सञ्जयः-
सौभद्रस्तु वचश्श्रुत्वा धर्मराजस्य भारत
अचोदयच्च यन्तारं द्रोणानीकाय भारत
तेन सञ्चोद्यमानस्तु याहि याहीति सारथिः
प्रत्युवाच ततो राजन्नभिमन्युमिदं वचः
सुमित्रः-
अतिभारोऽयमायुष्मन्नाहितस्त्वयि पाण्डवैः
सम्प्रधार्यासकृद्बुद्ध्या ततस्त्वं योद्धुमर्हसि
सञ्जयः
द्रोणो हि कृतवान्यत्नं शस्त्रास्त्रकृतनिश्रमः
त्वं तु बालस्स बलवान्सङ्ग्रामाणामकोविदः
ततोऽभिमन्युः प्रहसं तं सारथिमथाब्रवीत्
अभिमन्युः-
विस्मयः को हि मे द्रोणे समग्रे क्षत्र एव वा
व्यवसायो हि मे योद्धुं रणोत्सवसमुद्यतः
ऐरावतगतं शक्रं सहामरगणं रणे
अथवा रुद्रमीशानं सर्वभूतगणैर्वृतम्
युध्येयमद्य समरे न मे क्षत्रेऽस्ति विस्मयः
यच्चैतत्पश्यसे सूत सयोधाश्वरथद्विपम्
तन्ममाद्य द्विषत्सैन्यं कलां नार्हति षोडशीम्
अपि तं विष्णुमजितं मातुलं प्राप्य संयुगे
पितरं चार्जुनं लोके न भीर्मामुपसर्पति
नाहं पार्थेन जातस्तु न च जातस्सुभद्रया
यदि मे संयुगे कश्चिज्जीवमानस्य जीवति
यदि चैकरथेनाहं समग्रं क्षत्रमण्डलम्
न कुर्मि शतधा युद्धे न भवाम्यर्जुनात्मजः
सञ्जयः-
एवमप्युच्यमानस्स सारथिस्तं पुनः पुनः
वीर ते तेन मा युद्धमिति सौभद्रमब्रवीत्
अभिमन्युश्च तां वाचं कदर्थीकृत्य सारथेः
याहीत्येवाब्रवीदेनं द्रोणानीकाय माचिरम्
ततस्सञ्चोदयामास हयानाशु त्रिहायनान्
नातिहृष्टमनास्सूतो हेमभाण्डपरिच्छदान्
ते प्रेषितास्सुमित्रेण द्रोणानीकाय वाजिनः
द्रोणमभ्यद्रवन्राजन्महावेगा महाबलाः
तं तु दृष्ट्वा प्रयान्तं तु सर्वे द्रोणमुखा रथाः
अभ्यवर्तन्त कौरव्याः पाण्डवाश्च तमन्वयुः
युयुत्सया द्रोणमुखान्महारथान्समासदत्सिंहशिशुर्यथा द्विपान्
ते विंशतिपदे यत्तास्सम्प्रहारमकुर्वत
आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव
शूराणां युध्यमानानां निघ्नतामितरेतरम्
सङ्ग्रामस्तुमुलो राजन्प्रावर्तत सुदारुणः
विमथ्यमाने सङ्ग्रामे तस्मिन्नतिभयङ्करे
द्रोणस्य मिषतो व्यूहं भित्त्वा व्यचरदार्जुनिः
तदभेद्यमनाधृष्यं द्रोणानीकं सुदुर्जयम्
भित्त्वाऽऽर्जुनिरसम्भ्रान्तो विवेशाचिन्त्यविक्रमः
तं प्रविष्टमरातिघ्नं जिघांसन्तस्सहस्रशः
रथाश्वेभपदात्योघाः परिवव्रुरुदायुधाः
ततो वादित्रनिनदैः क्ष्वेडितोत्क्रुष्टगर्जितैः
फीट्कारैस्सिंहनादैश्च तिष्ठ तिष्ठेति निःस्वनैः
घोरैर्हलहलाशब्दैर्मा गास्तिष्ठेति मामिति
असावहममिष्येति प्रवदन्ति महीक्षितः
बृंहितैश्शिञ्जितैर्हासैः खुरनेमिस्वनैरपि
ते नादयन्तो वसुधा ह्यभिदुद्रुवुरार्जुनिम्
तेषामापततां वीरश्शीघ्रं शीघ्रमथो दृढम्
क्षिप्रं तानहनद्यातान्मर्मज्ञो मर्मभेदिभिः
ते हन्यमाना हि तथा नानालिङ्गैश्शितैश्शरैः
अभिपेतुस्तमेवाजौ शलभा इव पावकम्
ततस्तेषां शरीरैश्च शरीरावयवैश्च सः
सन्तस्तार क्षितिं क्षिप्रं कुशैर्वेदिमिवाध्वरे
बद्धगोधाङ्गुलित्राणान्सशरासनसायकान्
सासिचर्माङ्कुशाभीशून्सतोमरपरश्वथान्
गदाखड्गहुलप्रासान्सर्ष्टितोमरपट्टसान्
सभिण्डिपालपरिघान्सशक्तिनखरान्परान्
सप्रतोदमहाशङ्खान्सकुन्तान्सकचग्रहान्
समुद्गरक्षेपणीयान्सपाशान्परिघोपमान्
सकेयूराङ्गदान्बाहून्हृद्यगन्धानुलेपनान्
स चिच्छेदाऽऽर्जुनिर्वृत्तांस्त्वदीयानां सहस्रशः
तैस्स्फुरद्भिर्मही भाति बृहद्भिर्लोहितोक्षितैः
पञ्चास्यैः पन्नगैश्छिन्नैर्गरुडेनेव मारिष
सुनासाननकेशान्तैरव्रणैश्चारुकुण्डलैः
सन्दष्टौष्ठपुटैः क्रोधादसृगक्तैस्समन्ततः
चारुस्रङ्मुकुटोष्णीषैर्मणिरत्नविराजितैः
विनालनलिनाकारैर्दिवाकरशशिप्रभैः
हितप्रियंवदैः काले बहुभिः पुण्यगन्धिभिः
द्विषच्छिरोभिर्जगतीमवतस्तार फाल्गुनिः
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान्
समास्थितान्योधवरैर्दान्ताश्वान्साधुसारथीन्
समास्थितान्योधवरैर्दान्ताश्वान्साधुसारथीन्
विपताकाध्वजच्छत्रान्वितूणीरायुधानपि
विपताकाध्वजच्छत्रान्वितूणीरायुधानपि
प्रपातितोपस्तरणान्हतयोधान्सहस्रशः
विसूताश्वरथाभीशून्विशातायोक्रदण्डकान्
शरैर्विशकलीकुर्वन्दिक्षु सर्वास्वदृश्यत
वीषामुखान्वित्रिदण्डान्ध्वस्तावस्करबन्धुरान्
पुनर्द्विपान्द्विपारोहान्वैजयन्त्यङ्कुशध्वजान्
विजङ्घकूबराक्षांश्च विनेमींश्च व्यरानपि
तूणान्वर्माण्यथो कक्ष्या ग्रैवेयांश्च सकम्बलान्
विचक्रोपस्करोपस्थान्विकीर्णान्बन्धुरानपि
घण्टाः शुण्डाविषाणाग्राञ्छत्रमालाः पदानुगान्
प्रशातितोपकरणान् हययोधान्सहस्रशः
शरैर्विशकलीकुर्वन्दिक्षु सर्वास्वदृश्यत
पुनर्द्विपाद्विपारोहान्वैजयन्त्यङ्कुशध्वजान्
तूणीन्वर्माण्यथो कक्ष्या ग्रैवेयान्रक्तकम्बलान्
घण्टाकर्णान्विषाणाग्रान्क्षुरमालाः पदानुगान्
शरैर्निकृत्य सौभद्रश्शात्रवाणामशातयत्
वनायुजान्पार्वतीयान्काम्भोजाराट्टबाह्लिकान्
स्थिरवालधिकर्णाक्षाञ्जवनान्साधुवाहिनः
स्वारूढाञ्शिक्षितैर्योधैश्शक्त्यृष्टिप्रासप्राणिभिः
विध्वस्तचामरकुथान्विप्रविद्धप्रकीर्णकान्
निरस्तजिह्वादशनान्निष्कीर्णान्त्रयकृत्प्लिहान्
हतारोहान्भिन्नभाण्डान्क्रव्यादगणमोदनान्
निकृत्तवर्मकदलीञ्शकृन्मूत्रासृगाप्लुतान्
निपातयन्नश्ववरांस्तावकान्सोऽत्यरोचत
एको विष्णुरिवाचिन्त्यः कृतवान् कर्म दुष्करम्
तथा विमथितं तेन चतुरङ्गबलं महत्
न्यहनत्तान्पदात्योघांस्त्वदीयानपि भारत
एवमेकेन ते सेनां सौभद्रेणाचितां शरैः
भृशं विप्रहतां दृष्ट्वा स्कन्देनेवासुरीं चमूम्
त्वदीयास्तव पुत्राश्च वीक्षमाणा दिशो दश
संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना रोमहर्षिणः
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये
गोत्रनामभिरन्योन्यं क्रन्दन्तो जीवितैषिणः
हतान्भ्रातॄन्पितॄन्पुत्रान्प्रियान्सम्बन्धिबान्धवान्
उत्सृज्योत्सृज्य गच्छन्ति सौभद्रशरपीडिताः