धृतराष्ट्रः-
तथा क्रुद्धः किमकरोद्भगदत्तस्य पाण्डवः
प्राग्ज्योतिषो वा पार्थस्य तन्मे शंस यथातथम्
सञ्जयः-
प्राग्ज्योतिषेण संसक्तावुभौ दाशार्हपाण्डवौ
मृत्योरिवान्तिकं प्राप्तौ सर्वभूतानि मेनिरे
महता शरवर्षेण ववर्ष बलवान्रणे
भगदत्तो द्विपस्कन्धात्कृष्णयोस्स्यन्दनस्थयोः
अथ कार्ष्णायसैर्बाणैः पूर्णकार्मुकनिस्सृतैः
अविध्यद्देवकीपुत्रं हेमपुङ्खैश्शिलाशितैः
अग्निस्पर्शसमास्तीक्ष्णा भगदत्तेन चोदिताः
निर्भिद्य देवकीपुत्रं ते सुपुङ्खा ययुः क्षितिम्
तस्य पार्थो धनुश्छित्त्वा परिवापं निहत्य च
लालयन्निव राजानं भगदत्तमयोधयत्
सोऽर्करश्मिनिकाशानि तोमराणि चतुर्दश
प्रेषितानि च बीभत्सुस्त्रिधैकैकमशातयत्
ततो नागस्य तद्वर्म व्यधमत्पाकशासनिः
शरजालेन स बभौ व्यभ्रः पर्वतराडिव
ततः प्राग्ज्योतिषश्शक्तिं हेमदण्डामयस्मयीम्
व्यसृजद्वासुदेवाय त्रिधा तामर्जुनोऽच्छिनत्
ततश्छत्रं ध्वजं चैव च्छित्त्वा राज्ञोऽर्जुनश्शरैः
विव्याध दशभिस्तूर्णमुत्स्मयन्पर्वताधिपम्
सोऽतिविद्धोऽर्जुनशरैस्सुपुङ्खैः कङ्कपत्रिभिः
भगदत्तस्तु सङ्क्रुद्धः पाण्डवस्य जनाधिपः
व्यसृजत्तोमरं मूर्ध्नि श्वेताश्वस्योन्ननाद च
तेनार्जुनस्य समरे किरीटं परिवर्तितम्
परिवृत्तं किरीटं तं व्यधयन्नेव फल्गुनम्
सुदृष्टः क्रियतां लोक इति राजानमब्रवीत्
एवमुक्त्वा तु बीभत्सुं शरवर्षेण पार्थिवः
अभ्यवर्षत्स गोविन्दं धनुरादाय वीर्यवान्
तस्य पार्थो धनुश्छित्त्वा तूणीरान्सन्निकृत्य च
त्वरमाणो द्विसप्तत्या सर्वमर्मस्वताडयत्
विद्धस्ततोऽतिव्यथितो वैष्णवास्त्रमुदीरयन्
अभिमन्त्र्याङ्कुशं क्रुद्धो व्यसृजत्पाण्डवं प्रति
विसृष्टं भगदत्तेन तदस्त्रं सर्वघातकम्
उरसा प्रतिजग्राह पार्थं सञ्छाद्य केशवः
वैजयन्त्यभवन्माला तदस्त्रं केशवोरसि
पद्मकोशविचित्रा च सर्वर्तुकुसुमोत्करा
तया पद्माभिशोभिन्या वायुकम्पितलोलया
शोभतेऽभ्यधिकं शौरिरतसीपुष्पसन्निभः
केशवः केशिमथनश्शार्ङ्गधन्वाऽरिमर्दनः
सन्ध्याभ्रैरिव सञ्छन्नः प्रावृट्काले नगोत्तमः
तमर्जुनः क्लान्तमनाः केशवं प्रत्यभाषत
अर्जुनः-
अयुध्यमानस्तुरगान्संयन्तास्मि जनार्दन
इत्युक्त्वा पुण्डरीकाक्ष प्रतिज्ञां त्वं न रक्षसि
यद्यहं व्यसनी हि स्यामशक्तः प्रतिवारणे
ततस्त्वयैव कार्यं स्यान्न तु कार्यं मयि स्थिते
सबाणस्सधनुश्चाहं ससुरासुरमानवान्
शक्तो लोकानिमाञ्जेतुं तवैव विदितं हि तत्
सञ्जयः-
श्रीभगवान्-
ततोऽर्जुनं वासुदेवः प्रत्युवाचार्थवद्वचः
शृणु गुह्यमिदं पार्थ यथावृत्तं पुरातनम्
येयं लोकधरा देवी सर्वभूतधरा धरा
सकामा लोककर्तारं नारायणमुपस्थिता
स सङ्गम्य तया सार्धं प्रीतस्तस्य वरं ददौ
सा वव्रे विष्णुसदृशं पुत्रमस्त्रं च वैष्णवम्
बभूव च सुतस्तस्या नरको नाम विश्रुतः
अस्त्रं च वैष्णवं तस्मै ददौ नारायणस्स्वयम्
तदेतन्नरकस्यासीदस्त्रं सर्वाहितान्तकम्
तस्मात्प्राग्ज्योतिषं प्राप्तं सर्वशस्त्रविघातनम्
नास्यावध्योऽस्ति लोकेऽस्मिन्मदन्यः कश्चिदर्जुन
तस्मान्मया कृतं ह्येतन्मा भूद्बुद्धिरन्यथा
सञ्जयः-
श्रीभगवान्-
अनुनीय तु दाशार्हः पाण्डवं त्वरितोऽब्रवीत्
जहि प्राग्ज्योतिषं क्षिप्रं वाक्यशेषं च मे शृणु
चतुर्मूर्तिरहं पार्थ लोकत्राणार्थमुद्यतः
आत्मानं प्रविभज्येह विधानमिदमादधे
एका मूर्तिस्तपश्चर्यां कुरुते मे भुवि स्थिता
अपरा पश्यति जगत्कुर्वाणं साध्वसाधु च
अपरा कर्म कुरुते मानुषं लोकमाश्रिता
शेते चतुर्थमूर्तिस्तु निद्रां वर्षसहस्रिकाम्
याऽसौ वर्षसहस्रान्ते मूर्तिरुत्तिष्ठते मम
वरार्हाय वराञ्श्रेष्ठांस्तस्मिन्काले ददाति सा
तं तु कालमनुप्राप्तं विदित्वा पृथिवी पुरा
प्रायाचत वरं पार्थ नरकार्थाय तच्छृणु
देवानामसुराणां चाप्यवध्यस्तनयोऽस्तु मे
एवं वरं वृणे देव तव नाथ ममास्त्विति
एवं वरमहं श्रुत्वा जगत्या भरतर्षभ
अमोघमस्त्रं प्रायच्छं परमं वैष्णवं पुरा
एतदस्त्रममोघं मे भविष्यति वसुन्धरे
नरकस्याभिरक्षार्थं नैनं कश्चिद्वधिष्यति
अनेनास्त्रेण ते गुप्तस्सुतः परबलार्दनः
भविष्यति दुराधर्षस्सर्वलोकेषु सर्वदा
तथेत्युक्त्वा तु सा देवी कृतकार्या वसुन्धरा
स चाप्यासीद्दुराधर्षो नरकश्शत्रुतापनः
तस्मात्प्राग्ज्योतिषं प्राप्तं तदस्त्रं पार्थ मामकम्
नास्यावध्योऽस्ति लोकेऽस्मिन्मदन्यः कश्चिदर्जुन
तन्मया त्वत्कृते ह्येतदन्यथैवोपनिर्मितम्
वियुक्तं परमास्त्रेण जहि पार्थ महासुरम्
अवध्योऽयं महास्त्रेण भगदत्तस्सुरासुरैः
यथाऽहं नरकं लोकहितार्थमहनं पुरा
सञ्जयः-
एवमुक्तस्ततः पार्थः केशवेन महात्मना
भगदत्तं शितैर्बाणैस्सहसा समवाकिरत्
ततस्सन्धाय विशिखं दीप्यमानमिवानलम्
अविध्यदर्जुनो नागं कुम्भयोरन्तरे भृशम्
अभ्यगात्स शरोऽत्युग्रो वल्मीकमिव पन्नगः
स तु विष्टभ्य गात्राणि दन्ताभ्यामवनीं गतः
नदन्नार्तस्वनं प्राणानुत्ससर्ज महाद्विपः
ततश्चन्द्रार्धतुल्येन शरेणामित्रकर्शनः
बिभेद हृदयं राज्ञो भगदत्तस्य पाण्डवः
स भिन्नहृदयो राजा भगदत्तः किरीटिना
मुक्त्वा शरासनं बाहू प्रसार्यान्वपतद्गजात्
पपात पततस्तस्य शिरसः पूर्वमंशुकम्
नालताडनविभ्रष्टं पलाशं नलिनादिव
स हेममाली तपनीयभाण्डात्पपात नागाद्गिरिसन्निकाशात्
सुपुष्पितो मारुतवेगभग्नो महीधराग्रादिव कर्णिकारः
निहत्य तं नरपतिमिन्द्रविक्रमं सहायमिन्द्रस्य स इन्द्रसम्भवः
ततोऽपरांस्तव जयकाङ्क्षिणो रणे बभञ्ज वायुर्बलवानिव द्रुमान्