धृतराष्ट्रः-
भारद्वाजेन भग्नेषु पाण्डवेषु महात्मसु
पाञ्चालेषु च सर्वेषु कच्चिन्नान्यो न्यवर्तत
योद्धुं युद्धे मतिं कृत्वा क्षत्रियाणां यशस्करीम्
असेवितां कापुरुषैस्सेवितां पुरुषर्षभैः
स एष पुरुषव्याघ्रो यो भग्नेषु निवर्तते
अहो नासीत्पुमान्कश्चिद्द्रोणं दृष्ट्वा व्यवस्थितम्
जृम्भमाणमिव व्याघ्रं प्रभिन्नमिव कुञ्जरम्
त्यजन्तमाहवे प्राणान्सन्नद्धं चित्रयोधिनम्
महेष्वासं रथव्याघ्रं द्विषतां भयवर्धनम्
भारद्वाजं रथानीके शूरं दृष्ट्वा व्यवस्थितम्
के वीरास्सन्न्यवर्तन्त तन्ममाचक्ष्व सञ्जय
सञ्जयः-
तान्दृष्ट्वा चलितान्सङ्ख्ये प्रणुन्नान्द्रोणसायकैः
पाञ्चालान्पाण्डवान्मात्स्यान्सृञ्जयांश्च सकेकयान्
द्रोणचापविमुक्तेन शरौघेणासुहारिणा
सिन्धोरिव महौघेन ह्रियमाणान्यथा प्लवान्
कौरवास्सिंहनादेन नानावाद्यरवेण च
रथद्विपनरांश्चैव सर्वतः समवारयन्
तान्पश्यन्सैन्यमध्यस्थो राजा स्वजननिर्जितान्
दुर्योधनोऽब्रवीत्कर्णं प्रहृष्टः प्रहसन्निव
दुर्योधनः-
पश्य राधेय पाञ्चालान्प्रणुन्नान्द्रोणसायकैः
सिंहेनेव मृगानस्त्रैस्त्रासितान्दृढधन्वना
नैते जातु पुनर्युद्धमीहिष्यन्तीति मे मतिः
यथाहि भग्ना द्रोणेन वातेनेव महाद्रुमाः
अर्द्यमानाश्शरैरेते रुक्मपुङ्खैर्महात्मना
पथा नैकेन गच्छन्ति घूर्णमाना इतस्ततः
सन्निरुद्धाश्च कौरव्यैर्द्रोणेन च विशेषतः
एतेऽद्य मण्डलीभूताः पावकेनेव कुञ्जराः
भ्रमरैरिव चाविष्टा द्रोणस्य निशितैश्शरैः
अन्योन्यमवलीयन्ते पलायनपरायणाः
एष भीमो दृढक्रोधो हीनः पाण्डवसृञ्जयैः
मदीयैरावृतो वीरः कर्ण नन्दयतीव माम्
व्यक्तं द्रोणमयं लोकमद्य पश्यति दुर्मतिः
निराशो जीविते नूनं राज्येऽपि न च पाण्डवः
कर्णः-
नैव जातु महातेजा जीवन्नाहवमुत्सृजेत्
न चेमान्पुरुषव्याघ्र सिंहनादान्सहिष्यते
न चापि पाण्डवा युद्धे भज्येरन्निति मे मतिः
शूराश्च बलवन्तश्च कृतास्त्रा युद्धदुर्मदाः
विषाग्निद्यूतसङ्क्लेशान्वनवासं च पाण्डवाः
स्मरमाणा न हास्यन्ति सङ्ग्राममिति मे मतिः
आवृतोऽपि महाबाहुरमितौजा वृकोदरः
वरान्वरान्हि कौन्तेयो रथोदारान्वधिष्यति
असिना धनुषा शक्या रथैर्नागैर्हयैर्नरैः
आयसेन च दण्डेन प्राप्तान्प्राप्तान्हनिष्यति
त इमे विनिवर्तन्ते सात्यकिप्रवरा रथाः
पाञ्चालाः केकया मास्त्याः पाण्डवाश्च विशेषतः
शूराश्च बलवन्तश्च कृतास्त्रा युद्धदुर्मदाः
विशेषतश्च भीमेन संरब्धेनाभिचोदिताः
तं द्रोणमभिवर्तन्ते सिंहं मोहान्मृगा इव
वृकोदरं परीप्सन्तस्सूर्यं कृष्णघना इव
समरेषु तु निर्दिष्टाः पाण्डवाः कृष्णबान्धवाः
पाञ्चालाः केकया मात्स्याः पाण्डवेयाश्च सर्वशः
शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः
ह्रीमन्तश्शत्रुमरणे निपुणाः पुण्यलक्षणाः
बहवः पार्थिवा राजंस्तेषां वशगता रणे
माऽवमंस्थाः पाण्डवांस्त्वं नारायणपुरोगमान्
एकायनगतास्त्वेते पीडयेयुर्यथा वृकम्
अरक्षमाणं शलभा यथा दीपं मुमूर्षवः
असंशयं कृतास्त्राश्च पर्याप्ताश्चारिग्रहे
अतिभारं त्विमे मन्ये भारद्वाजे समाहितम्
ते शीघ्रमनुगच्छामो यत्र द्रोणो व्यवस्थितः
कोका इव महानागं मा च हन्युर्महारथम्
सञ्जयः-
कर्णस्य तु वचश्श्रुत्वा राजा दुर्योधनस्तथा
भ्रातृभिस्सहितो राजन्प्रायाद्द्रोणरथं प्रति
तत्र नादो महानासीदेकं द्रोणं जिघांसताम्
पाण्डवानां निवृत्तानां नानावर्णैर्हयोत्तमैः