सञ्जयः-
ततो दुर्मर्षणो भीममभ्ययात्तनयस्तव
आराद्दृष्ट्वा किरन्बाणैरिच्छन्द्रोणस्य जीवितम्
तं बाणेरवतस्तार क्रुद्धो मृत्युरिवाहवे
तं च भीमोऽतुदद्बाणैस्तदाऽऽसीत्तुमुलं महत्
त ईश्वरसमादिष्टाः प्राज्ञाश्शूराः प्रहारिणः
बाह्यं कृत्वा मृत्युभयं युयुधुः पाण्डवैस्सह
कृतवर्मा शिनेः पुत्रं द्रोणं प्रेप्सुं विशाम्पते
पर्यवारयदायान्तं शूरं समरशोभिनम्
तं शैनेयश्शरव्रातैः क्रुद्धः क्रुद्धं तदाऽकिरत्
कृतवर्मा च शैनेयं मत्तो मत्तमिव द्विपम्
सैन्धवः क्षत्रवर्माणमापतन्तं शरौघिणम्
उग्रधन्वा महेष्वासं यत्तो द्रोणादवारयत्
क्षत्रधर्मा सिन्धुपतेश्छित्त्वा केततनकार्मुके
नाराचैर्दशभिः क्रुद्धस्सर्वमर्मस्वताडयत्
अथान्यद्धनुरादाय सैन्धवः कृतहस्तवत्
विव्याध क्षत्रधर्माणं मनोगतिभिराशुगैः
युयुत्सुं पाण्डवार्थाय रोचमानं महाहवे
सुबाहुभ्रातरं शूरं यान्तं द्रोणादवारयत्
सुबाहोस्सधनुर्बाणावस्यतः परिघोपमौ
युयुत्सुश्शितपीताभ्यां क्षुराभ्यामच्छिनद्भुजौ
राजानं पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम्
वेलेव सागरं क्षुब्धं मद्रराट् समवारयत्
तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत्
मद्रेशस्तं चतुष्षष्ट्या शरैर्विद्ध्वाऽनदद्भृशम्
तस्य नानदतः केतुमुच्चकर्त सकार्मुकम्
क्षुराभ्यां पाण्डवश्रेष्ठस्तत उच्चुक्रुशुर्जनाः
तथैव राजा राजानं बाह्लीको द्रुपदं शरैः
आद्रवन्तं सहानीकं सहानीको न्यवारयत्
तद्युद्धमभवद्धोरं क्रुद्धयोस्सहसेनयोः
यथा महायूथपयोर्द्विपयोस्सहयूथयोः
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम्
सहसेनं यथेन्द्राग्नी पुरा बलिमिवाध्वरे
तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम्
मत्स्यैस्सार्धमवन्तीनामभीताश्वरथद्विपम्
नाकुलिस्तु शतानीकश्श्रुतवर्माणमाहवे
अस्यन्तमिषुसङ्घानि द्रोणप्रेप्सुमवारयत्
ततो नकुलदायादस्त्रिभिर्भल्लैस्समाहितैः
चक्रे विबाहुशिरसं श्रुतवर्माणमाहवे
श्रुतकीर्तिं तु भैमेयमापतन्तं शरौघिणम्
द्रोणायाभिमुखं यान्तं विविंशतिरवारयत्
श्रुतकीर्तिस्तु सङ्क्रुद्धस्सुपीताजिह्मगैश्शरैः
विविंशतिं शरैर्विद्ध्वा न न्यवर्तत दंशितः
साल्वो भीमरथश्शूरं श्रुतसेनं महाहवे
द्रोणायाभिमुखं यान्तं शरौघेण न्यवारयत्
स तु भीमरथं साल्वं मनोगतिभिरायसैः
षड्भिस्साश्वनियन्तारमनयद्यमसादनम्
सुतसोमं समायान्तं मयूरसदृशैर्हयैः
चित्रसेनो महाराज तव पुत्रो न्यवारयत्
तमार्जुनिश्शरैश्चक्रे पितृव्यं जर्झरच्छविम्
शरैश्च द्रौपदीपुत्रश्चित्रसेनं समावृणोत्
किरन्तं शरजालानि प्रभिन्नमिव कुञ्जरम्
श्रुतकर्माणमायान्तं दौश्शासनिरवारयत्
तौ पेततुश्च दुर्धर्षौ परस्परवधैषिणौ
पितॄणामर्थसिद्ध्यर्थं चक्राते युद्धमुत्तमम्
तिष्ठन्तं तु पितुश्शास्त्रे प्रतिविन्ध्यं तमायसैः
द्रौणिर्मानं पितुः कुर्वन्नाततायिनमर्दयत्
तं क्रुद्धं प्रतिविव्याध प्रतिविन्ध्यश्शितैश्शरैः
सिंहलाङ्गूललक्ष्माणं पितुरर्थे व्यवस्थितम्
प्रवपन्निव बीजानि बीजकाले कृषीवलः
द्रौणायनिर्द्रौपदेयं शरवर्षैरवाकिरत्
यस्तु शूरतमो राजन्नुभयोस्सेनयोस्स्मृतः
तं पटच्चरहन्तारं लक्ष्मणस्समवारयत्
लक्ष्मणेष्वसनं छित्त्वा लक्ष्मणं चापि मारिष
लक्ष्मणे शरजालानि विसृजन्बह्वशोभत
ततोऽभिमन्युः कर्माणि कुर्वन्तं चित्रयोधिनम्
आर्जुनिः कृतिनं शूरं लक्ष्मणं समयोधयत्
स सम्प्रहारस्तुमुलस्तयोरासीन्महात्मनोः
श्रोतॄणामीक्षितॄणां च भृशं प्रीतिविवर्धनः
तव पौत्रौ च दुर्धर्षौ परस्परवधैषिणौ
पितॄणामर्थसिद्ध्यर्थं चक्राते युद्धमद्भुतम्
विकर्णस्तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम्
पर्यवारयदायान्तं युवानं समरे युवा
ततस्तमिषुजालेन याज्ञसेनिस्समावृणोत्
विधूय तद्बाणजालं बभौ तव सुतो बली
अङ्गदोऽभिमुखश्शूरमुत्तमौजसमाहवे
द्रोणायाभिमुखं यान्तं वत्सदन्तैरवाकिरत्
अङ्गदो निशितैर्बाणैः पुनरेनमवाकिरत्
स सम्प्रहारस्तुमुलस्तयोरासीन्महात्मनोः
श्रोतॄणामीक्षितॄणां च तयोश्च प्रीतिवर्धनः
अङ्गदं पञ्चभिर्बाणैरविध्यत्स परन्तपः
ततस्समभवद्युद्धमन्योन्यमितरेतरम्
वीराणां जयकाङ्क्षाणां अतीव बलपौरुषात्
दुर्मुखस्तु महेष्वासो वीरं पुरुजितं बली
द्रोणायाभिमुखं यान्तं कुन्तोभोजमवारयत्
स दुर्मुखं भ्रुवोर्मध्ये नाराचेनाहनद्भृशम्।
तस्य तद्विबभौ वक्त्रं सनालमिव पङ्कजम्
कर्णस्तु केकयान्भ्रातॄन्पञ्च लोहितकध्वजान्
द्रोणायाभिमुखं याताञ्शरौघेण न्यवारयत्
त एनं भृशसङ्क्रुद्धाश्शरव्रातैरवाकिरन्
स एतांश्छादयामास शरजालैः पुनः पुनः
न वै कर्णो न ते पञ्च ददृशशुश्शरसंवृताः
साश्वसूतध्वजरथाः परस्परशराचिताः
पुत्रास्ते दुर्जयश्चैव जयश्च विजयश्च ह
नीलकाश्यजयाञ्शूरांस्त्रयस्त्रीन्समवारयन्
तद्युद्धमभवद्धोरं वीक्षितृप्रीतिवर्धनम्
सिंहव्याघ्रतरक्षूणां यथेभमहिषर्षभैः
क्षेमधूर्तिबृहन्तौ तु सानुगौ प्रवरौ युधि
द्रोणायाभिमुखं यातौ शल्यपुत्रो न्यवारयत्
तयोस्समेतयोर्युद्धमत्यद्भुतमिवाभवत्
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने
राजानं तु तथाऽम्बष्ठमेकं युद्धाभिनन्दिनम्
चेदिराजस्स्वया शक्त्या क्रुद्धो द्रोणादवारयत्
तमम्बष्ठोऽस्थिभेदिन्या निरविध्यच्छलाकया
स त्यक्त्वा सशरं चापं रथाद्भूमौ पपात ह
वार्धक्षेमिं तु वार्ष्णेयं कृपश्शारद्वतश्शरैः
अक्षुद्रः क्षुद्रकैर्बाणैः क्रुद्धरूपमवारयत्
युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यंश्चित्रयोधिनौ
ते युद्धसक्तमनसो नान्यैर्युयुधिरे नृपाः
सौमदत्तिस्तु राजानं मणिमन्तमतन्द्रितम्
पर्यवारयदायान्तं यशो द्रोणस्य वर्घयन्
स सौमदत्तेस्त्वरितं छित्वा केतनकार्मुके
पुनः पताकां सूतं च छत्रं चापातयद्रथात्
अवप्लुत्य रथात्तूर्णं यूपकेतुररिन्दमः
साश्वसूतध्वजं चैव निचकर्त वरासिना
अथ स्वरथमास्थाय धनुरादाय चापरम्
स्वयं यच्छन्हयान्राजन्व्यधमत्पाण्डुवाहिनीम्
मुसलैर्मुद्गरैश्चक्रैर्भिण्डिपालैः परश्वथैः
पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणद्रुमैः
आरुजन्प्ररुजन्भञ्जन्निघ्नन्विद्रावयन्क्षिपन्
सेनां विभीषणोऽभ्येति द्रोणप्रेप्सुर्घटोत्कचः
तं तु नानाप्रहरणैस्तस्य युद्धविशेषणैः
राक्षसो राक्षसं क्रुद्धं क्रुद्धोऽभ्यघ्नदलम्बुसः
तयोस्तदभवद्युद्धं रक्षोग्रामणिमुख्ययोः
तादृग्यादृक्पुरावृत्तं शम्बरामरराजयोः
भारद्वाजस्तु सेनान्यं धृष्टद्युम्नं महारथम्
तमेव राजन्नायान्तमतिक्रम्य परान् रिपून्
महता शरजालेन किरन्तं शत्रुवाहिनीम्
अवारयन्महाराज सामात्यं सपदानुगम्
अथान्ये पार्थिवा राजन् बहुत्वान्नातिकीर्तिताः
समसज्जन्त सर्वे ते यथायोगं यथाबलम्
हयैर्हयास्तथा जग्मुः कुञ्जरैरेव कुञ्जराः
पदातयः पदातीभी रथैरेव महारथाः
अकुर्न्नार्यकर्माणि तत्रैव पुरुषर्षभाः
कुरुवीर्यानुरूपाणि संस्पृष्टाश्च परस्परम्
एवं द्वन्द्वशतान्यासन्रथवारणवाजिनाम्
पदातीनां च भद्रं ते तव तेषां च सङ्कुले
नैतादृशो दृष्टपूर्वश् सङ्ग्रामो नैव च श्रुतः
द्रोणस्याभावभावेषु प्रसक्तानां परस्परम्
इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो
तत्र युद्धान्यवर्तन्त पृतनानां बहूनि च