जनमेजयः-
समरोद्युक्तकर्माणः कर्मभिर्व्यञ्जितश्रमाः
सकृष्णाः पाण्डवाः पञ्च देवैरपि दुरासदाः
शश्वत्कर्मान्वयैर्बुद्ध्या प्रकृत्या यशसा श्रिया
न भूतो भविता वाऽपि कृष्णस्य सदृशः पुमान्
सत्यधर्मतपोदानैर्द्विजपूजादिभिर्गुणैः
सदेहस्त्रिदिवं प्राप्तो राजा किल युधिष्ठिरः
युगान्ते चान्तकश्चैव जामदग्न्यश्च कीर्तिमान्
रणस्थो भीमसेनश्च कथ्यन्ते सदृशास्त्रयः
प्रतिज्ञाकर्मदक्षस्य रणे गाण्डीवधन्वनः
उपमां नाधिगच्छामि पार्थस्य सदृशीं क्षितौ
गुरुवात्सल्यमत्यन्तं नैभृत्यं विनयो दमः
नकुलेऽप्याभिरूप्यं च शौर्यं च नियतानि षट्
श्रुतगाम्भीर्यमाधुर्यसत्त्वरूपपराक्रमैः
सदृशो देवयोर्वीरस्सहदेवः किलाश्विनोः
ये च कृष्णे गुणास्स्फीताः पाण्डवेषु च ये गुणाः
अभिमन्यौ किलैकस्था दृश्यन्ते ते गुणाश्शुभाः
युधिष्ठिरस्य धैर्येण कृष्णस्य चरितेन च
कर्मणा भीमसेनस्य सदृशं भीमकर्मणः
धनञ्जयस्य रूपेण विक्रमेण शुभेन च
विनये सहदेवस्य सदृशं नकुलस्य च
अभिमन्युं द्विजश्रेष्ठ सौभद्रमपराजितम्
श्रोतुमिच्छामि कार्त्स्न्येन कथमायोधने हतः
वैशम्पायनः-
अभिमन्युं हतं श्रुत्वा धृतराष्ट्रो जनाधिपः
विस्तरेण महाराज पर्यपृच्छत्स सञ्जयम्
धृतराष्ट्रः-
पुत्रं पुरुषसिंहस्य सञ्जयाप्राप्तयौवनम्
रणे निपतितं श्रुत्वा दृढं मे दूयते मनः
दारुणः क्षत्रधर्मोऽयं विहितो धर्मकर्तृभिः
यत्र राज्येप्सवश्शूरा बाले शस्त्रमपातयन्
बालमत्यन्तसुखिनं प्रहरन्तमभीतवत्
कृतास्त्रा बहवो जघ्नुर्ब्रूहि गावल्गणे कथम्
बिभित्सता तदाऽनीकं सौभद्रेणामितौजसा
चिक्रीडितं यथा सङ्ख्ये तन्ममाचक्ष्व सञ्जय
सञ्जयः-
यन्मां पृच्छसि सङ्ग्रामे सौभद्रं विनिपातनम्
तत्तेऽहं सम्प्रवक्ष्यामि शृणु राजन्समाहितः
विक्रीडितं कुमारस्य यथाऽनीकं बिभित्सता
दावाग्न्यभिपरीतानां भूरिगुल्मतृणद्रुमे
वनौकसामिवारण्ये त्वदीयानामभूद्भयम्