धृतराष्ट्रः-
सञ्जयः-
तेष्वेवं सन्निवृत्तेषु प्रत्युद्यातेषु भागशः
यन्मां पार्थस्य कर्माणि सङ्ग्रामे परिपृच्छसि
कथं युयुधिरे पार्था मामकाश्च तरस्विनः
शृणु राजन् यथा पार्थश्चकार कदनं महत्
किमर्जुनश्चाप्यकरोत्तत्र तात प्रतापवान्
रजो दृष्ट्वा समुद्भूतं श्रुत्वा च जननिस्स्वनम्
संशप्तका वा पार्थस्य किमकुर्वत सञ्जय
भगदत्ते विकुर्वाणे कौन्तेयः कृष्णमब्रवीत्
सञ्जयः-
अर्जुनः-
तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः
यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन
स्वयमभ्यद्रवद्भीमं नागानीकेन ते सुतः
त्वरमाणोऽह्यतिक्रान्तो ध्रुवं तस्यैष निस्स्वनः
सुपर्ण इव नागेन वृषभेणैव चर्षभः
इन्द्रादनवमस्सङ्ख्ये गजयानविशारदः
समाहूतस्स्वयं राजंस्तथा नाग इवाद्रवत्
प्रथमो वा द्वितीयो वा पृथिव्यामिति मे मतिः
स युद्धकुशलः पार्थो बाहुवीर्येण चात्मनः
स चापि द्विरदश्रेष्ठस्सदाऽप्रतिगजो भुवि
अभिनत्कुञ्जरानीकमचिरेणैव पाण्डवः
सर्वशब्दातिगस्सङ्ख्ये कृतकर्मा जितक्लमः
ते गजा गिरिसङ्काशाश्क्षरन्तोऽतिमदा मदम्
सहश्शस्त्रनिपातानामग्निस्पर्शस्य चानघ
भीमसेनस्य नाराचैर्विमदा विमुखीकृताः
स पाण्डवबलं सर्वमद्यैको नाशयिष्यति
विधमेदभ्रजालानि पश्चाद्वातो यथा तथा
सिंहनादं महत्कृत्वा धनुर्बाणरवैस्सह
व्यधमत्तान्यनीकानि नागानां मारुतिश्शरैः
विद्राव्यमाणं सम्पश्य हतभूयिष्ठनायकम्
दृष्ट्वा विनद्य सहसा मम सेनां प्रमृद्नति
स तेषु विसृजन्बाणान्भीमो नागेष्वशोभत
न चावाभ्यां पुमानन्यश्शक्तस्सम्प्रतिबाधितुम्
भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः
त्वरमाणस्ततो याहि यत्र प्राग्ज्योतिषो नृपः
ते भीमबाणैश्शतशस्संस्यूता विबभुर्गजाः
शक्रसङ्ख्यं द्विपबलं वयसा च विनिर्जितम्
गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः
अद्यैव प्रेषयिष्यामि बलहन्तुः प्रियातिथिम्
सञ्जयः-
तदा गजानां कदनं कुर्वाणमनिलात्मजम्
कृष्णस्तु वचनात्तस्य प्रययौ यत्र तद्बलम्
क्रुद्धो दुर्योधनोऽभ्येत्य प्रत्यविध्यच्छितैश्शरैः
काल्यन्ते भगदत्तेन पाञ्चालास्सह पाण्डवैः
ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणम्
तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः
क्षयं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः
संशप्तकास्समारोहन्सहस्राणि चतुर्दश
स शराचितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम्
दशैव तु सहस्राणि त्रिगर्तानां नराधिप
नाराचैरर्करश्म्याभैर्भीमसेनं स्मयन्निव
चत्वारिंशत्सहस्राणि वासुदेवस्य येऽनुगाः
तस्य नागं मणिमयं रत्नचित्रध्वजे स्थितम्
दीर्यमाणां चमूं दृष्ट्वा भगदत्तेन संयुगे
भल्लाभ्यां कार्मुकं चैव क्षुराभ्यामहनद्बली
आहूयमानस्य च तैरभवद्वै मनो द्विधा
दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष
किं नु निश्श्रेयसं कृत्यं भवेदत्रेत्यचिन्तयत्
चुक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः
न चैव विनिवर्तेयं पालयेयं च पाण्डवान्
तमापतन्तं मातङ्गमम्बुदप्रतिमस्वनम्
तथा बुद्ध्या विचार्यैतदसकृत्कुरुनन्दनः
कुम्भान्तरे भीमसेनो नाराचेनार्पयद्भृशम्
अकरोत्परमां बुद्धिं संशप्तकवधे स्थिराम्
तस्य कायं विनिर्भिद्य न्यमज्जद्धरणीतले
स सन्निवृत्तस्सहसा कपिप्रवरकेतनः
ततः पपात द्विरदो वज्राहत इवाचलः
एको रथसहस्राणां बहूनां वासवी रणे
तस्यावर्जितनागस्य म्लेच्छस्याधः पतिष्यतः
सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः
शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः
अर्जुनस्य वधोपाये या वै द्वैधमकल्पयत्
तस्मिन्निपतिते वीरे सम्प्राद्रवत सा चमूः
स तु संवर्तयामास द्वैधीभावेन पाण्डवः
सम्भ्रान्ताश्वद्विपरथा पदातीनवमृद्नती
वधे संशप्तकाख्यानामकरोत्तां मृषाऽनघ
तेष्वनीकेषु सर्वेषु विद्रवत्सु समन्ततः
ततश्शतसहस्राणि प्रयुतान्यर्बुदानि च
प्राग्ज्योतिषस्ततो भीमं कुञ्जरेणाभ्युपाद्रवत्
व्यसृजन्नर्जुने क्रुद्धास्संशप्तकरथर्षभाः
येन नागेन मघवा विजिग्ये दैत्यदानवान्
ततो नैवार्जुनोपेन्द्रौ न रथस्साश्वकेतनः
स नागप्रवरो भीमं सहसा समुपाद्रवत्
दृश्यते शरवर्षेण प्रबलेन समावृतः
श्रवणाभ्यामथोभाभ्यामायतेन करेण च
ततस्तेन शरौघेण महता च समावृतः
व्यावृत्तनयनः क्रुद्वस्सम्यग्यन्त्रा विचोदितः
नाशकन्नाम बीभत्सुरमित्रान्प्रतिवाधितुम्
ततस्सर्वस्य सैन्यस्य नादस्समभवन्महान्
तदा मोहमिव प्राप्तः प्रस्विन्नश्चाच्युतोऽभवत्
हा हा विनिहतो भीमः कुञ्जरेणेति मारिष
ततो जनार्दनः पार्थं प्रत्युवाच हसन्निव
श्रीभगवान्-
सञ्जयः-
तेन नादेन वित्रस्ता पाण्डवानामनीकिनी
वज्रमस्त्रं तु सन्धाय जहि संशप्तकानिह
सहसाऽभ्यद्रवद्राजंस्तत्र यत्र वृकोदरः
ततस्तानहितान् पार्थो वज्रास्त्रेण जघ्निवान्
ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम्
शतशः पाणयश्छिन्नास् सेषुज्यातलकार्मुकाः
भगदत्तं सपाञ्चालास्सर्वतः पर्यवारयत्
केतनानि हयास्सूता रथिनश्चापतन्क्षितौ
सरथैः पृथनाश्रेष्ठैः परिवार्य समन्ततः
द्रुमाचलाग्राम्बुधरैस्समसूपास्सुकल्पिताः
कीर्यते विशिखैस्तीक्ष्णैश्शतशोऽथ सहस्रशः
हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः
स विघातं पृषत्कानामङ्कुशेन समाचरन्
विप्रविद्धकशावल्गाश्छिन्नभाण्डप्रकीर्णकाः
क्षणेन पाण्डुपाञ्चालान्व्यधमत्पर्वतेश्वरः
सारोहास्तुरगाः पेतुर्मथिता पार्थमार्गणैः
तदद्भुतमपश्याम भगदत्तस्य संयुगे
सर्ष्टिचर्मासिनखरास्समुद्गरपरश्वथाः
तथा वृद्धस्य चरितं कुञ्जरेण रणे स्वयम्
सञ्छिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना
ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत्
बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष
गिरिप्रख्येन नागेन श्रीमताऽभिविराजता
सञ्च्छिन्नान्यर्जुनशरैश्शिरांस्युर्वीं प्रपेदिरे
तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः
सारोहालङ्कृतैस्सैन्यैः पत्रिभिः प्राणभोजनैः
सपक्षयोर्द्रुमवतोर्धरणीधरयोरिव
नानालिङ्गैस्सदाऽमित्रान्क्रुद्धोऽभ्यघ्नद्धनञ्जयः
प्राग्ज्योतिषपतेर्नागस्सन्निवृत्त्यापसृज्य च
क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव
पार्श्वे दशार्णाधिपतेर्गत्त्वा नागमयोधयत्
धनञ्जयं भूतगणास्साधुसाध्वित्यपूजयन्
तोमरैस्सूर्यरश्म्याभैर्भगदत्तो हि सप्तभिः
दृष्ट्वा तु कर्म पार्थस्य वासवस्येव माधवः
जघान द्विरदभ्रष्टं शत्रुं प्रचलितासनम्
विस्मयं परमं गत्वा तलमाहत्यपूजयत्
परिच्छाद्य तु राजानं भगदत्तं युधिष्ठिरः
ततस्संशप्तकान्हत्वा भूयिष्ठं ये व्यवस्थिताः
रथानीकेन सर्वेण सर्वतस्समवारयत्
भगदत्ताय याहीति वासुदेवमचोदयत्
स कुञ्जरस्थो रथिभिश्शुशुभे सर्वतो वृतः
किरन्निषुसहस्राणि रश्मीनिव दिवाकरः
मण्डलं सर्वतश्श्लिष्टं रथिनामुग्रधन्विनाम्
किरतां शरवर्षाणि स नागः प्रत्यवर्तत
ततः प्राग्ज्योतिषो राजा परिगृह्य गजोत्तमम्
प्रेषयामास सहसा सत्यकाय विशां पते
आपतन्तं च सम्प्रेक्ष्य नागं सात्त्वतपुङ्गवः
अविध्यत्पञ्चभिर्बाणैः शितैराशीविषोपमैः
शिनेः पुत्रस्य तु रथं परिगृह्य स नागराट्
समाचिक्षेप वेगेन युयुधानस्तु पुप्लुवे
बृहतस्सैन्धवान् दान्तान्समुत्थाप्य तु सारथिः
तस्थौ सात्यकिमासाद्य सोत्यतिष्ठद्रथं पुनः
स तु लब्ध्वाऽन्तरं नागस्त्वरितो रथमण्डलात्
निष्पतन्सततं सर्वान्परिचिक्षेप पार्थिवान्
ते त्वाशुगतिना तेन प्रास्यमाना रथर्षभाः
तमेकं द्विरदं सङ्ख्ये मेनिरे शतशो गजान्
ते गजस्थेन काल्यन्ते भगदत्तेन पार्थिवाः
ऐरावतस्थेन यथा देवराजेन दानवाः
तेषां प्रद्रवतां सङ्ख्ये पाञ्चालानामितस्ततः
रथवाजिगजैश्शब्दस्सुमहान्समजायत
भगदत्तेन समरे काल्यमानेषु पाण्डुषु
प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमस्समभ्ययात्
तस्याभिद्रवतो वाहान्हस्तमुक्तेन वारिणा
सिक्त्वा व्यद्रावयन्नागस्ते पार्थमवहन्हयाः
ततस्तमभ्ययात्तूर्णं सुपर्वा पार्वतीसुतः
समुञ्चञ्शरवर्षाणि रथस्थोऽन्तकसन्निभः
सशस्त्रं तं सुपर्वाणं शरेणानतपर्वणा
जघान पर्वतपतिः प्रेक्षयन् वै यमक्षयम्
तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुतः
चेकितानो धृष्टकेतुर्युयुत्सुश्चार्दयञ्शरैः
त एनं शरधाराभिर्धाराभिरिव तोयदाः
ववर्षुर्भैरवं नादं विनदन्तो जिघांसवः
ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चोदितो द्विपः
प्रसारितकरः प्रायात् स्तब्धकर्णेक्षणो द्रुतम्
सोऽधिष्ठाय पदा वाहान् युयुत्सोस्सूतमारुजत्
पुत्रस्तु तव सम्भ्रान्तस्सौभद्रस्याप्लुतो रथम्
स कुञ्जरस्थो विसृजन्निषूनरिषु पार्थिवः
बभौ रश्मीनिवादित्यो भुवनेषु समासृजन्
तमार्जुनिर्द्वादशभिर्युयुत्सुर्दशभिश्शरैः
त्रिभिस्त्रिभिर्द्रौपदेया धृष्टकेतुश्च विव्यधुः
चेकितानश्चतुष्षष्ट्या सोत्तरायुधिकं पुनः
प्रत्यविध्यच्छरैस्सर्वान्भगदत्तस्त्रिभिस्त्रिभिः
सोऽपि वीरार्पितैर्बाणैराचितो द्विरदो बभौ
संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान्
स यन्तुश्शिल्पयत्नाभ्यां प्रेषितोऽरिशराहतः
परिचिक्षेप तान्नागस्स रिपून्सव्यदक्षिणम्
गोपाल इव दण्डेन यथा पशुगणान्वने
सङ्कालयति तां सेनां भगदत्तस्तथा मुहुः
क्षिप्रं श्येनाभिपन्नानां वायसानामिव स्वनः
बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः
रजश्च सुमहद्राजन्नन्तरिक्षं समाचिनोत्
अभिधावति कौन्तेयं सञ्चोदयदिवार्जुनम्
स नागराट् प्रबलबलोद्धतो द्रुतं पुरा सपक्षाद्रिवरो यथाऽद्रवत्
भयं महद्रिपुषु समादधद्भृशं वणिग्जनानां क्षुभितो यथाऽर्णवः
तथा ध्वनिर्द्विरदरथाश्वपार्थिवैर्भयान्नदद्भिर्जनितोऽतिभैरवः
स तेन नागप्रवरेण पार्थिवो भृशं जगाहे द्विषतां वरूथिनीम्
पुराऽभिगुप्तां विबुधैरिवाहवे विरोचनो देववरूथिनीमिव
भृशं ववौ ज्वलनसखो वियद्रजस्समावृणोन्मुहुरभितश्च सैनिकान्
तमेकनागं शतशो यथा गजान्समन्ततो द्रुतमभिकाङ्क्षते जनः
क्षितिं वियद् द्यां प्रदिशो दिशस्तथा समानवेगाः प्रतिसस्वनुर्भृशम्