सञ्जयः-
प्रियमिन्द्रस्य सततं सखायममितौजसम्
हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत
ततो गान्धारराजस्य पुत्रौ परपुरञ्जयौ
अभ्येतामर्जुनं सङ्ख्ये विसृजन्तमजिह्मगान्
तौ समेत्यार्जुनं वीरौ पूर्वंं पश्चाच्च धन्विनौ
अविध्येतां महावेगैर्निशितैराशुगैर्भृशम्
वृषकस्य हयान्सूतं धनुश्छत्रं रथं ध्वजम्
तिलशो व्यधमत्पार्थस्सौबलस्य शितैश्शरैः
ततोऽर्जुनश्शरव्रातैर्नानाप्रहरणान्युधि
गान्धारानाकुलीकुर्वनचलप्रमुखान्पुनः
ततः पञ्चशतान्वीरान्गान्धारानुद्यतायुधान्
प्राहिणोन्मृत्युलोकाय क्रुद्धो बाणैर्धनञ्जयः
हताश्वात्तु रथात्तूर्णमवतीर्य महामतिः
आरुरोह रथं भ्रातुश्चान्यदादाय कार्मुकम्
तावेकरथमारूढौ भ्रातरौ वृषकाचलौ
शरवर्षेण बीभत्सुमविध्येतां पुनः पुनः
स्यालौ तव महात्मानौ राजानौ वृषकाचलौ
भृशं विजघ्नतुः पार्थमिन्द्रं वृत्रबलाविव
लब्धलक्षौ तु गान्धारौ जघ्नतुः पाण्डवं पुनः
नैदाघवार्षिकौ मेघौ लोकं घर्माम्बुभिर्यथा
तौ स्थलौ तव दुर्धर्षौ समाने स्यन्दने स्थितौ
संस्पृशन्तौ तदाऽन्योन्यं जघानैकेषुणाऽर्जुनः
तौ रथात्सहसा वीरौ लोहिताक्षौ महाभुजौ
निहतौ पेततुर्भूमौ सोदर्यावेकलक्षणौ
तयोर्देहौ रथाद्भूमिं गतौ बन्धुजनव्यथौ।
यशो दश दिशः पुण्यं विकिरन्तौ स्वमुत्तमम्
दृष्ट्वा तौ निहतौ सङ्ख्ये मातुलावपलायिनौ
सर्वे मुमुचुरश्रूणि पुत्रास्तव विशां पते
तौ हतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः
कृष्णौ सम्मोहन्मायां विदधे शकुनिस्ततः
असङ्ख्येया धनाश्मानश्शतघ्नीश्च सकिङ्किणीः
गदापरिघनिस्त्रिंशशूलमुद्गरपट्टसाः
शक्त्यृष्टिप्रासनखरमुसलानि परश्वथाः
क्षुराः क्षुरप्रनालीका वत्सदन्तास्थिसन्धयः
कुन्तप्रासमहाशक्त्यो विविधान्यायुधानि च
आपेतुस्सर्वतो दिग्भ्यः प्रदिग्भ्यश्चार्जुनं प्रति
खरोष्ट्रमहिषास्सिंहा व्याघ्रास्सृमरभल्लुकाः
ऋक्षास्सालावृका गृध्राः कपिश्वानसरीसृपाः
विविधानि च रक्षांसि विक्षिप्तान्यर्जुनं प्रति
सङ्क्रुद्धान्यभ्यधावन्ति विविधानि वयांसि च
ततो दिव्यास्त्रविच्छूरः कुन्तीपुत्रो धनञ्जयः
विसृजन्निषुजालानि प्रहसंस्तान्यताडयत्
ते हन्यमानाश्शूरेण प्रवरैस्सायकैर्दृढैः
विरुवन्तो महारावान्विनेशुस्सर्वतो हताः
ततस्तमः प्रादुरभूदर्जुनस्याभितो रथम्
तस्माच्च तमसो वाचः क्रूराः पार्थमभर्त्सयन्
तत्तमोऽस्त्रेण महता ज्यौतिषेणार्जुनोऽवधीत्
हते तस्मिञ्जलौघास्तु प्रादुरासन्भयानकाः
अम्भसस्तस्य नाशार्थमादित्यास्त्रमथार्जुनः
प्रायुङ्क्ताम्भस्तथास्त्रेण प्राशुष्यत्तेन शोषितम्
एवं बहुविधा मायास्सौबलस्य कृताः कृताः
जघानास्त्रबलेनाशु प्रहसन्नर्जुनोऽब्रवीत्
अर्जुनः-
दुर्द्यूतदेविन्गान्धारे नाक्षान्क्षिपति गाण्डिवम्
ज्वलितान्निशितांस्तीक्ष्णाञ्शरान्क्षिपतिगाण्डिवम्
सञ्जयः-
तथा हतासु मायासु त्रस्तोऽर्जुनशराहतः
अपायाज्जवनैरश्वैश्शकुनिः प्राकृतो यथा
ततोऽर्जुनोऽस्त्रविच्छौर्यं दर्शयन्नात्मनोऽरिषु
अभ्यवर्षच्छरौघेण कौरवाणामनीकिनीम्
सा वध्यमाना पार्थेन पुत्रस्य तव वाहिनी
द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम्
द्रोणमेवान्वपद्यन्त केचित्तत्र नरर्षभाः
केचिद्दुर्योधनं राजंस्ताड्यमानाः किरीटिना
तत एनं न पश्यामि तीव्रेण रजसा वृते
गाण्डीवस्य च निर्घोषश्श्रुतो दक्षिणतो मया
शङ्खदुन्दुभिनिर्घोषं वादित्राणां च निस्स्वनम्
गाण्डीवस्य तु निर्घोषो व्यतिक्रम्यास्पृशद्दिवम्
ततः पुनर्दक्षिणतस्सङ्ग्रामे चित्रयोधिनः
सुयुद्धमर्जुनस्यासीदहं च द्रोणमन्वगाम्
नानाविधान्यनीकानि त्वदीयानि विशां पते
अर्जुनो व्यधमत्काले दिव्यभ्राणीव मारुतः
तं वासवमिवायान्तं भूरिवर्षं शरौघिणम्
महेष्वासं नरव्याघ्रं नोग्रं कश्चिदवारयत्
ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम्
स्वानेव बहवो जघ्नुर्विद्रवन्तस्ततस्ततः
अर्जुनेनैषवो मुक्ताः कङ्कपत्रास्तनुच्छिदः
शलभा इव सम्पेतुस्संवृण्वाना दिशो दश
तुरगं रथिनं नागं पदातिमपि मारिष
विनिर्भिद्य क्षितिं जग्मुस्सुपुङ्खाः कर्दमं यथा
न च द्वितीयं व्यसृजत्कुञ्जराश्वनरेषु च
व्यक्तमेकशरारुग्णा निपेतुस्ते गतासवः
हतैर्मनुष्यैस्तुरगैश्च सर्वतश्शराभिमृष्टैश्च गजैर्निपातितैः
सृगालगोमायुबलाभिनादितं विचित्रमायोधशिरो बभूव ह
पिता सुतं त्यजति सखा सखायं तथैव पुत्रः पितरं शरातुरम्
स्वरक्षणे कृतमतयस्तदा नरास्त्यजन्ति वाहानपि पार्थपीडिताः