सञ्जयः-
आददानस्तु शूराणामायूंष्यभवदार्जुनिः
अन्तकस्सर्वभूतानां साक्षात्काल इवागतः
स शक्रसमविक्रान्तश्शक्रसूनोस्सुतो बली
अभिमन्युस्तदाऽनीकं लोडयन्बह्वशोभत
प्रविश्यैव तु राजेन्द्र क्षत्रियाणां यमोपमः
सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्बणम्
सत्यश्रवसि चाक्षिप्ते त्वरमाणा महारथाः
प्रगृह्य विपुलं शस्त्रमभिमन्युमभिद्रवन्
अहम्पूर्वमहम्पूर्वमिति क्षत्रियपुङ्गवाः
स्पर्धमानाः इवायान्ति जिघांसन्तोऽर्जुनात्मजम्
क्षत्रियाणामनीकानि प्रद्रुतान्यभिधावताम्
अग्रसत्तिमिरासाद्य क्षुद्रमत्स्यानिवार्णवे
ये ये समागतास्तस्य समीपमपलायिनः
न ते प्रतिन्यवर्तन्ते समुद्रादिव सिन्धवः
महाग्रहगृहीतेव वातवेगभयार्दिता
सन्त्रस्ता वाहिनी तुभ्यं नौरिवासीन्महार्णवे
अथ रुक्मरथो नाम मद्रेश्वरसुतो बली
त्रस्तामाश्वासयन्सेनामत्रस्तो वाक्यमब्रवीत्
रुक्मरथः-
अलं त्रासेन वश्शूरास्स मामेपोऽभिवर्तते
अहमेनं ग्रहीष्यामि जीवग्राहं न संशयः
सञ्जयः-
एवमुक्त्वा तु सौभद्रमभिदुद्राव वीर्यवान्
सुकल्पितेन महता स्यन्दनेन विराजता
सोऽभिमन्युं त्रिभिर्बाणैर्विद्ध्वा वक्षस्यथानदत्
त्रिभिश्च दक्षिणे बाहौ सव्ये च निशितैस्त्रिभिः
सोऽभिमन्युस्ततस्तस्य छित्त्वा प्रणदतो बली
तस्य सेष्वसनं सव्यं दक्षिणं च ससायकम्
भुजौ शिरश्च स्वक्षिभ्रु क्षितौ क्षिप्रमपातयत्
दृष्ट्वा रुक्मरथं राजन्पुत्रं शल्यस्य मानिनम्
जीवग्राहं जिघृक्षन्तं सौभद्रेण निपातितम्
सङ्ग्रामदुर्मदा राजन्राजपुत्राः प्रहारिणः
वयस्याश्शल्यपुत्रस्य सुवर्णविकृतध्वजाः
अनिमात्राणि चापानि विकर्षन्तो महाबलाः
आर्जुनिं रथवंशेन समन्तात्पर्यवारयन्
शूरैश्शिक्षाबलोपेतैस्तरुणैरत्यमर्षिभिः
दृष्ट्वैकं समरे शूरं सौभद्रं परावारितम्
छाद्यमानं शरव्रातैर्हृष्टो दुर्योधनोऽभवत्
वैवस्वतस्य भवनं गतमेनममन्यत
सुवर्णपुङ्खैरिषुभिर्नानालिङ्गैस्त्रिभिस्त्रिभिः
अदृश्यमार्जुनिं चक्रुर्निमेषात्ते नृपात्मजाः
ससूताश्वध्वजं तस्य स्यन्दनं तं च मारिष
आचितं प्रत्यपश्याम श्वाविधं शललैरिव
स गाढमिपुभिर्विद्धस्तोत्रैर्गज इव श्वसन्
गान्धर्वीमस्त्रमायां च रथमायां च योजयन्
येऽर्जुनेन तपस्तप्त्वा गन्धर्वेभ्यस्समाहृते
तुम्बुरुप्रमुखैर्दत्ते ताभ्यां तान्मोहयद्रिपून्
एकस्तु शतधा राजन्दृश्यते स्म सहस्रधा
अलातचक्रवत्क्षिप्रं भ्रमन्नस्त्राण्दर्शयत्
रथचर्यास्त्रमायाभ्यां मोहयित्वा परन्तपः
बिभेद शतधाऽनीकं क्षत्रियाणां भयं दधत्
भीतानीकाश्च दिङ्मूढा भूयस्सन्त्रस्तदेतसः
भल्लैरुत्कृत्तशिरसः परलोकमथाविशन्
प्राणाः प्राणभृतां सङ्ख्ये प्रेषिता निशितैश्शरैः
राजन्प्रयान्त्यमुं लोकं शरीराण्यवनिं ययुः
धनूंष्यश्वान्नियन्तॄंश्च ध्वजान्बाहूंश्च साङ्गदान्
शिरांसि च शितैर्बाणैस्तेषां चिच्छेद फाल्गुनिः
चूतारामो यथा भग्नः पञ्चवर्षः फलोपगः
राजपुत्रशतं तद्वत्सौभद्रेण निपातितम्
क्रुद्धाशीविषसङ्काशान्सुकुमारान्सुखोचितान्
रथिनः कुञ्जरानश्वान्पदातींश्चावमर्दितान्
एकेन निहतान्दृष्ट्वा भीतो दुर्योधनोऽभवत्
दृष्ट्वा दुर्योधनः क्षिप्रमुपायात्तममर्षितः
तयोः क्षणमिवापूर्वस्सङ्ग्रामस्समभून्नृप
अथाभवत्ते विमुखः पुत्रश्शरशताहतः