सञ्जयः-
ततो युधिष्ठिरो द्रोणं दृष्ट्वाऽन्तिकमुपागतम्
महता शरवर्षेण प्रत्यगृह्णादभीतवत्
ततो हलहलाशब्द आसीद्यौधिष्ठिरे बले
जिघृक्षति महासिंहे गजानामिव यूथपम्
दृष्ट्वा द्रोणं तथा वीरस् सत्यजित्सत्यविक्रमः
युधिष्ठिरं परिप्रेप्सुराचार्यं समुपाद्रवत्
तत आचार्यपाञ्चालौ युद्धायाभिसमीयतुः
विक्षोभयन्तौ तौ सेने इन्द्रवैरोचनाविव
ततस्स सत्यजित्तीक्ष्णैर्दशभिर्मर्मभेदभिः
अविध्यच्छीघ्रमाचार्यं सूतं च दशभिश्शरैः
आचार्यस्तस्य वै चापं चिच्छेद त्रिभिराशुगैः
द्रोणमभ्यहनद्भल्लैस्त्रिंशद्भिर्मर्मभेदिभिः
ज्ञात्वा सत्यजितं द्रोणं ग्रसमानमिवाहवे
स शीघ्रमादाय तदा धनुरन्यत्प्रतापवान्
वृकश्शरशतैस्तीक्ष्णैः पाञ्चाल्यो द्रोणमार्दयत्
सञ्छाद्यमानं समरे द्रोणं दृष्ट्वा महारथम्
चुक्रुशुः पाण्डवा राजन्वस्त्राणि दुधुवुश्च ह
वृकस्तु परमक्रुद्धो द्रोणं षष्ट्या स्तनान्तरे
विव्याध बलवद्राजंस्तदद्भुतमिवाभवत्
द्रोणस्तु शरवर्षेण च्छाद्यमानो महारथः
वेगं चक्रे महाघोरं क्रोधादुद्धृत्य चक्षुषी
ततस्सत्यजितश्चापं छित्त्वा द्रोणो वृकस्य च
षड्भिस्ससूतं सरथं शरैर्द्रोणोऽवधीद्वृकम्
अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम्
साश्वं ससूतं विशिखैर्द्रोणं विव्याध सध्वजम्
स तन्न ममृषे द्रोणः पाञ्चाल्येनार्दनं रणे
ततस्तस्य विनाशाय सत्वरं व्यसृजच्छरान्
हयान्ध्वजं धनुर्मुष्टिमुभौ च पार्ष्णिसारथी
अवाकिरत्ततो द्रोणश्शरैश्शतसहस्रशः
स तथा भिद्यमानेषु कार्मुकेषु पुनः पुनः
पाञ्चाल्यः परमास्त्रज्ञश्शोणाश्वं समयोधयत्
स सत्यजितमालोक्य ततस्तूर्णं महाहवे
अर्धचन्द्रेण चिच्छेद शिरस्तस्य महात्मनः
तस्मिन्हते महामात्रे पाञ्चालानां रथर्षभे
अपायाज्जवनैरश्वैर्द्रोणाद्भीतो युधिष्ठिरः
पाञ्चालाः केकया मात्स्याश्चेदिकारूशकोसलाः
युधिष्ठिरमभीप्सन्तो दृष्ट्वा द्रोणमुपाद्रवन्
ततो युधिष्ठिरं प्रेप्सुराचार्यः शत्रुपूगहा
व्यधमत्तान्यनीयकानि तूलराशिमिवानलः
निर्दहन्तमनीकानि तानि तानि पुनः पुनः
द्रोणं मत्स्यादवरजश् शतानीकोऽभ्यवर्तत
सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः
षड्भिस्ससूतं सहयं द्रोणं विद्ध्वा ननाद च
तस्य नानदतो द्रोणश्शिरः कायात्सकुण्डलम्
क्षुरेणैवाहरद्द्रोणस्ततो मत्स्याः प्रदुद्रुवुः
मत्स्याञ्जित्वाऽजयच्चेदीन्करूशान्केकयानपि
पाञ्चालान्सृञ्जयान्पार्थान्भारद्वाजः पुनः पुनः
तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम्
दृष्ट्वा रुक्मरथं वीरं समकम्पन्त सृञ्जयाः
उभाभ्यां सन्दधानस्य धनुषोऽस्याशुकारिणः
ज्याघोषो निघ्नतोऽमित्रान्दिक्षु सर्वासु शुश्रुवे
नागानश्वान्पदातींश्च तथोभौ पार्ष्णिसारथी
रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः
नानद्यमानः पर्जन्यो विश्वग्वातो हिमात्यये
अश्मवर्षमिवावर्षत्परेषां भयमादधत्
सर्वा दिशस्समचरत्सेनां सङ्क्षोभयन्मुहुः
बली शूरो महेष्वासो मित्राणामभयङ्करः
तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम्
दिक्षु सर्वास्वपश्याम द्रोणस्यामित्रघातिनः
स शूरस्सत्यवान्प्राज्ञो बलवान्सत्यविक्रमः
महानुभावः कालान्ते रौद्रीं प्रावर्तयन्नदीम्
कवचोर्मिरथावर्तां मर्त्यकूलापहारिणीम्
गजाश्वमकराकीर्णामसिमीनां दुरासदाम्
वीरास्थिशर्करां दुर्गां भेरीमण्डूककच्छपाम्
चर्मवर्मप्लवां घोरां केशशैवलशाद्वलाम्
शरौघिणीं धनुस्स्रोतां बाहुपन्नगसङ्कुलाम्
मनुष्यशीर्षपाषाणां शक्तिमीनां गदाकुलाम्
उष्णीषफेनविततां निष्कीर्णान्त्रसरीसृपाम्
वीरापहारिणीं रौद्रां मांसशोमितकर्दमाम्
हस्तिग्राहां ध्वजनगां क्षत्रियाणां निमज्जनीम्
क्रूरां शरीरसङ्घाटां सादिनक्रां दुरत्ययाम्
द्रोणः प्रावर्तयत्तत्र नदीमन्तकगामिनीम्
तं दहन्तमनीकानि रथोदाराः प्रगल्भवत्
सर्वतोऽभ्यद्रवन्द्रोणं कुन्तीपुत्रपुरोगमाः
तांस्तु शूरान् महेष्वासांस्तावकाऽभ्युद्यतायुधाः
राजानो राजपुत्राश्च सर्वतः पर्यवारयन्
स सत्यसन्धश्शोणाश्वः प्रभिन्न इव कुञ्जरः
अभ्यतीत्य स्थानीकं वृषसेनं समभ्ययात्
ततो राजानमासाद्य प्रहरन्तमभीतवत्
अविध्यन्नवभिः क्षेमं स हतः प्रापतद्रथात्
स मध्यं प्राप्य सैन्यानां सर्वास्तु व्यचरद्दिशः
त्राता ह्यभवदन्येषां न त्रातव्यः कथञ्चन
शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम्
वसुदानं तु भल्लेन रथनीलादपाहरत्
युधामन्युं चतुष्षष्ट्या सात्यकिं त्रिंशता शरैः
विद्ध्वा रुक्मरथं प्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम्
ततो युधिष्ठिरः क्षिप्रं कितवो राजसत्तमः
अपायाज्जवनैरश्वैः पाञ्चाल्यो द्रोणमभ्ययात्
सरथं सधनुष्कं तु साश्वयन्तारमाक्षिणोत्
स हतः प्रापतद्भूमौ रथाज्ज्योतिरिवाम्बरात्
तं हत्वा विबभौ द्रोणः कुरुभिः परिवारितः
तावकास्तु महाराज जयं लब्ध्वा महारणे
पाण्डवेयान् रणे जघ्नुर्द्रवतस्तान् समन्ततः
वार्धक्षेमिस्तु वार्ष्णेयो द्रोणं विद्ध्वा शरोत्तमैः
नवभिश्चावनीपालः पुनर्विव्याध पञ्चभिः
चित्रसेनस्ततो द्रोणं पाञ्चालस्त्वर्दयच्छरैः
पुनर्विव्याध सङ्क्रुद्धस् सेनाबिन्दुश्च पञ्चभिः
सुवर्मा पञ्चभिश्चैव धृष्टद्युम्नश्च पञ्चभिः
शिखण्डी नवभिर्बाणैश्चेकितानश्च पञ्चभिः
सात्यकिश्च चतुष्षष्ट्या राजन्विव्याध सायकैः
सुचित्रो दशभिर्बाणैर्द्रोणं विद्ध्वाऽनदद्बली
तं द्रोणस्समरे राजञ्शरवर्षैरवाकिरत्
अपातयत्ततो द्रोणस्सुचित्रं सहसारथिम्
साश्वश्च समरे राजन्हतो वै प्रापतत्क्षितौ
पात्यमानो महाराज बभौ ज्योतिरिवाम्बरात्
तस्मिन्हते राजपुत्रे पाञ्चालानां रथर्षभे
घ्नत द्रोणं घ्नत द्रोणमित्यासीन्निस्स्वनो महान्
तांस्तथा भृशसंविग्नान्पाञ्चालान्मत्स्यकेकयान्
सृञ्जयान्पाण्डवांश्च द्रोणो व्यक्षोभयद्बलात्
सात्यकिं चेकितानं च धृष्टद्युम्नशिखण्डिनौ
वार्धक्षेमिं चैत्रसेनं सेनाबिन्दुं सुवर्चसम्
एतांश्चान्यांश्च सुबहून्नानाजनपदेश्वरान्
सर्वान्द्रोणोऽजयद्युद्धे कुरुभिः परिवारितः
ते दानवा इवेन्द्रेण वध्यमाना महात्मना
पाञ्चालाः केकया मात्स्यास्समकम्पन्त भारत