सञ्जयः-
महद्भैरवमासीन्नस्सन्निवृत्तेषु पाण्डुषु
दृष्ट्वा द्रोणं छादितं तैस्तं भास्करमिवाम्बुदैः
तैश्चोत्थितं रजस्तीव्रमवचक्रे चमूं तव
ततो हतममंस्याम द्रोणं दृष्टिपथे हते
तांस्तु शूरान्महेष्वासान्क्रूरं कर्म चिकीर्षतः
दृष्ट्वा दुर्योधनस्तूर्णं स्वसैन्यं समचूचुदत्
दुर्योधनः-
यथाशक्ति यथोत्साहं यथासत्वं नराधिपाः
वारयध्वं यथायोगं पाण्डवानामनीकिनीम्