
तावकानां परा प्रीतिरासीत्पाण्डुषु च व्यथा
अभिमन्यौ हते राजञ्शिशुकेऽप्राप्तयौवने
सम्प्राद्रवच्चमूस्सर्वा धर्मराजस्य मारिष
दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते
अजातशत्रुस्स्वान्वीरानिदं वचनमब्रवीत्
युधिष्ठिरः-
स्वर्गमेष गतश्शूरो यो हतो न पराङ्मुखः
संस्तम्भयत मा भैष्ट जेष्यामो वै वयं परान्
इत्येभ्यो दुःखनीतेभ्यो महाप्राज्ञो महाद्युतिः
धर्मराजो युधां श्रेष्ठो ब्रुवन्दुःखमपानुदत्
युद्धे ह्याशीविषाकारान्राजपुत्रान्बह्वन्रणे
पूर्वं निहत्य सङ्ग्रामे पश्चादार्जुनिरन्वगात्
हत्वा दशसहस्राणि कौसल्यं च बृहद्बलम्
कृष्णार्जुनसमः कार्ष्णिश्शक्रसद्म गतो ध्रुवम्
नराश्वनरमातङ्गान्निहत्य च सहस्रशः
अतृप्यन्नेव सङ्ग्रामादगच्छत्पुण्यलोकजित्
सञ्जयः-
वयं तु प्रवरान्हत्वा तेषां तैश्शरपीडिताः
निवेशायाभ्युपायामस्सायाह्ने रुधिरोक्षिताः
निरीक्षमाणास्तु वयं परे चायोधनं शनैः
अपयाता महाराज ग्लानिं प्राप्ता विचेतसः
ततो निशाया दिवसस्य चाशिवश्शिवारुतैस्सन्धिरवर्तताद्भुतः
कुशेशयापीडनिभे दिवाकरे विलम्बमानेऽस्तमुपेत्य पर्वतम्
वरासिशक्त्यृष्टिवरूथचर्मणां विभूषणानां च समाक्षिपन्प्रभाः
दिवं च भूमिं च समानयन्निव प्रियां तनूं स्वां रविरेति पावकीम्
महाभ्रकूटाचलशृङ्गसन्निभैरनेकपैर्वरिवाद्रिभिः
सवैजयन्त्यङ्कुशवर्मयन्तृभिर्निपातितैर्निष्टनतीव गौक्षिता
हतेश्वरैश्चूर्णितचक्रकूबरैर्हताश्वसूतैर्विपताककेतुभिः
महारथैर्भग्नविचूर्णितैर्मही पुरैरिवामित्रहतैश्चिता बभौ
गजाश्वबृन्दैस्सहसादिभिर्हतैः प्रविद्धभाण्डाभरणैः पृथग्विधैः
निरस्तजिह्वादशनान्त्रलोचनैर्धरा बभौ घोरविरूपदर्शिभिः
प्रविद्धवर्माभरणायुधाम्बरा विपन्नहस्त्यश्वरथानुगा नराः
महार्हशय्यास्तरणोचितास्सदा क्षितावनाथा इव शेरते हताः
दिनक्षये हि श्वशृगालवायसा बकास्सुपर्णाश्च वृकास्तरक्षवः
वयांस्यसृक्पास्त्वथ रक्षसां गणाः पिशाचसङ्घाश्च नदन्ति भैरवम्
त्वचो विभिन्दन्ति पिबन्त्यसृग्वसां वमन्ति मज्जां पिशितान्यदानि च
वपा विलुम्पन्ति हसन्ति भान्ति च प्रकर्षमाणाः कुणपान्यनेकशः
शरीरसङ्घाटवहा ह्यसृग्जला रथोडुपा कुञ्जरशैलसङ्कटा
मनुष्यशीर्षोपलमांसकर्दमा प्रविद्धनानाविधशस्त्रमालिनी
भयावहा वैतरणीव दुस्तरा प्रवर्तिता योधवरैस्तदा नदी
उवाह मध्येन रणाजिरं भृशं भयानका दीनमृतप्रवाहिनी
पिबन्ति च स्नान्ति च यत्र दुर्दृशाः पिशाचसङ्घा विविधास्सुभैरवाः
सुनन्दिताः प्रणभृतां क्षयङ्करास्समानभक्ताश्श्वसृगालपक्षिणः
तथा तदायोधनमुग्रदर्शनं निशामुखे पितृपतिराष्ट्रसन्निभम्
निरीक्षमाणश्शनकैर्मुहुर्नरास्समुत्थितोरुण्डगणाभिसङ्कुलम्
अपेतविध्वस्तमहार्हभूषणं निपातितं शक्रसमं महारथम्
रणेऽभिमन्युं ददृशुस्तदा जना यथोढहव्यं सदसीव पावकम्