सञ्जयः-
पद्मव्यूहो महाराज आचार्येणा रणे कृतः
तत्र पद्मोपमास्सर्वे राजानस्स्म निवेशिताः
केसराणि च पद्मस्य सुकुमाराणि भारत
कुमारा राजलोकस्य निक्षिप्ताः केसरोपमाः
कर्णिकास्थो महाराज तस्य दुर्योधनोऽभवत्
कर्णदुश्शासनकृपैर्वृतो राजा महारथैः
देवराजोपमश्श्रीमाञ्श्वेतच्छत्राभिसंवृतः
चामरव्यजनाक्षेपैस्समुद्यन्निव भास्करः
प्रमुखे तस्य शूरस्य द्रोणोऽवस्थितसायकः
सिन्धुराजस्तथाऽतिष्ठद्गिरिर्मेरुरिवाचलः
सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः
सुतास्तव महाराज त्रिंशत्त्रिदशविक्रमाः
शकुनिः कृतवर्मा च शल्यो भूरिश्रवास्तथा
पार्श्वतस्सिन्धुराजस्य व्यराजन्त महारथाः
सङ्घाता राजपुत्राणां सर्वेपामभवंस्तदा
कृतिभिसमयाश्चासन्सुवर्णकवचध्वजाः
रक्ताम्बरधरास्सर्वे सर्वे कनकभूषणाः
सर्वे रक्तपताकाश्च सर्वे कनकमालिनः
तेषां दशसहस्राणि बभूवू रथधन्विनाम्
पौत्रं तव पुरस्कृत्य लक्ष्मणं प्रियदर्शनम्
अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः
अन्योन्यमन्ववर्तन्त अन्योन्यकृतनिश्रमाः
तदनीकमनाधृष्यं भारद्वाजेन रक्षितम्
पार्थास्समभ्यधावन्त भीमसेनपुरोगमाः
सात्यकिस्सात्त्वतश्चैव धृष्टद्युम्नश्च पार्षतः
कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः
दुर्जयः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान्
चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः
युधामन्युश्च पाञ्चाल्यश्शिखण्डी चापराजितः
उत्तमौजाश्च दुर्धर्षो विराटश्च महारथः
द्रौपदेयाश्च दुर्धर्षाश्शैशुपालिश्च वीर्यवान्
केकयाश्च महावीर्यास्सृञ्जयाश्च सहस्रशः
एते चान्ये च बहवस्सगणाः युद्धदुर्मदाः
सहसा स्माभ्यवर्तन्त भारद्वाजयुयुत्सवः
समीपे वर्तमानांस्तान्भारद्वाजोऽपिवीर्यवान्
असम्भ्रान्तश्शरौघेण महता समवारयत्
महौघस्सलिलस्येव गिरिमासाद्य दुर्भिदम्
तं तु ते नाभ्यवर्तन्त वेलामिव जलाशयाः
पीड्यमानाश्शरैस्तीक्ष्णैर्द्रोणचापविनिस्सृतैः
नाशक्नुवन्मुखे स्थातुं भारद्वाजस्य पाण्डवाः
तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम्
यदेनं नाभ्यवर्तन्त पाञ्चालाः पाण्डवैस्सह
तमायान्तमभिक्रुद्धो द्रोणं दृष्ट्वा युधिष्ठिरः
बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम्
अशक्यं तु तदाऽन्येन भेत्तुं मत्त्वा युधिष्ठिरः
अविषह्यं गुरुं भारं सौभद्रे समवासृजत्
वासुदेवादनवमं फल्गुनाच्चामितौजसम्
अब्रवीत्परवीरघ्नमभिमन्युमिदं वचः
युधिष्ठिरः-
एत्य नो नार्जुनो गर्हेद्यथा तात तथा कुरु
द्रोणानीकस्य न वयं विद्मो भेदं कथञ्चन
त्वं वाऽर्जुनो वा कृष्णो वा भिन्द्यात्प्रद्युम्न एव वा
द्रोणानीकं महाबाहो पञ्चमोऽन्यो न विद्यते
अभिमन्यो वरं तात याचे त्वां दातुमर्हसि
पितृभ्यो मातुलेभ्यश्च सैन्येभ्यश्चैव भारत
धनञ्जयो हि नस्तात गर्हयेदेत्य संयुगात्
क्षिप्रमस्त्रं समादाय द्रोणानीकं विशातय
अभिमन्युः-
द्रोणस्य दृढमत्युग्रमनीकप्रवरं महत्
पितॄणां सिद्धिमन्विच्छन्नवगाहे भिनद्मि च
उपदिष्टो हि मे पित्रा योगोऽनीकस्य भेदने
नोत्सहे प्रतिनिर्गन्तुमहं कस्याञ्चिदापदि
युधिष्ठिरः-
भिन्धि व्यूहं युधि श्रेष्ठ द्वारं सञ्जनयस्व नः
वयं त्वाऽनुगमिष्यामो येन त्वं पुत्र यास्यसि
धनञ्जयस्य प्रतिमं त्वा यान्तं तात संयुगे
प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः
भीम उवाच
अहं त्वामनुयास्यामि धृष्टद्युम्नश्च सात्यकिः
पाञ्चलाः केकया मात्स्यास्तथा सर्वे प्रभद्रकाः
सकृद्भिन्नं त्वया व्यूहं तत्र तत्र त्वया सह
वयं प्रध्वंसयिष्यामो निघ्नामानाः वरान्वरान्
अभिमन्युः-
अहमेकः प्रवेक्ष्यामि द्रोणानीकं सुुदुर्भिदम्
पतङ्ग इव सङ्क्रुद्धो ज्वलन्तं जातवेदसम्
तत्कर्माद्य करिष्यामि क्षमं यद्वंशयोर्द्वयोः
मातुलस्य च मे प्रीतिं करिष्यामि पितुश्च मे
शिशुनैकेन समरे द्विषत्सैन्यानि वै मया
अद्य द्रक्ष्यन्ति राजानः काल्यमानानि सङ्घशः
युधिष्ठिरः-
एवं ते भाषमाणस्य बलं सौभद्र वर्धताम्
यस्त्वमुत्सहसे भेत्तुं द्रोणानीकं सुदुर्भिदम्
रक्षितं पुरुषव्याघ्रैर्महेष्वासैर्महारथैः
साध्यरुद्रमरुत्कल्पैर्वस्वश्व्यादित्यविक्रमैः
सञ्जयः-
तस्य तद्वचनं श्रुत्वा स यन्तारमचोदयत्
सुमित्राश्वान्रणे क्षिप्रं द्रोणानीकाय चोदय