धृतराष्ट्रः-
तेष्वनीकेषु भग्नेषु पाण्डुपुत्रेण सञ्जय
चलितानां द्रुतानां च कथमासीन्मनांसि वः
अनीकानां प्रभग्नानामधिष्ठानमपश्यताम्
दुष्करं प्रतिसन्धानं तन्ममाचक्ष्व सञ्जय
सञ्जयः-
ते तथा हतभूयिष्ठास्तव प्रियहितैषिणः
सर्वे प्रवीरा लोकस्य रक्षणे द्रोणमभ्ययुः
समुद्यतेषु शस्त्रेषु सम्प्राप्ते च युधिष्ठिरे
अकुर्वन्नार्यकर्माणि भैरवे सत्यविक्रमाः
अन्तरं भीमसेनस्य प्रापतन्नमितौजसः
सात्यकस्य च वीरस्य धृष्टद्युम्नस्य पार्थिवाः
द्रोणं द्रोणमिति क्रुद्धाः पाञ्चालास्समचोदयन्
मा द्रोणमिति पुत्रास्स्वसैन्यं समचोदयन्
पाण्डवा द्रोणमित्येवं मा द्रोणमिति चापरे
पाण्डवानां कुरूणां च द्रोणद्यूतमवर्तत
यं यं प्रमथते द्रोणः पाण्डवानां रथव्रजम्
तत्र तत्र स पाञ्चालो धृष्टद्युम्नो विधीयते
तेषां भाग्यविपर्यासे सङ्ग्रामे भैरवे सति
वीरास्समासदन्वीरान्नागच्छन्भीरवः परान्
अकम्पनीयाश्शत्रूणामबभवंस्तत्र पाण्डवाः
अकम्पयन्ननीकानि स्मरन्तः क्लेशमात्मनः
ते ह्यमर्षवशं प्राप्ता ह्रीमन्तस्सत्त्वचोदिताः
त्यक्त्वा प्राणानवर्तन्त निघ्नन्तो द्रोणमाहवे
अयसामिव सङ्घातश्शिलानामिव चाभवत्
दीव्यतां तुमुले युद्धे प्राणैरमिततेजसाम्
नानुस्मरन्ति सङ्ग्रामं वृद्धाश्चापि तथाविधम्
ये पूर्वदेवैर्देवानामपश्यन्पूर्वमद्भुतम्
प्रकम्पते च पृथिवी तस्मिन्वीरावसादने
निवर्तता जनौघेन महता भारपीडिता
बलौघस्य च भीमस्य दिवं स्तब्ध्वेव निस्स्वनः
अजातशत्रोः क्रुद्धस्य पुत्रस्य तव चाभवत्
समासाद्य च पाण्डूनामनीकानि सहस्रशः
द्रोणेन चरता सङ्ख्ये प्रभग्नान्यमितैश्शरैः
तेषु प्रमथ्यमानेषु द्रोणेनाद्भुतकर्मणा
पर्यवारयदासाद्य द्रोणं सेनापतिस्स्वयम्
तद्युद्धमभवद्घोरं द्रोणपाञ्चालयोः प्रभो
नैव तस्योपमा काचिच्छक्या वक्तुं विशेषतः
ततो नीलोऽनलप्रख्यः प्रादहत्कुरुवाहिनीम्
शरस्फुलिङ्गश्चापार्चिश्शुष्ककक्षमिवानलः
तं दहन्तमनीकानि द्रोणपुत्रः प्रतापवान्
पूर्वाभिभाषी सुश्लक्ष्णमिदं वचनमब्रवीत्
अश्वत्थामा-
नील किं बहुभिर्दग्धैस्तव योधैश्शताधिकैः
मयैकेनैव युध्यस्व सङ्क्रुद्धः प्रहराशुगैः
सञ्जयः-
तं पद्मनिकराकारं पद्मपत्रनिभेक्षणम्
व्याकोशपद्माभमुखो नीलो विव्याध पत्रिभिः
तेनाति्विद्धः प्रहसन् द्रौणिर्भल्लैस्त्रिभिश्शितैः
धनुर्ध्वजं च च्छत्रं च द्विषतस्सन्न्यकृन्तत
सोत्प्लुत्य स्यन्दनात्तस्मान्नीलश्चर्मवरासिधृक्
द्रौणायनेश्शिरः कायाद्धर्तुमैच्छत्पतत्त्रिवत्
तस्योद्यतासेश्चरतश्शिरः कायात्सकुण्डलम्
भल्लेनापाहरद्द्रौणिस्स्मयमान इवानघ
सम्पूर्णचन्द्राभमुखः पद्मपत्रनिभेक्षणः
प्रांशुरुत्पलपत्राभो निहतो न्यपतद्भुवि
ततः प्रविव्यथे सेना पाण्डवी भृशमातुरा
आचार्यपुत्रेण हते नीले ज्वलिततेजसि
ते यतन्ते यथाशक्त्या पाण्डवानां रथर्षभाः
कथं नो वासविस्त्रायाच्छत्रुभ्य इति मारिष
दक्षिणेन तु पक्षेण कुरुते कदनं बली
संशप्तकावशेषस्य नारायणबलस्य च