सञ्जयः-
परिणम्य निशां तां तु भारद्वाजो महारथः
बहुधोक्त्वा ततो राजन् वचनं वै सुयोधनम्
विधाय गोप्तॄन्पार्थस्य संशप्तकगणैस्सह
निष्क्रान्ते च रणं पार्थे संशप्तकवधं प्रति
व्यूढानीकस्ततो द्रोणः पाण्डवानां महाचमूम्
अभ्ययाद्भरतश्रेष्ठ धर्मराजजिघृक्षया
व्यूढां दृष्ट्वा सुपर्णेन भारद्वाजस्य तां चमूम्
मण्डलार्धेन तं व्यूहं प्रत्यव्यूहद्युधिष्ठिरः
मुखं चासीत्सुपर्णस्य भारद्वाजो महारथः
शिरो दुर्योधनो राजा सोदर्यैस्सानुगैर्वृतः
चक्षुषी कृतवर्मा च गौतमश्चास्यतां वरः
भूतवर्मा क्षेमधन्वा करम्भश्च सुवीर्यवान्
कलिङ्गास्सिंहलाः प्राच्याश्शूरा भीराः कशेरुकाः
शका यवनकाम्भोजास्तथा हंसपथाश्च ये
ग्रीवायां शूरसेनाश्च दरदा मद्रकेकयाः
रथाश्वगजपत्त्योघास्तस्थुः परमदंशिताः
भूरिश्रवाश्शलशल्यस् सोमदत्तोऽथ बाह्लिकः
अक्षौहिण्या वृताश्शूरा दक्षिणं पक्षमाश्रिताः
विन्दानुविन्दावावन्त्यौ काम्भोजश्च सुदक्षिणः
वामं पक्षं समाश्रित्य स्थिता द्रोणसुताग्रगाः
पृष्ठे कलिङ्गास्साम्बष्ठा मागधाः पौण्ड्रमद्रकाः
गान्धाराश्शकु्निप्राग्र्याः पार्वतीया वसातयः
पुच्छे वैकर्तनः कर्णस् सपुत्रज्ञातिबान्धवः
महत्या सेनया तस्थौ नानाजनसमृद्धया
जयद्रथो भीमरथस्संयातिर्ऋषभो जयः
भूमिञ्जयश्च वृषतो निशठश्च महाबलः
वृता बलेन महता ब्रह्मलोकपुरस्कृताः
व्यूहस्य परितो राजन्स्थिता युद्धविशारदाः
द्रोणेन विहितो व्यूहः पदात्यश्वरथद्विपैः
वातोद्धूतार्णवाकारः प्रनृत्त इव लक्ष्यते
तस्य पक्षप्रपक्षेभ्यो निष्क्रामन्ति युयुत्सवः
सविद्युत्स्तनिता मेघा दिवि दिग्भ्यः इवोष्णगे
तस्य प्राग्ज्योतिषो मध्ये विधिवत्कल्पितं गजम्
आस्थितोऽभूत् स भगवानंशुमानुदयं यथा
माल्यदामवता राजञ्श्वेतच्छत्रेण वीर्यवान्
कृत्तिकायोगयुक्तेन पौर्णमास्यामिवेन्दुना
नीलाञ्जनचयप्रख्यो मदान्धो द्विरदो बभौ
अभिवृष्ट्या महामेघैर्यथा स्यात्पर्वतो महान्
नानानृपतिभिर्वीरैर्विविधायुधभूषणैः
समन्वितः पार्वतीयैश् शक्रो देवगणैरिव
ततो युधिष्ठिरः प्रेक्ष्य व्यूहं तमतिमानुषम्
अजय्यमरिभिस्सङ्ख्ये पार्षतं वाक्यमब्रवीत्
युधिष्ठिरः-
ब्राह्मणस्य वशं नाद्य गच्छेयं पुरुषर्षभ
पारावताश्व भद्रं ते तथा नीतिर्विधीयताम्
धृष्टद्युम्नः-
द्रोणस्य यतमानस्य वशं नैष्यसि सुव्रत
अहमावारयिष्यामि द्रोणमद्य सहानुगः
मयि जीवति कौन्तेय नोद्वेगं कर्तुमर्हसि
न हि द्रोणो रणे शक्तो विजेतुं मां कथञ्चन
सञ्जयः-
एवमुक्त्वा किरन्बाणान्द्रुपदस्यात्मजो बली
पारावतसवर्णाश्वस्स्वयं द्रोणमभिद्रवत्
अनिष्टदर्शनं दृष्ट्वा धृष्टद्युम्नमुपस्थितम्
क्षणेनैवाभवद्द्रोणो नातिहृष्टमना इव
स हि जातो महाराज द्रोणस्य निधनं प्रति
मर्त्यधर्मतया तस्माद्भारद्वाजो व्यमुह्यत
नाशकत्तत्र तं किञ्चिदनीकं प्रतिवीक्षितुम्
ततः किरन्निषूंस्तीक्ष्णान्द्रुपदस्य वरूथिनीम्
भराद्वाजो ययौ तूर्णं पार्षतं वर्जयन्युधि
द्रुपदस्य महत्सैन्यं दारयामास ब्राह्मणः
तं तु सम्प्रेक्ष्य ते पुत्रो दुर्मुखश्शत्रुकर्शनः
प्रियं चिकीर्षुर्द्रोणस्य धृष्टद्युम्नमवारयत्
स सम्प्रहारस्तुमुलस्सुघोरस्समपद्यत
पार्षतस्य च शूरस्य दुर्मुखस्य च संयुगे
पार्षतश्शरजालेन क्षिप्रं प्रच्छाद्य दुर्मुखम्
भारद्वाजं शरौघेण महता समवाकिरत्
द्रोणमावारितं दृष्ट्वा भृशं यत्तस्तवात्मजः
नानालिङ्गैश्शरव्रातैः पार्षतं समयोधयत्
तयोर्विषक्तयोस्सङ्ख्ये पाञ्चालकुरुपुत्रयोः
अभवत्तुमुलं युद्धं परस्परवधैषिणोः
द्रोणो यौधिष्ठिरं सैन्यं व्यधमद्बहुधा शरैः
अनिलेन यथाऽभ्राणि विच्छिन्नानि समन्ततः
तथा सैन्यानि पाण्डूनां दृश्यन्ते स्म क्वचित्क्वचित्
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम्
तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत
नैव खं न दिशो भूमिर्बभासे न च भास्करः
नैव स्वे न परे राजन्व्यज्ञायन्त परस्परम्
अनुमानेन सञ्ज्ञाभिर्युद्धं तत्समवर्तत
चूडामणिषु निष्केषु भूषणेष्वसिचर्मसु
तेषामादित्यवर्णाभा मरीच्यः प्रचकाशिरे
तत्प्रकीर्णपताकानां रथवाजिनृहस्तिनाम्
बलाकासदृशाभं तद्ददृशे रूपमाहवे
नरानेव नरा जघ्नुर्जघ्नुरुग्रा हया हयान्
रथिनो रथिनो जघ्नुर्वारणा वरवारणान्
समुच्छ्रितपताकानां द्विपानां परमद्विपैः
क्षणेन तुमुलो घोरस् सङ्ग्रामस्समजायत
तेषां संसक्तगात्राणां कर्षतामितरेतरम्
दन्तसङ्घातसङ्घर्षात्सधूमोऽग्निरजायत
विप्रकीर्णपताकास्ते विषाणजनिताग्नयः
बभुराकाशमावार्य सविद्युत इवाम्बुदाः
विक्षिरद्भिर्नदद्भिश्च निपतद्भिश्च वारणैः
सम्बभूव मही कीर्णा मेघैर्द्यौरिव वार्षिकी
तेषामाहन्यमानानां बाणतोमरवृष्टिभिः
वारणानां रणे जज्ञे मेघानामिव सम्प्लवः
तोमराभिहताः केचिद्बाणैश्च परमद्विपाः
वित्रस्तास्सर्वशब्दानां शब्दमेवापरेऽसृजन्
विषाणाभिहताः केचित् केचित्तत्र गजा गजैः
चक्रुरार्तस्वरं घोरमुत्पातजलदा इव
प्रतीपं ह्रियमाणाश्च वारणा वरवारणैः
उन्मथ्य पुनराजह्रुः प्रेषिताः परमाङ्कुशैः
महामात्रा महामात्रैस्ताडिताश्शरतोमरैः
गजेभ्यः पृथिवीं जग्मुर्मुक्तप्रहरणाङ्कुशाः
निर्मनुष्याश्च मातङ्गा विनदन्तस्ततस्ततः
छिन्नाभ्राणीव सम्पेतुस्सम्प्रमथ्य परस्परम्
हताः परिपतन्ति स्म यन्त्रिताः पतिता भुवि
दिशो जग्मुर्महानागा वायुना खचरा इव
ताडितास्ताड्यमानाश्च तोमरर्ष्टिपरश्वथैः
पेतुरार्तस्वनं कृत्वा परा विशसने गजाः
तेषां शैलोपमैः कायैर्निपतद्भिस्समन्ततः
आहता सहसा भूमिश्चकम्पे च ननाद च
सादितैस्सगजारोहैस्सपताकैस्सतोमरैः
तैर्गजैर्शुशुभे भूमिर्विकीर्णैरिव पर्वतैः
गजैर्गात्रवरैः क्षुण्णा विषाणैश्च निपातिताः
गजा निपतितारोहा विकीर्णाङ्कुशतोमराः
क्रौञ्चवन्निनदन्तोऽन्ये नाराचाभिहता गजाः
परान्स्वांश्च न जानन्तः परिपेतुर्दिशो दश
गजाश्वरथयोधानां शरीरौघसमावृता
बभूव पृथिवी राजन्मांसशोणितकर्दमा
प्रमथ्य च विषाणाग्रैस्समुत्क्षिप्ताश्च वारणैः
सचक्राश्च विचक्राश्च रथैरेव रथा हताः
रथाश्च रथिभिर्हीना निर्मनुष्याश्च वाजिनः
हतारोहाश्च मातङ्गा दिशो जग्मुश्शरातुराः
जघान पितरं पुत्रः पिता पुत्रमताडयत्
इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किञ्चन
आगुल्फेभ्यश्च सीदन्ति नरा लोहितकर्दमे
दीप्यमानैः परिक्षिप्ता दावैरिव महाद्रुमाः
शोणितैस्सिच्यमानानि शस्त्राणि कवचानि च
छत्राणि च पताकाश्च सर्वं रक्तमदृश्यत
हयौघाश्च रथौघाश्च नरौघाश्च निपातिताः
निकृत्ताः पुनरुत्पत्य तुरगा रथनेमिभिः
सगजौघमहावेगः परासुनरशैवलः
रथौघतुमुलावर्तः प्रबभौ सैन्यसागरः
तं वारणमहानौभिर्योधा जयघनैषिणः
अवगाह्यावमज्जन्तो नैव मोहमकुर्वत
शरवर्षाभिवृष्टेषु योधेष्वाहतलक्ष्मसु
न तेषु चिन्तनं लेभे कश्चिदाहतलक्षणम्
वर्तमाने महायुद्धे घोररूपे भयानके
मोहयित्वा परान्द्रोणो युधिष्ठिरमुपाद्रवत्