सञ्जयः-
प्रतिघातं तु सैन्यानां नामृष्यत वृकोदरः
अभिनद्बाह्लिकं षष्ट्या शरैः कनकभूषणैः
तस्य द्रोणश्शितैर्बाणैस्तीक्ष्णधारैस्सुतेजनैः
जीवितान्तमभिप्रेप्सुर्मर्मण्यभ्यहनद्बली
कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः
षष्ट्या र्दुर्योधनो राजा त एनं समवारयत्
भीमसेनोऽपि तान्सर्वान्प्रत्यविध्यन्महाबलः
द्रोणं पञ्चाशता भल्लैः कर्णं षट्त्रिंशता शरैः
दुर्योधनं द्वादशभिर्द्रौणिमष्टाभिराशुगैः
आरावं तुमुलं कुर्वन्नभ्यवर्षत्स तान्पुनः
तस्मिन्सन्त्यजति प्राणान्मृत्युसाधारणं गते
अजातशत्रुस्स्वान्वीरान्भीमं त्रातेत्यचोदयत्
तेऽगच्छन्भीमसेनस्य समीपममितौजसः
सौभद्रो युयुधानश्च माद्रीपुत्रौ च भ्रातरौ
ते समेत्य तु संयत्तास्समन्तात्पुरुषर्षभाः
महेष्वासवरैर्गुप्तं द्रोणानीकं बिभित्सवः
समापेतुर्नरव्याघ्रा भीमप्रभृतयो रथाः
तान्प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः
प्रत्यदृश्यन्त पार्थानां स्वेषामपि महारथाः
बाह्यं मृत्युभयं कृत्वा तावकान्पाण्डवा ययुः
सादिनस्सादिनोऽभ्यघ्न्नभ्यघ्नन्रथिनो रथान्
असिशक्त्यृष्टिसङ्घातैर्युद्धं चासीत्परश्वथैः
प्रवृद्धमासीत्तद्युद्धं प्रततं रोमहर्षणम्
कुञ्जराणां तु सम्पाते आसङ्गस्तुमुलोऽभवत्
अपतत्कुञ्जरादन्यो हयादन्ये प्रदुद्रुवुः
नरा बाणेन संविद्धा रथादन्येऽपतन्क्षितौ
सम्ममर्द रथाच्चापि पतितस्यापि वर्त्मनि
शिरः प्रध्वंसयामास वक्षस्याक्रम्य कुञ्जरः
अपरेऽप्यपरान्मृद्नन्वारणाः पतितान्नरान्
विषाणैर्धरणीं गत्वा रुवन्तो भैरवान्रवान्
नरानन्ये विषाणाग्रैर्लग्नासृग्भिः क्षतैः परैः
भ्रमन्ति रुषिता नागा मृद्नन्तश्शतशो नरान्
कांस्यायसतनुत्राणान्नराश्वरथकुञ्जरान्
पतितान्पोथयाञ्चक्रुर्वारणाः परवारणाः
गृध्रपत्राधिवासांसि शयनान्यत्र पार्थिवाः
ह्रीमन्तः कालसम्प्राप्तास्सुदुःखमधिशेरते
हन्ति स्माथ पिता पुत्रं रथेन ह्यतिवर्तिना
पुत्रस्तु पितरं मोहान्निर्मर्यादमवर्तत
अक्षो भग्नो ध्वजश्छिन्नश्छत्रमुर्व्यां निपातितम्
युगार्धं छिन्नमादाय प्राद्रवन्त हयाः क्वचित्
सासिर्निपतितो बाहुश्शिरश्छिन्नं सकुण्डलम्
गजेनाक्षिप्य बलिना रथस्सञ्चूर्णितः क्षितौ
रथिना ताडितो नागो नाराचेनापतत्क्षितौ
सारोहः पतितो वाजी गजेनापीडितो भृशम्
निर्मर्यादं महद्युद्धं प्रावर्तत सुदारुणम्
हा तात हा पुत्र सखे क्वासि तिष्ठ क्व धावसि
प्रहराहर हन्तास्मि नदक्ष्वेडितगर्जितैः
इत्येवमुच्चैरत्यर्थं श्रूयन्ते विविधा गिरः
नरस्याश्वस्य नाग्स्य समसज्जत शोणितम्
उपाशाम्यद्रजो भौमं भीरून्कश्मलमाविशत्
अासीत्केशपरामर्शो मुष्टियुद्धं च दारुणम्
नखैर्दन्तैश्च शूराणामद्वीपे द्वीपमिच्छताम्
तत्राच्छिद्यत शूरस्य सखड्गो बाहुरुद्यतः
सधनुश्चापरस्यापि सशरस्साङ्कुशस्तथा
प्राक्रोशदन्यमन्यत्र तमन्योऽभिमुखोऽद्रवत्
ततः प्राप्तस्स चाप्यन्यश्शिरः कायादपाहरत्
भीतश्चान्य उदक्रोशदन्यो भीत उपाद्रवत्
असम्प्राप्तस्य तं देशमन्यो जीवितमाददे
गिरिशृङ्गोपमश्चित्रो बाणैश्चित्रैर्निपातितः
मातङ्गो न्यपतद्भूमौ नदीरोध इवोष्णगे
तथैव रथिनं नागः क्षरन्गिरिरिव व्रजन्
लेनापातयद्भूमौ सहाश्वं सह सारथिम्
शूरान्प्रहरतो दृष्ट्वा कृतास्त्रान्रुधिरोक्षितान्
बहूनत्याविशन्मोहो भीरून्हृदयदुर्बलान्
सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन
सैन्येन रजसा ग्रस्ते निर्मर्यादमवर्तत
ततस्सेनापतिश्शीघ्रमयं काल इति ब्रुवन्
निर्यातेति च तानेवं त्वरयामास पाण्डवान्
कुर्वाणाश्शासनं तस्य पाण्डवा बाहुशालिनः
सरो हंसा इवापेतुर्घ्नन्तो द्रोणरथं प्रति
प्रतिगृह्णीत जहि तच्छिन्धि भिन्धि हताहत
इति शब्दो महानासीदाचार्यस्य रथं प्रति
ततो द्रोणः कृपः कर्णस्स च राजा जयद्रथः
विन्दानुविन्दावावन्त्यौ शल्यश्चैतानवारयन्
अवार्यकर्मसंरब्धा दुर्निवार्या निवारिताः
शूरत्वान्न जहुर्द्रोणं पाञ्चालास्सह पाण्डवैः
ततो द्रोणो भृशं क्रुद्धो व्यसृजच्छतशश्शरान्
चेदिपाञ्चालपाण्डूनां कुर्वन्विशसनं महत्
तस्य ज्यातलनिर्घोषश्शुश्रुवे दिक्षु मारिष
वज्रसङ्काशनिर्ह्रादस्त्रासयन्सृञ्जयान्बहून्
एतस्मिन्नन्तरे जिष्णुर्हत्वा संशप्तकान्पुनः
अभ्ययात्तत्र यत्र स्म द्रोणः पाण्डून्विमृद्गति
तां शरौघमहावर्तां शोणितौघवहां नदीम्
तीर्णस्संशप्तकान्हत्वा प्रत्यदृश्यत फल्गुनः
तस्य लक्ष्मीवतो लक्ष्म सूर्यप्रतिमतेजसः
दीप्यमानमपश्याम तेजसा वानरध्वजम्
संशप्तकसमुद्रं तमुच्छोष्यास्त्रगभस्तिभिः
स पाण्डवयुगान्तार्कः कुरूनभ्यागमज्जवात्
स ददाह कुरून्सर्वानर्जुनश्शस्त्रतेजसा
युगान्ते सर्वभूतानि धूमकेतुरिवोत्थितः
तेन बाणसहस्रौधैर्गजाश्वरथयोधिनः
ताड्यमानाः क्षितिं जग्मुर्मुक्तशस्त्रशरासनाः
केचिदार्तस्वरं चक्रुर्विनेशुरपरे पुनः
पार्थबाणहताः केचिन्निपेतुश्च गतासवः
तेषामुत्पतितान्कांश्चित्पतितांश्च पराक्रमात्
निजघानार्जुनो योधान्योधव्रतमनुस्मरन्
ते च जीर्णरथाश्वेभाः प्रायशश्च पराङ्मुखाः
कुरवः कर्ण कर्णेति हा हा चेति विचुक्रुशुः
तमाधिरथिराक्रन्दं विज्ञाय शरणैषिणाम्
मा भैष्टेति प्रतिश्रुत्य ययावभिमुखोऽर्जुनम्
स भारतरथश्रेष्ठस् सर्वभारतहर्षणः
प्रादुश्चक्रे तदाऽऽग्नेयमस्त्रमस्त्रविदां वरः
तस्य दीप्तशरौघस्य दीप्तचापरथस्य च
वारुणेन तदस्त्रेण विदुधाव धनञ्जयः।
अस्त्रमस्त्रेण संवार्य प्राणदद्विसृजञ्शरान्
धृष्टद्युम्नश्च भीमश्च सात्यकिश्च महारथः
विव्यधुः कर्णमासाद्य त्रिभिस्त्रिभिरजिह्मगैः
अर्जुनास्त्रं तु राधेयस्संवार्य शरवृष्टिभिः
तेषां त्रयाणां चापानि चिच्छेद विशिखैस्त्रिभिः
ते निकृत्तायुधाश्शूरा निर्विषा इव पन्नगाः
अथ शक्तीस्समुत्क्षिप्य भुजैस्सिंहा इवानदन्
ता भुजाग्रैर्विनिर्मुक्ता निर्मुक्तभुजगोपमाः
दीप्यमाना महाशक्त्यो जग्मुराधिरथिं प्रति
ता निकृत्य शरैस्तीक्ष्णैस्सिंहनादं चकार ह
ननाद बलवान्कर्णः पार्थाय विसृजञ्शरान्
अर्जुनश्चापि राधेयं विद्ध्वा सप्तभिरायसैः
कर्णादवरजं बाणैर्जघान निशितैस्त्रिभिः
ततश्शत्रुञ्जयं हत्वा पार्थष्षड्भिरजिह्मगैः
जहार सद्यो भल्लेन द्विधा तस्य शिरो रथात्
पश्यतां धार्तराष्ट्राणामेवमेते किरीटिना
प्रमुखे सूतपुत्रस्य सोदर्या निहतास्त्रयः
ततो भीमस्तदाप्लुत्य स्वरथाद्वैनतेयवत्
जघान सूतपुत्रस्य बान्धवान्दश पञ्च च
पुनस्स्वरथमास्थाय धनुरादाय वीर्यवान्
विव्याध दशभिः कर्णं सूतमश्वांश्च पञ्चभिः
धृष्टद्युम्नोऽप्यसिवरं चर्म चादाय भास्वरम्
जघान चन्द्रवर्माणं बृहत्क्षत्रं च नैषधम्
ततस्स्वरथमास्थाय पाञ्चाल्योऽन्यच्छरासनम्
आदाय कर्णं विव्याध त्रिसप्तत्या नदञ्शरैः
शैनेयोऽप्यन्यदादाय धनुरिन्द्रसमद्युतिः
सूतपुत्रं चतुष्षष्ट्या विद्ध्वा सिंह इवोन्नदन्
भल्लाभ्यां साधु मुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम्
पुनः कर्णं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्
ततो दुर्योधनो राजा द्रोणश्चैव जयद्रथः
निमज्जमानं राधेयमुज्जह्रुस्समरार्णवात्
धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च
नकुलस्सहदेवश्च सात्यकिं जुगुपुस्तदा
एवमेष महारौद्रः क्षयार्थं सर्वधन्विनाम्
तावकानां परेषां च त्यक्त्वा प्राणानभूद्रणः
पदातिरथनागाश्वा गजाश्वरथपत्तयः
रथिनो नागपत्त्यश्वैर्गजाः पत्तिरथध्वजैः
अश्वैरश्वा गजैर्नागा रथिनो रथिभिस्सह
सम्पन्नास्समदृश्यन्त पत्तयश्चापि पत्तिभिः
एवं सुकलिलं युद्धमासीत्क्रव्यादहर्षणम्
सह भीतैरभीतानां यमराष्ट्रविवर्धनम्
संरम्भेणाभिसंसृज्य निघ्नतामितरेतरम्
कुरूणां पाण्डवानां च द्रोणार्जुनसमागमे
ततो हता नररथवाजिकुञ्जरैरनेकशो द्विपरथपत्तिवाजिभिः
गजैर्गजा रथिभिरुदायुधा रथैर्हयैर्हयाः पत्तिगणाश्च पत्तिभिः
रथैर्द्विपा द्विरदवरैर्महारथा हयैर्नरा वररथिभिश्च वाजिनः
विपोथिता गजहयपादताडनैर्भृशाकुला रथमुखनोमिभिर्हयाः
प्रमोदने श्वापदपक्षिरक्षसां जनक्षये वर्तति तत्र दारुणे
महावलास्ते कुपिताः परस्परं निषूदयन्तः प्रचरन्त्युदायुधाः
तथा वरैर्बहुकरणैर्वरायुधैर्हता गजाः प्रतिभयदर्शनाः क्षितिम्
महाबले क्षुब्धमहार्णवोपमे महेन्द्रसद्मातिथितां यियासवः
निरस्तजिह्वादशनेक्षणाः क्षितौ क्षयं गताः खण्डितवर्मभूषणाः
ततो बले भृशमथिते परस्परं निरीक्षमाणे रुधिरौघसंवृते
दिवाकरेऽस्तं गिरिमास्थिते शनैरुभे प्रयाते शिबिराय भारत