धृतराष्ट्रः-
तथा प्रविष्टं तरुणं सौभद्रं रथिनां वरम्
कुलानुरूपकर्माणं सङ्ग्रामेष्वपलायिनम्
आजानेयैस्सुबहुभिर्यान्तमश्वैस्त्रिहायनैः
प्लवमानमनीकानि के वीराः पर्यवारयन्
सञ्जयः-
अभिमन्युः प्रविश्यैव तावकान्निशितैश्शरैः
अकरोद्विमुखान्सर्वान्बलवान्पाण्डवात्मजः
पुनद्रोणः कृपः कर्णो द्रौणिस्सहबृहद्बलः
कृतवर्मा च हार्दिक्यष्षड्रथाः पर्यवारयन्
दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम्
सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत्
सौभद्रमितरे वीरा रथव्याघ्रास्त्वयोधयन्
तालमात्राणि चापानि विकर्षन्तो वधैषिणः
तांस्तु सर्वान्महेष्वासान्सर्वविद्यासु निष्ठितान्
व्यष्टम्भयद्रणे बाणैर्मुहूर्तमिव भारत
द्रोणं पञ्चाशता विद्ध्वा त्रिंशता च बृहद्बलम्
अशीत्या कृतवर्माणं कृपं षष्ट्या शितैश्शरैः
रुक्मपुङ्खैः प्रसन्नाग्रैराकर्णमभिनिस्सृतैः
अविध्यद्दशभिर्बाणैरश्वत्थामानमार्जुनिः
कर्णं च कर्णिना कर्णे पीतेन निशितेन च
फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा
पातयित्वा कृपस्याश्वानुभौ च पार्ष्णिसारथी
अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे
ततो बृन्दारकं वीरं कुरूणां कीर्तिवर्धनम्
पुत्राणां तव शूराणां पश्यतामवधीत्पुनः
तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत्
वरम्परममित्राणामारुजन्तमभीतवत्
स तु बाणैश्शितैस्तूर्णं प्रत्यविध्यत मारिष
पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः
तं द्रौणिर्विशिखैष्षष्ट्या तीक्ष्णवारैस्सुतेजनैः
उग्रैर्नाकम्पयद्विद्ध्वा मैनाकमिव पर्वतम्
स तु द्रौणिं त्रिसप्तत्या तिर्यग्धारैर्महायशाः
प्रत्यविध्यन्महारङ्गे बलवानप्तकारिणम्
तस्मिन्द्रोणश्शितान्बाणान्पुत्रगृध्नुर्न्यपातयत्
अश्वत्थामा पुनष्षष्टिं परीप्सन्पितरं वधात्
कर्णो द्वात्रिंशतिं भल्लान्कृतवर्मा चतुर्दश
बृहद्बलस्तु पञ्चाशत्कृपश्शारद्वतो दश
तांस्तु प्रत्यक्षिपत्सर्वान्दशभिर्दशभिश्शरैः
वद्यमानस्स सौभद्रो रुद्रः क्रुद्धः पशूनिव
तं कोसलानामधिपं कर्णिनापातायद्रथात्
तस्याश्वानार्जुनिश्चापं सूतं चापातयत्क्षितौ
कोसलानामधिपतिर्विरथः खङ्गर्च्मधृक्
इयेष चार्जुनेः कायाच्छिरो हर्तुं सकुण्डलम्
कोसलानां भर्तारं राजपुत्रं बृहद्बलम्
हृद्यविध्यात्पृषक्तेन स छिन्नहृदयोऽपतत्
अभज्यन्त सहस्राणि दश राजन्महात्मनाम्
सृजतामशिवा वाचः खड्गकार्मुकधारिणाम्
तथा बृहद्बलं हत्वा सौभद्रो व्यचरद्रणे
व्यष्टम्भयन्महेष्वासान्मोहयन्निव भारत