धृतराष्ट्रः-
यथा वदसि मे सूत एकस्य बहुभिस्सह
सङ्ग्रामं तुमुलं घोरं जयं चैव महात्मनः
अश्रद्धेयमिवाश्चर्यं सौभद्रस्याथ विक्रमम्
किन्तु नात्यद्भुतं तेषां धर्मो येषां व्यपाश्रयः
दुर्योधने च विमुखे राजपुत्रशते हते
सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः
सञ्जयः-
संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना रोमहर्षणाः
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये
हतान्भ्रातॄन्पितॄन्पुत्रान्सम्बन्धीन्बान्धवानपि
उत्सृज्योत्सृज्य गच्छन्ति त्वरयन्तो हयद्विपान्
तां प्रभग्नां चमूं दृष्ट्वा द्रोणो द्रौणिर्बृहद्बलः
कृपो दुर्योधनः कर्णः कृतवर्माथ सौबलः
अभिद्रुतात्सुसङ्क्रुद्धास्सौभद्रमपलायिनम्
तेऽपि पौत्रेण ते राजन्प्रायशो विमुखीकृताः
सौभद्रेण महाराज शक्रप्रतिमतेजसा
एकस्तु सुखसंवृद्धो बाल्याद्दर्पाच्च निर्भयः
इष्वस्त्रकुशलश्शूरो लक्ष्मणोऽर्जुनिमभ्ययात्
तमन्वगेवास्य पिता पुत्रगर्ध्यन्ववर्तत
अनुदुर्योधनं चान्ये सन्निवृत्ता महारथाः
तं तु वै सिपिचुर्बाणैर्मेघा गिरिमिवाम्बुभिः
स च तान्प्रममाथैको विष्वग्वातो यथाऽम्बुदान्
अत्यन्तसुखसंवृद्धं देवैरपि दुरासदम्
आससाद रणे कार्ष्णिर्मत्तो मत्तमिव द्विपम्
सिंहशाबो वने यद्वत्पुण्डरीकशिशुं यथा
लक्ष्मणेन तु सङ्गम्य सौभद्रश्शुभलक्षणः
शरैस्सुनिशितैश्चैव बाह्वोरुरसि चार्पयत्
समक्रुध्यन्महाबाहुर्दण्डाहत इवोरगः
पौत्रस्तव महाबाहुस्तव पौत्रमभाषत
अभिमन्युः-
सुदृष्टः क्रियतां लोको यमलोकं गमिष्यसि
पश्यतां पार्थिवानां च नयामि यमसादनम्
सञ्जयः-
एवमुक्त्वा ततो भल्लं सौभद्रः परवीरहा
उद्बबर्ह महाबाहुर्निर्मुक्तोरगसन्निभम्
स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम्
सुनासं सुभ्रु केशान्तं शिरोऽहार्षीत्सकुण्डलम्
पौत्रस्तु तव दुर्धर्षं लक्ष्मणं प्रियदर्शनम्
पितुस्समीपे तिष्ठन्तं प्राहिणोद्यमसादनम्
अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम्
लक्ष्मणं निहतं दृष्ट्वा हाहेत्युच्चुक्रुशुर्जनाः
ततो दुर्योधनः क्रुद्धः प्रिये पुत्रे निपातिते
घ्नतैनमिति चुक्रोश क्षत्रियान्क्षत्रियर्षभः
ततो द्रोणः कृपः कर्णो द्रोणपुत्रो बृहद्बलः
कृतवर्मा च हार्दिक्यष्षड्रथाः पर्यवारयन्
स तान्विद्ध्वा शितैर्बाणैर्विमुखीकृत्य चार्जुनिः
वेगेनाभ्यद्रवत्क्रुद्धस्सैन्धवं च महाबलम्
आवव्रुस्तस्य पन्थानं गजानीकेन दंशिताः
कलिङ्गाश्च निषादाश्च क्राथपुत्रश्च वीर्यवान्
तैर्नदद्भिर्यथाऽऽदित्यो घनाच्छन्नो विशां पते
ततस्तत्कुञ्जरानीकं व्यधमद्धृष्टमार्जुनिः
यथा खिलान्नित्यगतिर्जलदाञ्शतशोऽम्बरे
ततः काथं शरव्रातैरार्जुनिस्समवारयन्
अथेतरे सन्निवृत्ताः पुनर्द्रोणमुखा रथाः
परमास्त्राणि धुन्वानास्सौभद्रमभिदुद्रुवुः
तान्निवार्यार्जुनिर्बाणैः क्राथपुत्रमपोथयत्
शरौघेणाप्रमेयेण त्वरमाणो जिघांसया
सधनुर्बाणकेयूरौ बाहू समुकुटं शिरः
छत्रं ध्वजं नियन्तारं अश्वांश्चास्य न्यपातयत्
कुलशीलश्रुतधनैः कान्त्या शस्त्रबलेन च
युक्ते तस्मिन्हते शूराः प्रायशो विमुखाऽभवन्