सञ्जयः-
तां प्रभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा
दुर्योधनो भृशं क्रुद्धस्स्वयं सौभद्रमभ्ययात्
ततो राजानमावृत्तं सौभद्रेण युयुत्सया
द्रोणो दृष्ट्वाऽब्रवीद्वीरान्पर्याप्नुत नराधिपम्
पुराऽभिमन्युर्लक्षं नः पश्यतां हन्ति वीर्यवान्
अभिद्रवत मा भैष्ट क्षिप्रं रक्षत कौरवम्
कृतज्ञानबलोत्सेधास्सुहृदो जितकाशिनः
त्रास्यमाना भयाद्वीराः परिवव्रुस्तवात्मजम्
द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः
बृहद्बलो मद्रराजो भूरिर्भूरिश्रवाश्शलः
पौरवो वृषसेनश्च विसृजन्तश्शिताञ्शितान्
सौभद्रं शरवर्षेण घ्नन्तो लोकमहारथाः
सम्मोहयित्वा सङ्ग्रामे दुर्योधनममोचयन्
आस्याद्ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः
ताञ्शरौघेण महता साश्वसूतान्महारथान्
विमुखीकृत्य सौभद्रस्सिंहनादमथानदत्
तस्य नादं ततश्श्रुत्वा सिंहस्येवामिषैषिणः
नामृष्यन्त सुसंरब्धाः पुनर्द्रोणमुखा रथाः
तदैनं कोष्ठकीकृत्य रथवंशेन मारिष
व्यसृजन्निषुजालानि नानालिङ्गानि सङ्घशः
तान्यन्तरिक्षे चिच्छेद पौत्रस्तव शितैश्शरैः
तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत्
ततो रथाः पदात्योघाः कुञ्जरास्सादिनश्च ह
कोपितास्तेन शूरेण शरैराशीविषोपमैः
परिवव्रुर्जिघांसन्तस्सौभद्रमपराजितम्
समुद्रवदपर्यन्तं त्वदीयं तद्बलार्णवम्
दधारैकोऽर्जुनिर्बाणैर्वेलेवोद्वृत्तमर्णवम्
धीराणां युध्यमानानां निघ्नतामितरेतरम्
अभिमन्योः परेषां च नासीत्कश्चित्पराङ्मुखः
विमथ्यमाने सङ्ग्रामे तस्मिन्नतिभयङ्करे
दुष्षहो नवभिर्बाणैरभिमन्युमविध्यत
दुश्शासनो द्वादशभिर्कृपश्शारद्वतस्त्रिभिः
द्रोणस्तु सप्तदशभिश्शरैराशीविषोपमैः
विविंशतिस्तु विंशत्या कृतवर्मा च सप्तभिः
बृहद्बलस्तथाऽष्टाभिरश्वत्थामा च पञ्चभिः
भूरिश्रवास्त्रिभिर्बाणैर्मद्रेशष्षड्भिराशुगैः
द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः
स तु तान्प्रतिविव्याध त्रिभिस्त्रिभिरजिह्मगैः
नृत्यन्निव महारङ्गे चापहस्तो रणाजिरे
ततोऽभिमन्युस्सङ्क्रुद्धस्ताड्यमानस्तवात्मजैः
विदर्शयिष्यन्सुमहच्छिक्षबलकृतं बलम्
गरुडानिलरंहोभिर्यन्तुः प्रेष्यकरैर्हयैः
अभ्यद्रवत तं कार्ष्णिमश्मकेन्द्रः कृतत्वरः
अश्वांश्चाश्मकमादस्त्वरमाणोऽभ्यवारयन्
विव्याध चैनं दशभिर्बाणैस्तिष्ठेति चाब्रवीत्
तस्याभिमन्युर्दशभिर्बाणैस्सूतं हयान्ध्वजम्
बाहू धनुश्शिरश्चोर्व्यां स्मयमानोऽभ्यपातयत्
ततस्तस्मिन्हते वीरे सौभद्रेणाश्मकेश्वरे
सञ्चचाल बलं तुभ्यं पलायनपरायणम्
ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट् शलः
शल्यो भूरिश्रवाः क्राथस्सोमदत्तो विविंशतिः
वृषसेनस्सुषेणश्च कुण्डभेदी प्रमर्दनः
बृन्दारको ललिन्ध्रश्च प्रबाहुर्दीर्घलोचनः
सोऽतिविद्धो महेष्वासैरभिमन्युरजिह्मगैः
दुर्योधनश्च सङ्क्रुद्धश्शरवर्षैरवाकिरन्
शरमादत्त कर्णाय परकायावभेदनम्
तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः
प्राविशद्धरणीं वेगाद्वल्मीकमिव पन्नगः
स तेन विप्रकारेण व्यथितो विह्वलन्निव
सञ्चचाल रणे कर्णः क्षितिकम्पे यथाऽचलः
अथान्यैर्निशितैर्बाणैस्सुषेणं दीर्घलोचनम्
कुण्डभेदिं च सङ्क्रुद्धस्त्रिभिस्त्रीन्न्यहनद्बली
कर्णस्तु पञ्चविंशत्या नाराचानां समार्पयत्
अश्वत्थामा च सप्तत्या कृतवर्मा च सप्तभिः
स शराचितसर्वाङ्गः क्रुद्धश्शक्रात्मजात्मजः
विचरन्ददृशे सैन्ये पाशहस्त इवान्तकः
स शल्यं शरवर्षेण समीपस्थामिवाकिरत्
उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन्
ततस्स विद्धोऽस्त्रविदा मर्मभिद्भिराशुगैः
शल्यो राजन्रथोपस्थे निषसाद मुमोह च
तं हि दृष्ट्वा तथा विद्धं सौभद्रेण यशस्विना
सम्प्राद्रवच्चमूस्सर्वा भारद्वाजस्य पश्यतः
प्रेक्षन्तस्तं महेष्वासं रुक्मपुङ्खैस्समर्पितम्
त्वदीया प्रपलायन्त मृगास्सिंहार्दिता इव
सौभद्रशरनिर्मिम्नास्समरेऽमरविक्रमाः
एवं शल्यो विमृदितस्तव पौत्रेण भारत
विपुलबलयशास्सुपूज्यमानस्सुरमुनिचारणसिद्धसाध्यसङ्घैः
अवनितलगतैश्च भूतसङ्घैरतिविबभौ हुतभुग्यथाऽऽज्यसिक्तः