सञ्जयः-
सैन्धवेन निरुद्धेषु जयगृद्धिषु पाणडुषु
सुघोरमभवद्युद्धं त्वदीयानां परैस्सह
प्रविश्य त्वार्जुनिस्सेनां सत्यसन्धो दुरासदाम्
व्यक्षोभयत तेजस्वी सागरं मकरो यथा
तं तथा शरजालेन च्छादयन्तमरिन्दमम्
यथा प्रधानास्सौभद्रमभ्ययुः कुरुसत्तमाः
तेषां तस्य च सम्मर्दो दारुणस्समपद्यत
सृजतां शरवर्षाणि संसक्तममितौजसाम्
रथव्रातेन संयुक्तस्तैरमित्रैस्तथाऽऽर्जुनिः
वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम्
तं च विव्याध बलवांस्तस्य चाश्वानजिह्मगैः
वातायमानैस्तैरश्वैर्निसञ्ज्ञोऽपहृतो रणात्
तेनान्तरेणाभिमन्योर्यन्ता निस्सारयद्रथम्
रथव्रजास्ततो हृष्टास्साधुसाध्विति चुक्रुशुः
तं तु सिंहमिव क्रुद्धं प्रमथ्नन्तं शरैररीन्
आरादायान्तमालोक्य वसातिस्सोऽभ्ययाद्द्रुतम्
सोऽभिमन्युं शरैष्षष्ट्या रुक्मपुङ्खैरवाकिरत्
अब्रवीच्च न मे जीवञ्जीवतो वीर मोक्ष्यसे
तमयस्मयवर्माणमिषुणा त्वाशुपातिना
हृदि विव्याध सौभद्रस्स पपात ममार च
वसातिं निहतं दृष्ट्वा क्रुद्धाः क्षत्रियपुङ्गवाः
परिवव्रुस्तदा राजंस्तव पौत्रं जिघांसवः
विष्फारयन्तश्चापानि नानारूपाण्यनेकशः
तद्युद्धमभवद्रौद्रं सौभद्रस्यारिभिस्सह
तेषां शरान्सेष्वसनाञ्शरीराणि शिरांसि च
सकुण्डलानि स्रग्वीणि क्रुद्धश्चिच्छेद फाल्गुनिः
सखड्गास्साङ्गुलित्राणास्सपट्टसपरश्वथाः
अदृश्यन्त भुजाश्छिन्ना नानाभरणभूषिताः
स्रग्भिराभरणैर्वस्त्रैर्पतितैर्विविधैर्ध्वजैः
वर्मभिश्चर्मभिर्हारैर्मुकुटैश्छत्रचामरैः
अवस्करैरधिष्ठानैरीषादण्डकबन्धुरैः
चक्रैर्विमयितैरक्षैर्भग्नैश्च बहुधा शरैः
पादातैरनुकर्षैश्च रथिसारथिवाजिभिः
रथैश्च भग्नैर्नागैश्च पादातैश्चास्तृता मही
निहतैः क्षत्रियैश्शूरैर्नानाजनपदेश्वरैः
जयगृद्ध्रैर्हतैभूमिर्दारुणा प्रियदर्शना
दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा
रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत
काञ्चनं यद्धि दस्यासीद्वर्म चाभरणानि च
धनुषश्च शराणां च तत्तदेवावदृश्यते
तं तदा नाशकद्द्रष्टुं चक्षुर्भ्यां कश्चिदाहवे
आददानं शरैर्योधान्मध्ये सूर्यमिव स्थितम्