धृतराष्ट्रः-
सर्वेषामेव मे ब्रूहि चिह्वान्यश्वांश्च सञ्जय
तानहं श्रोतुमिच्छामि विस्तरेण पृथक्पृथक्
ये द्रोणमभिवर्तन्ते क्रुद्धं भीमपराक्रमम्
दूयते मे मनस्तात द्रोणं प्रति परन्तपम्
श्रुत्वा भीष्मस्य निधनं तद्वदेतद्भविष्यति
सञ्जयः-
ऋश्यवर्णान् हयान्दृष्ट्वा व्यायच्छन्तं वृकोदरम्
रजताश्वस्ततश्शूरश्शैनेयस्सन्न्यवर्तत
दर्शनीयास्तु काम्भोजाश्शुकपत्रपरिच्छदाः
वहन्तो नकुलं युद्धे तावकाञ्शीघ्रमत्ययुः
कृष्णास्तु मेघसङ्काशास्सहदेवं हयोत्तमाः
भीमवेगा नरव्याघ्रमवहन्पाण्डवं हयाः
हेमोत्तमप्रतिच्छन्नैर्हयैर्वातसमैर्जवे
अभ्यवर्तन्त सैन्यानि सर्वाण्येव युधिष्ठिरम्
राज्ञस्त्वनन्तरं राजा पाञ्चालो द्रुपदोऽभवत्
जातरूपमयच्छत्रस्सर्वैस्तैरभिरक्षितः
ललामैर्हरिभिर्युक्तस्सर्वशब्दक्षमैर्युधि
राजमध्ये महेष्वासश्शान्तभीरभ्यवर्तत
तं विराटोऽन्वयात्पश्चात्सह शूरैर्महारथैः
केकयाश्च सिखण्डी च धृष्टकेतुस्तथैव च
स्वैस्स्वैस्सैन्यैः परिवृता मत्स्यराजानमन्वयुः
तस्य पाटलिपुष्पाणां तुल्यवर्णा हयोत्तमाः
वहन्तस्समशोभन्त मास्त्यस्यामित्रघातिनः
इन्द्रगोपकवर्णाश्वा भ्रातरः पञ्च केकयाः
जातरूपा इवाभान्ति ते सर्वे लोहितध्वजाः
वर्षन्त इव जीमूताः प्रत्यदृश्यन्त दंशिताः
आम्रपल्लववर्णास्तु सुधन्वानं महौजसम्
दत्तास्तुम्बुरुणा दिव्याश्शिखण्डिनमुदावहन्
तथा द्वादशसाहस्राः पाञ्चालानां महारथाः
तेषां तु षट्सहस्राणि ये शिखण्डिनमन्वयुः
पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष
आक्रीडन्तो वहन्ति स्म सारङ्गशबला हयाः
धृष्टकेतुस्तु चेदीनामृषभोऽतिबलान्वितः
काम्भोजैश्शबलैरश्वैरभ्यवर्तत संयुगे
बृहत्क्षत्रं तु कैकेयं सुकुमारं हयोत्तमाः
पलालधूमवर्णाभास्सैन्धवास्तमुदावहन्
मल्लिकाक्षाः पद्मवर्णा बाह्लिजातास्स्वलङ्कृताः
शूरं शिखण्डिनः पुत्रं क्षत्रदेवमुदावहन्
युवानमवहन्युद्धे क्रौञ्चवर्णा हयोत्तमाः
काश्यस्याभ्यवहन्पुत्रं सुकुमारं यशस्विनम्
श्वेतास्तु प्रतिविन्ध्यं तं कृष्णग्रीवा हयोत्तमाः
युवानमवहन् युद्धे यन्तुः प्रेष्यकरा हयाः
सुतसोमं तु योधाग्र्यं भीमपुत्रं महाबलम्
ऊर्णापुष्पसमावर्णैरवहन्वाजिनो रणे
सहस्रसोमप्रतिमा हयाः कनकभूषणाः
वीरं तमवहन्युद्धे हेपमाणास्समन्ततः
नाकुलिं तु शतानीकं सालपुष्पसमा इव
आदित्यतैजसप्रख्या ज्वलन्तो ह्वयवहन्हयाः
काञ्चनापिडनैर्गात्रैर्मायूरग्रीवसन्निभाः
द्रौपदेयं नरव्याघ्रं श्रुतकर्माणमावहन्
श्रुतकीर्तिं श्रुतनिधिं द्रौपदेयं हयोत्तमाः
ऊहुः पार्थसमं युद्धे चाषपत्रनिभा विभुम्
यमाहुरध्यर्धगुणं पार्थात्कृष्णाच्च संयुगे
सोऽभिमन्युः पिशङ्गैस्तु भृशमश्वैर्न्यवर्तत
एकस्तु धार्तराष्ट्रेभ्यः पाण्डवान्यस्समाश्रितः
तं बृहन्तो महाकाया युयुत्सुमवहन् हयाः
ये तु पुष्करसारस्य तुल्यवर्णा हयोत्तमाः
पलालकाण्डवर्णास्तु वार्धक्षेमिं तरस्विनम्
ऊहुस्सुतुमुले युद्धे हया हृष्टास्स्वलङ्कृताः
कुमारं शितिपादास्तु रुक्मचित्रैरुरश्छदैः
सौचित्तिमवहन् युद्धे यन्तुः प्रेष्यकरा हयाः
रुक्मपीठावकीर्णास्तु कौशेयसदृशा हयाः
सुवर्णमालिनः क्षान्ताः श्रेणिमन्तमुदावहन्
रुक्ममालाधराश्शुभ्रा हेमवर्णास्स्वलङ्कृताः
काशिराजं हयश्रेष्टाश् श्लाघनीयमुदावहन्
योऽश्रूयत धनुर्वेदे ब्राह्मे वेदे च पारगः
ह्रीमान्सत्यधृतिश्शूरो द्रोणं प्रेप्सुः परन्तपः
यस्स पाञ्चालसैन्याननां द्रोणमंशमकल्पयत्
पारावतसवर्णाश्वा धृष्टद्युम्नमुदावहन्
तमन्वयात्सत्यधृतिस्सौविन्दो युद्धदुर्मदः
श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः
ययुः परमकाम्भोजैर्जवनैर्हेममालिभिः
भीषयन्तो द्विषत्सैन्यं यमवैश्रवणोपमाः
श्वेतपुष्करसारस्य तुल्यवर्णा हयोत्तमाः
जवे श्येनसमाश्चित्रास्सुदामानमुदावहन्
शशलोहितवर्णास्तु पाण्डुरोद्गतराजयः
पाञ्चाल्यं गोपतेः पुत्रं सिंहसेनमुदावहन्
इन्द्रायुधसवर्णास्तु कुन्तिभोजमुदावहन्
आपत्सु न विषीदन्तो मातुलं सव्यसाचिनः
अन्तरिक्षसवर्णास्तु तारकाभिश्चिता इव
राजानं रोचमानं ते हयाश्शङ्खमुदावहन्
कर्बुराश्शितिपादास्तु हेमजालपरिच्छदाः
जारासन्धिं हयश्रेष्ठास्सहदेवमुपावहन्
प्रभद्रकास्तु पाञ्चालाः षट्सहस्राउदायुधाः
नानावर्णैर्हयैश्श्रेष्ठैर्हेमरूप्यमणिध्वजैः
शरव्रातैर्निरुन्धन्तश्शत्रून्विततकार्मुकाः
समानमृत्यवो भूत्वा धृष्टद्युम्नं समन्वयुः
बभ्रुकौशेयवर्णास्तु सुवर्णवरमालिनः
ऊहुरग्लानमनसश्चेकितानं हयोत्तमाः
पाञ्चालानां रथश्रेष्ठो निवृत्तो जनमेजयः
तस्य सर्षपपुष्पाणां तुल्यवर्णा हयोत्तमाः
माषवर्णास्तु जवना बृहन्तो हेममालिनः
दधिपृष्ठाश्चन्द्रमुखाः पाञ्चालमवहन्हयाः
योधाश्च मद्रकाश्चैव शरकाण्डनिभा हयाः
पद्मकिञ्जल्कवर्णाभा दण्डधारमुदावहन्
हेपमालास्तु बिभ्राणाश्चक्रवाकोदरोपमाः
कोसलाधिपतेः पुत्रं सुक्षत्रं वाजिनोऽवहन्
शबलास्ते बृहन्तोऽश्वा दान्ता जाम्बूनदस्रजः
युद्धे सत्यधृतिं क्षेमिमवहन्नतिशोभनाः
एकवर्णेन सर्वेण ध्वजेन कवचेन च
अश्वैश्च धनुषा चैव शुक्लैश्शुक्लो न्यवर्तत
समुद्रसेनपुत्रं तु समुद्रारुणसप्रभम्
अश्वाश्शशाङ्कसदृशाश्चन्द्रदेवमुदावहन्
नीलोत्पलसवर्णाश्च तपनीयविभूषिताः
शैब्यं चित्ररथं युद्धे चित्रमालाऽवहन्हयाः
कलायपुष्पवर्णास्तु श्वेतलोहितराजयः
रथसेनं हयश्रेष्ठास्समूहुर्युद्धदुर्मदम्
यं तु सर्वमनुष्येषु प्राहुश्शूरतरं बुधाः
तं पटच्चरहन्तारं शुकवर्णाऽवहन्हयाः
चित्रायुधं चित्रमाल्यं चित्रवर्मरथध्वजम्
ऊहुः किंशुकपुष्पाणां तुल्यवर्णा हयोत्तमाः
एकवर्णेन सर्वेण ध्वजेन कवचेन च
धनुषा रथवाहैश्च नीलैर्नीलोऽभ्यवर्तत
ये तु पुष्करवर्णस्य तुल्यवर्णा हयोत्तमाः
ते रोचमानस्य सुतं हेमवर्णमुदाहवन्
नानारूपै रत्नचित्रैर्वरूथध्वजकार्मुकैः
वाजिभिश्च पताकाभिश्चित्रैश्चित्रो न्यवर्तत
योधाश्च मद्रकाश्चैव शरकाण्डनिभा हयाः
श्वेताण्डाः कुक्कुटाण्डाश्च दण्डधारमुदावहन्
आरकूटकवर्णाश्वा राङ्कवास्तरणाः पृथक्
अवहन्योधमुख्यानामयुतानि चतुर्दश
नानारूपेण रूपेण नानामुखमुखा हयाः
रथच्छत्रध्वजं वीरं घटोत्कचमुदावहन्
भारतानां समेतानामुत्सृज्यैको मतानि यः
गतो युधिष्ठिरं भक्त्या त्यक्त्वा सर्वस्वमीप्सितम्
लोहिताक्षं महाबाहुं युयुत्सुं मकरध्वजम्
महासत्वा वहन्त्यश्वास्सौवर्णे स्यन्दने स्थितम्
सर्ववर्णस्तु धर्मज्ञमापदर्थं युधिष्ठिरम्
राजश्रेष्ठं हयश्रेष्ठा हृष्यन्तः पृष्ठतो ययुः
वर्णैरुच्चावचप्रख्यैस्सदश्वानां प्रभद्रकाः
सन्न्यवर्तन्त युद्धाय बहवो देवरूपिणः
ते यत्ता भीमसेनेन सहिताः काञ्चनप्रभाः
प्रत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः
अत्यरोचत तान्सर्वान्धृष्ठद्युम्नस्समागतान्
अतीव शुशुभे यस्य ध्वजः कृष्णाजिनोत्तरः
कमण्डलुर्महाराज जातरूपमयश्शुभः
ध्वजं तु भीमसेनस्य वैडूर्यमणिरोचनम्
भ्राजमानं महासिंहं राजतं दृष्टवानहम्
ध्वजं तु कुरुराजस्य पाण्डवस्य महात्मनः
दृष्टवानस्मि सौवर्णं सोमं ग्रहगणान्वितम्
मृदङ्गौ चात्र विपुलौ दिव्यौ नन्दोपनन्दकौ
यन्त्रेणाहन्यमानौ च सुस्वनौ हर्षवर्धनौ
शरभं मृष्टसौवर्णं नकुलस्य महाध्वजम्
अपश्याम रणे व्याघ्रं भीमयानमवस्थितम्
हंसस्तु राजतश्श्रीमान्ध्वजे घण्टापताकवान्
सहदेवस्य दुर्धर्षो द्विषतां शोकवर्धनः
पञ्चानां द्रौपदेयानां प्रतिमा रथभूषणाः
धर्ममारुतशक्राणामश्विनोश्च महात्मनोः
अभिमन्योः कुमारस्य शार्ङ्गपक्षी हिरण्मयः
रथोद्धतजोलोलजैत्रचामीकरोल्बणः
घटोत्कचस्य राजेन्द्र रथे गृध्रो व्यरोचत
अश्वाश्च रोमशास्तस्य रावणस्य पुरा यथा
माहेन्द्रं च धनुर्दिव्यं धर्मराजे युधिष्ठिरे
वायव्यं भीमसेनस्य धनुर्दिव्यमभून्महत्
त्रैलोक्यरक्षणार्थाय ब्रह्मणा सृष्टमद्भुतम्
तद्दिव्यमक्षयं चैव गाण्डीवं फाल्गुनस्य च
वैष्णवं नकुलस्याथ सहदेवस्य चाश्चिनम्
घटोत्कचस्य पौलस्त्यं धनुर्दिव्यं भयानकम्
रौद्रं कौवेरमाग्नेयं याम्यं गिरिशमेव च
पञ्चानां द्रौपदेयानां धनूरत्नं महत्तरम्
रौद्रं धनुर्वरश्रेष्ठं यल्लेभे रोहिणीसुतः
तत्तुष्टः प्रददौ रामस्सौभद्राय महात्मने
एतांश्चान्यांश्च सुबहून् ध्वजांश्चापांश्च तोषितान्
अतिसर्वाणि सैन्यानि भारद्वाजो व्यरोचत
ददृशुस्तत्र शूराणां द्विषतां शोकवर्धनान्
तदद्भुतमसम्बाधं महापुरुषसेवितम्
द्रोणानीकं महाराज पटे चित्रमिवार्पितम्
श्रूयन्ते नामगोत्राणि शूराणां संयुगे सताम्
द्रोणमाद्रवतां राजन्स्वयंवर इवावुभौ