धृतराष्ट्रः-
बालमत्यन्तसुखिनं स्वबाहुबलदर्पितम्
युद्धेषु कुशलं वीरं कुलपुत्रं तनुत्यजम्
गाहमानमनीकानि कशोराश्वैस्त्रिहायनैः
अस्ति यौधिष्ठिरात्सैन्यादेकोऽप्यनुपतन्रथी
सञ्जयः-
युधिष्ठिरो भीमसेनश्शिखण्डी सात्यकिर्यमौ
धृष्टद्युम्नो विराटश्च द्रुपदः केकयास्तथा
धृष्टकेतुश्च संरब्धो मात्स्याश्चाभ्यपतन्रणे
अन्वधावन्परीप्सन्तो व्यूढानीकाः प्रहारिणः
तान्दृष्ट्वा द्रवतश्शूरांस्त्वदीया विमुखाऽभवन्
ततस्तद्विमुखं दृष्ट्वा तव सूनोर्महद्बलम्
जामाता तव तेजस्वी विष्टम्भयिपुराद्रवत्
सैन्धवस्य तु यो राज्ञः पुत्रो राजा जयद्रथः
स पुत्रगृद्धिनः पार्थान्सहसैन्यानवारयत्
उग्रधन्वा महेष्वासो दिव्यमस्त्रमुदीरयन्
वार्धक्षत्रिरवासेधत्प्रभिन्नानिव कुञ्जरान्
धृतराष्ट्रः-
अतिभारमहं मन्ये सैन्धवे सञ्जयाहितम्
यदेकः पाण्डवान्क्रुद्धान्पुत्रगृध्नूनवारयत्
अत्यद्भुतमहं मन्ये बलं शौर्यं च सैन्धवे
तस्य प्रब्रूहि मे रूपं कर्म चाग्रं महात्मनः
किं दत्तं हुतमिष्टं वा स्वधीतमथवा तपः
दमो वा ब्रह्मचर्यं वा सूत यच्चास्य सत्तम
देवं कतममाराध्य विष्णुमीशानमब्जजम्
सिन्धुराट्तनये सक्तान्क्रुद्धः पार्थानवारयत्
नैवं कृतं महत्कर्म भीष्मेणाज्ञासिषं तथा’
सिन्धुराट्तनयस्त्वेको यथा पार्थानवारयत्
सञ्जयः-
द्वीपदीहरणे यत्तद्भीमसेनेन निर्जितः
मानात्स तप्तवान्राजन्वरार्थी सुमहत्तपः
इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यस्सन्निवर्त्य सः
क्षुत्पिपासातपसहः कृशो धमनिसन्ततः
देवमाराधयच्छर्वं गृणन्ब्रह्म सनातनम्
भक्तानुकम्पी भगवांस्तस्मिंश्चक्रे ततो दयाम्
तस्य चाल्पेन कालेन नियमेन सुतोषितः
प्रीतो महेश्वरस्तस्मै वरं चेमं ददौ तथा
स तु वव्रे वरं तत्र पाण्डवेयानहं रणे
वारयेयं रथेनैकस्समस्तानिति भारत
एवमुक्तस्तु देवशो जयद्रथमथाव्रवीत्
महेश्वरः-
ददामि ते वरं सौम्य विना पार्थं जयद्रथ
वारयिष्यसि सङ्ग्रामे चतुरः पाण्डुनन्दनान्
सञ्जयः-
एवमस्त्विति देवेशमुक्त्वाऽऽगात्स्वपुरं तदा
तेनोक्तस्तमृते पार्थं जयं तस्मै वरं ददौ
एकाहमिति राजेन्द्र तत्रैवादर्शनं ययौ
स तेन वरदानेन परमास्त्रबलेन च
एकस्संवारयामास पाण्डवानामनीकिनीम्
तस्य ज्यातलघोषेण क्षत्रियान्भयमाविशत्
परेषां तव सैन्यस्य हर्षः परमकोऽभवत्
दृष्ट्वा तु क्षत्रिया भारं सैन्धवे महदर्पितम्
उत्क्रुश्याभ्यद्रवन्राजन्येन यौधिष्ठिरं बलम्