सञ्जयः-
ततस्समभवद्युद्धं तयोः पुरुषसिंहयोः
तस्मिन्काले महाबाहुस्सौभद्रः परवीरहा
सशरं कार्मुकं छित्त्वा लाघवेन व्यपातयत्
दुश्शासनं शरैस्तीक्ष्णैः सन्ततक्ष समन्ततः’
शरविक्षतगात्रं तु प्रत्यमित्रमवस्थितम्
अभिमन्युर्महाराज दुश्शासनमथाब्रवीत्
अभिमन्युः-
दिष्ट्या पश्यामि सङ्ग्रामे मानिनं शत्रुमागतम्
निष्ठुरं त्यक्तधर्माणमाक्रोशनपरायणम्
यत्सभायां त्वया राज्ञो धृतराष्ट्रस्य पश्यतः
कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः
जयोन्मदेन संरब्धं बह्वबद्धं प्रभाषितम्
अक्षकूटं समाश्रित्य सौबलेन दुरात्मना
परवित्तापहारस्य कोधस्याप्रशमस्य च
लोभस्य ज्ञानहीनस्य कृत्स्नस्यापनयस्य च
पितॄणां मम राज्यस्य दुर्जयस्योग्रधन्विनाम्
तत्त्वमिदमनुप्राप्तं तस्य कोपान्महात्मनः
सद्यः कृतस्याधर्मस्य फलमाप्स्यसि दुर्मते
पतितास्म्यद्य पाप त्वां सर्वसैन्यस्य पश्यतः
अद्याहमनृणस्तस्य कोपस्य भविता रणे
अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः
अद्य कौरव्य भीमस्य भवितास्म्यनृणो भुवि
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम्
सञ्जयः-
एवमुक्त्वा महाबाहुर्बाणं दुश्शासनान्तकम्
सन्दधे परवीरघ्नः कालाग्निसमवर्चसम्
तेन तं जत्रुदेशे वै विद्ध्वा परपुरञ्जयः
अथैनं पञ्चविंशत्या पुनरन्यैस्समर्पयत्
शरैरग्निसमस्पर्शैराकर्णसमचोदितैः
स गाढविद्धो व्यथितस्स्यन्दनोपस्थ आविशत्
दुःशासनो महाराज कश्मलोपहतो भृशम्
सारथिस्त्वरमाणस्तु दुश्शासनमचेतनम्
रणमध्यादपोवाह सौभद्रशरपीडितम्
पाण्डवा द्रौपदेयाश्च विराटस्सह सृञ्जयैः
पाञ्चालाः केकयाश्चैव सिंहनादमथानदन्
वादित्राणि च सर्वाणि नानालिङ्गानि हृष्टवत्।
प्रावादयन्तस्संहृष्टाः पाण्डूनां तत्र सैनिकाः
स्मयमानास्स्म पश्यन्ति सौभद्रस्य विचेष्टितम्
अत्यन्तवैरिणं दृष्ट्वा दृप्तं शत्रुं पराजितम्
धर्ममारुतशक्राणां प्रतिमाश्चाश्विनोश्शुभाः
धारयन्तो रथाग्र्येषु द्रौपदेया महारथाः
सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ
केकया धृष्टकेतुश्च पाञ्चाला मात्स्यसृञ्जयाः
पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः
अभ्यद्रवन्त संहृष्टा द्रोणानीकं बिभित्सवः
अथाभवन्महद्युद्धं त्वदीयानां परैस्सह
जयमाकाङ्क्षमाणानामतिघोरमभीतवत्
अथ दुर्योधनो राज राधेयमिदमब्रवीत्
दुर्योधनः-
पश्य दुश्शासनं वीरमभिमन्युवशं गतम्
प्रतपन्तमिवादित्यं निघ्नन्तं क्षत्रियर्षभान्
सौभद्रममितस्त्रातुमभिधावन्ति पाण्डवाः
सञ्जयः-
ततः कर्णश्शरैस्तीक्ष्णैरभिमन्युं महारथम्
अभ्यवर्षत्सुसङ्क्रुद्धः पुत्रस्य प्रियकृत्तव
तस्य चानुचरांस्तीक्ष्णैर्विष्टभ्य परमेषुभिः
अवज्ञापूर्वकं कर्णस्सौभद्रं प्रत्यविध्यत
अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलाशितैः
अविध्यत्त्वरितो राजन्द्रोणं प्रेप्सुर्महारथः
तं तथा नाशकत्कश्चिद्द्रोणाद्वारयितुं रणे
आरुजन्तं रथश्रेष्ठान्वज्रहस्तामिवासुरान्
ततः कर्णो जयप्रेष्मू राजन्सैन्ये पराजिते
सौभद्रं शतशोऽविध्यत्परमास्त्राणि दर्शयन्
सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान्
समेत्य शत्रुं दुर्धर्षमभिमन्युमपीडयत्
स तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः
समरेऽमरसङ्काशस्सौभद्रो न विपीदति
ततश्शिलाशितैस्तीक्ष्णैर्भल्लैस्सन्नतपर्वभिः
छित्त्वा धनूंषि वीराणामार्जुनिः कर्णमर्दयत्
तस्मै दिक्प निशितं शरं परमसंहितम्
स ध्वजं कार्मुकं चास्य छित्त्वा भूमौ न्यपातयत्
ततः कृच्छ्रगतं दृष्ट्वा कर्णं कर्णादनन्तरः
सौभद्रमभ्ययात्तूर्णं दृढमायम्य कार्मुकम्
तत उच्चुक्रुशुस्सर्वे पार्थास्सानुचरास्तथा
वादित्राण्यथ सञ्जघ्नुस्सौभद्रं चापि तुष्टुवुः