सञ्जयः-
तत्रासौ बलवान्कृष्णस् तानश्वान् वै मनोजवान्
अप्रैषीद्धेमसञ्छन्नान्द्रोणानीकाय पाण्डरान्
तं प्रयान्तं कुरुश्रेष्ठ स्वांस्त्रातुं द्रोणतापितान्
सुशर्मा भ्रातृभिस्सार्धं युद्धार्थी पृष्ठतोऽन्वयात्
ततश्श्वेतहयः कृष्णमब्रवीत्समितिञ्जयः
अर्जुनः-
एष मां भ्रातृभिस्सार्धं सुशर्माऽऽह्वयतेऽच्युत
दीर्यते चोत्तरेणैव सैन्यं नश्शत्रुकर्शन
द्वैधीभूतं मनो मेऽद्य कृतं त्रेगर्तकैरिदम्
किं नु संशप्तकान्हन्मि स्वान् वा रक्षामि चार्दितान्
इति वेत्थ हृदि द्वैधं तत्र किं सुकृतं भवेत्
सञ्जयः-
एवमुक्तस्तु दाशार्हस्स्यन्दनं पर्यवर्तयत्
येन त्रिगर्ताधिपतिः पाण्डवं प्रति चाह्वयत्
ततोऽर्जुनस्सुशर्माणं विद्ध्वा सप्तभिराशुगैः
तस्य ध्वजं धनुश्चैव क्षुराभ्यां समकृन्तत
ततस्त्रिगर्ताधिपतेर्भ्रातरं षड्भिरायसैः
साश्वं ससूतं त्वरितः प्रैषयद्यै यमक्षयम्
निर्मुक्तोरगसङ्काशां सुशर्मा शक्तिमायसीम्
चिक्षेपार्जुनमुद्दिश्य वासुदेवं च तोमरम्
शक्तिं त्रिभिश्शरैश्छित्त्वा तोमरं त्रिभिरर्जुनः
सुशर्माणं शरव्रातैर्मोहयित्वा न्यवर्तत
तं वासवमिवायान्तं वासविं भुरिवर्षिणम्
राजंस्तावकसैन्यानां नोग्रं कश्चिन्न्यवारयत्
ततो धनञ्जयो बाणैस्त्वदीयान्रथसत्तमान्
प्रायाद्विनिघ्नन्कौरव्यान्दहन्कक्षमिवानलः
तस्य वेगमसह्यं तु कुन्तीपुत्रस्य धीमतः
नाशक्नुवंस्ते संसोढुं स्पर्शमग्नेरिव प्रजाः
संवेष्टयन्ननीकानि शरवर्षेण पाण्डवः
सुपर्ण इव नागेन्द्रमायात्प्राग्ज्योतिषं प्रति
नासीत्तथागते जिष्णौ भारतानामनामयम्
स्वेषां क्षेमकरे सङ्ख्ये द्विषतामघवर्धने
तथैव तव पुत्रस्य राजन्दुर्द्यूतदेविनः
कृते क्षत्रियनाशाय धनुरादाय चार्जुनः
ततो विक्षोभ्यमाणा सा पुत्रस्य तव वाहिनी
व्यशीर्यत तदा राजन् नौरिवासाद्य पर्वतम्
ततो रथसहस्राणि न्यवर्तन्त धनुष्मताम्
मरणाय मतिं कृत्वा आत्मनोवाऽर्जुनस्य वा
व्यपेतहृदयत्रासमापद्धर्मार्थकोविदम्
आर्च्छत्पार्थो गुरुं भारं सर्वलोकमहारथः
यथा नलवनं नागः प्रभिन्नष्षष्टिहायनः
मृद्नीयात्तद्वदायत्तः पार्थोऽमृद्नाच्चमूं तव
तस्मिन्प्रमृदिते सैन्ये भगदत्तो महारथः
तेन नागेन सहसा धनञ्जयमुपाद्रवत्
तं रथेन नरव्याघ्रः प्रत्यगृह्णादथार्जुनः
स सन्निपातस्तुमुलो बभूव रथनागयोः
कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च
सङ्ग्रामे चेरतुर्वीरौ भगदत्तधनञ्जयौ
ततो जीमूतसङ्काशान्नागादिन्द्र इवाभिभूः
अभ्यवर्षच्छरौघेण भगदत्तो धनञ्जयम्
ततस्तु शरवर्षं तं शरवर्षेण वासविः
अप्राप्तमेव चिच्छेद भगदत्तस्य वीर्यवान्
ततः प्राग्ज्योतिषो राजा शरवर्षे निवारिते
संरक्तनयनो रोषात्पार्थं पुनरवाकिरत्
स तथा शरवर्षेण पार्थं समभिहत्य वै
चोदयामास तं नागं वधायाच्युतपार्थयोः
तमापतन्तं द्विरदं दृष्ट्वा क्रुद्धमिवान्तकम्
चक्रेऽपसव्यं त्वरितं स्यन्दनेन जनार्दनः
सम्प्राप्तमपि नेयेष परावृत्तं महाद्विपम्
सरोषो मृत्युसात्कर्तुं स्मरन्धर्मं धनञ्जयः
स तु नागो द्विपरथान्हयांश्चारुज्य मारिष
प्राहिणोन्मृत्युलोकाय ततश्चुक्रोध फल्गुनः