सञ्जयः-
पूर्वमस्मासु भग्नेषु फल्गुगेनामितौजसा
द्रोणे च मोघसङ्कल्पे रक्षिते च युधिष्ठिरे
सर्वे विध्वस्तकवचास्तावका युधि निर्जिताः
रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश
अवहारं शनैः कृत्वा भारद्वाजस्य सम्मते
लब्धलक्षैः परैर्भिन्ना भृशावहसिता रणे
श्लाघमानेषु भूतेषु फल्गुनस्यामितैर्गुणैः
केशवस्य च सौहार्दे कीर्त्यमानेऽर्जुनं प्रति
अभिशस्ता इवाभान्ति ध्यानमूकत्वमास्थिताः
ततः प्रभातसमये द्रोणं दुर्योधनोऽब्रवीत्
प्रणयादभिमानाच्च द्विषद्वृद्ध्या च दुर्मनाः
शृण्वतां सर्वसैन्यानां संरब्धो द्रोणमब्रवीत्
दुर्योधनः-
नूनं वयं वध्यपक्षे भवतो ब्रह्मवित्तम
तथा हि नाग्रहीः प्राप्य समीपेऽद्य युधिष्ठिरम्
इच्छतो न हि मुच्येत चक्षुर्विषयगो रिपुः
जिघृक्षतो रक्ष्यमाणस्ससुरैरपि पाण्डवैः
सञ्जयः-
वरं दत्त्वा मम प्रीतः पश्चाद्विकृतवानसि
आशाभङ्गं न कुर्वन्ति आर्या भक्तस्य सत्तम
ततोऽप्रीतस्तथोक्तस्तु भारद्वाजोऽब्रवीद्वचः
द्रोणः-
नार्हसे माऽन्यथा ज्ञातुं घटमानं तव प्रिये
ससुरासुरगन्धर्वास्सयक्षोरगराक्षसाः
नालं पार्थं रणे जेतुं पाल्यमानं किरीटिना
विश्वसृग्यत्र गोविन्दः पृतनायां तथाऽर्जुनः
तत्र कस्तद्बलं क्रामेदन्यत्र त्र्यम्बकात्प्रभोः
सत्यं तु ते ब्रवीम्यद्य न ते जात्वन्यथा भवेत्
अद्यैषां प्रवरं वीरं पातयिष्ये महारथम्
चक्रव्यूहं विधास्यामि अभेद्यममैरपि
योगेन केनचित्साधु सोऽर्जुनस्त्वपनीयताम्
अजितं न च नासह्यं तस्य युद्धेऽस्ति किञ्चन
तेन ह्युवाप्तं सकलमस्त्रग्रामं समन्ततः
सञ्जयः-
द्रोणेन व्याहृते त्वेवं संशप्तकगणाः पुनः
आह्वयन्नर्जुनं सङ्ख्ये दक्षिणामभितो दिशम्
तत्रार्जुनस्याथ परैस्सार्धं समभवद्रणः
तादृशो यादृशो नान्यश्श्रुतो दृष्टोऽपि वा पुनः
तत्र द्रोणेन विहितो व्यूहो राजन्व्यरोचत
चरन्मध्यन्दिने सूर्यो निर्दहन्निव दुर्दृशः
तं चाभिमन्युर्वचनात्पितुर्ज्येष्ठस्य भारत
बिभेद दुर्भिदं सङ्ख्ये चक्रव्यूहमभीतवत्
स कृत्वा दुष्करं कर्म हत्वा वीरान्सहस्रशः
राजपुत्रशतं हत्वा कौसल्यं च बृहद्बलम्
महारथं शल्यपुत्रं लक्ष्मणं च तव प्रियम्
षड्भिर्वीरैस्सुसंयुक्तो दौश्शासनिवशं गतः
निहतः पुरुषव्याघ्रस्सुतो गाण्डीवधन्वनः
वयं परमसंहृष्टाः पाण्डवाश्शोककर्शिताः
सौभद्रे निहते राजन्नवहारमकुर्वत