धृतराष्ट्रः-
तथा प्रमथमानं तं महेष्वासानजिह्मगैः
आर्जुनिं मामकास्सङ्ख्ये कस्तत्र समवारयन्
सञ्जयः-
शृणु राजन्कुमारस्य रणे विक्रीडितं महत्
बिभित्सतो रथानीकं भारद्वाजेन रक्षितम्
मद्रेशं सादितं दृष्ट्वा सौभद्रेणाश्लुगैश्शरैः
शल्यादवरजः क्रुद्धः किरन्बाणान्समभ्ययात्
अर्जुनिं दशभिर्विद्ध्वा साश्वयन्तारमाशुगैः
उदक्रोशन्महाशब्दं तिष्ठ तिष्ठेति चाब्रवीत्
तस्याऽऽर्जुनिश्शिरोग्रीवं पाणिपादं धनुर्हयान्
छत्रं ध्वजं नियन्तारं त्रिवेणुं चाप्युपस्करम्
चक्रं युगेषां तूणीराननुकर्षं च सायकैः
पताकां चक्रगोप्तारौ सर्वोपकरणानि च
व्यधमल्लाघवात्तस्य ददृशो नात्र कश्चन
स पपात क्षितौ क्षीणः प्रविद्धाभरणाम्बरः
वायुनेव महाचैत्यस्समूलश्चोरुवेदिकः
अनुगाश्चस्य वित्रस्ताः विद्रुतास्सर्वतोदिशम्
तत्तु कर्मार्जुनेर्द्दृष्ट्वा प्रणेदुस्सर्वतोदिशम्
स्वरेण सर्वभूतानि साधु साध्विति भारत
शल्यभ्रातर्यथारुग्णे हताश्वास्तव सैनिकाः
कुलाधिवासनामानि श्रावयन्तो यथाऽऽर्जुनिम्
अभ्यद्रवन्सुसङ्क्रुद्धा विविधायुधपाणयः
रथैरश्वैर्गजैश्चान्यैः पादाताश्च मदोत्कटाः
बाणशब्देन महता रथनेमिस्वनेन च
हुङ्कारैः क्ष्वेडितोत्कृष्टैस्सिंहनादैस्सगर्जितैः
ज्यातलत्रस्वनैरन्ये गर्जन्तोऽर्जुननन्दनम्
ब्रुवाणाश्च न नो जीवन्मोक्ष्यसे जीवितादिति
तांस्तथाऽऽद्रवतो दृष्ट्वा सौभद्रः प्रहसन्निव
यो योऽस्मै प्राहरत्पूर्वं तं तं विव्याध पत्रिभिः
सन्दर्शयिष्यन्नस्त्राणि चित्राणि च लघूनि च
आर्जुनिस्समरे शूरो मृदुपूर्वमयोधयत्
वासुदेवादुपादत्त यदस्त्रं यद्धनञ्जयात्
सर्वं सन्दर्शयत्कार्ष्णिः कृष्णाभ्यामविशेषतः॥
दूरमस्यन्गुरुं भारं साधयंश्च पुनः पुनः
सन्दधद्विसृजंश्चेषून्निर्विशेषमदृश्यत
चापमण्डलमेवास्य स्फुरदेव प्रकाशते
तमो घ्नतस्सुदीप्तस्य सवितुर्मण्डलं यथा
ज्याशब्दश्शुश्रुवे तस्य तलशब्दश्च भारत
महाशनिमुचः काले नीरदस्येव निस्स्वनः
ह्रीमानमर्षी सौभद्रो मानकृत्प्रियदर्शनः
सम्मिमानयिषुर्वीरानिष्वासांश्चाप्ययुध्यत
मृदुर्भूत्वा महाराज दारुणस्समपद्यत
वर्षाव्यतीतो भगवाञ्शरदीव दिवाकरः
शरान्विपाठान्विशिखान्स्वर्णपुङ्खाञ्शिलाशितान्
सहस्रशोऽमुचत्क्रुद्धो गभस्तीनिव भास्करः
क्षुरप्रैर्वत्सदन्तैश्च विपाठैश्च महायशाः
नाराचैरर्धचन्द्राभैर्भल्लैरञ्जलिकैरपि
अभ्यद्रवद्रथानीकं भारद्वाजस्य पश्यतः
तत्सैन्यमभवत्सर्वं विमुखं शरपीडितम्