सञ्जयः-
दृष्ट्वा च सन्निवृत्तांस्तान्संशप्तकगणान्पुनः
वासुदेवं महात्मानमर्जुनः समभाषत
अर्जुनः-
चोदयाश्वान्हृषीकेश संशप्तकगणान्प्रति
नैते हास्यन्ति सङ्ग्रामं जीवन्त इति मे मतिः
पश्य चास्त्रबलं मह्यं बाह्वोरिष्वसनस्य च
अद्य ह्येको गणानेतान् हन्यां रुद्रः पशूनिव
सञ्जयः-
एवं ब्रुवाणं बीभत्सुं केशवश्शत्रुवाहिनीम्
प्रावेशयत दुर्धर्षो यत्र यत्रैच्छदर्जुनः
स रथो भ्राजतेऽत्यर्थमुह्यमानो महाहयैः
उह्यमानमिवाकाशे विमानं पाण्डुरैर्घनैः
मण्डलानि ततश्चक्रे गतप्रत्यागतानि च
यथा शक्ररथो राजन्युद्धे देवासुरे पुरा
अथ नारायणाः क्रुद्धा विविधायुधपाणयः
छादयन्तश्शरव्रातैर्परिवव्रुर्धनञ्जयम्
अदृश्यं तं मुहूर्तेन चक्रुस्ते भरतर्षभ
कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनञ्जयम्
क्रुद्धस्तु फल्गुनस्सङ्ख्ये द्विगुणीकृतविक्रमः
गाण्डीवमनुसम्मृज्य तूणी संस्पृश्य चाहवे
स बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य प्रतिलक्षणम्
देवदत्तं महाशङ्खं पूरयामास पाण्डवः
ततोऽस्त्रमरिसङ्घघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः
ततो रूपसहस्राणि प्रादुरासन्पृथक्पृथक्
अर्जुनप्रतिरूपैस्तैर्नानारूपैर्विमोहिताः
अन्योन्यमर्जुनं मत्वा परस्परमथाघ्नत
अयमर्जुनोऽयं गोविन्द इमौ पाण्डवयादवौ
इति ब्रुवाणास्सम्मूढा जघ्नुरन्योन्यमाहवे
अन्योन्यं समरे जघ्नुस्तावका भरतर्षभ
मोहिताः परमास्त्रेण पाण्डवेन महात्मना
रुधिरोक्षितगात्रास्ते प्रेक्षमाणाः परस्परम्
अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः
रुधिरोत्पीडनास्ते तु रुधिरेण समुक्षिताः
चन्दनस्य रसेनेव व्यभ्राजन्त रणाजिरे
ततः प्रसह्य बीभत्सुर्व्याक्षिपद्गाण्डिवं भृशम्
न्यहनत्ताञ्छरैस्तीक्ष्णैस्तमस्सूर्य इवांशुभिः
हतावशिष्टास्ते भूयः परिवार्य धनञ्जयम्
साश्वध्वजरथं चक्रुरदृश्यं शरवृष्टिभिः
ततश्शरसहस्राणि विप्रमुक्तानि भस्मसात्
कृत्वा तदस्त्रं तान्वीराननयद्यमसादनम्
ततः प्रहस्य बीभत्सुर्लिलिन्ध्रान्मालवानपि
मच्चिल्लकांस्त्रिगर्तांश्च यौधेयांश्चार्दयच्छरैः
ते हन्यमाना वीरेण क्षत्रियाः कालचोदिताः
व्यसृजञ्छरवर्षाणि पार्थे नानाविधानि च
ततो न चार्जुनस्तत्र न रथो नापि केशवः
प्रत्यदृश्यन्त घोरेण शरवर्षेण संवृताः
ततस्ते लब्धलक्षत्वादन्योन्यमभिचुक्रुशुः
हतौ कृष्णाविति प्रीत्याश्शङ्खान्दध्मुश्च ते तदा
भेरीमृदङ्गशङ्खांश्च चक्रुर्वीराः प्रहृष्टवत्
सिंहनादरवांश्चोग्रांश्चक्रुस्तत्र मारिष
ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत्
श्रीभगवान्-
क्वासि पार्थ न पश्यामि कच्चिज्जीवसि शत्रुहन्
सञ्जयः-
तस्य तन्मानुषं भावं भावज्ञो ज्ञाय पाण्डवः
वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत्
संशप्तकरथव्रातान्साश्वद्विपरथायुतान्
उवाह भगवान्वायुश्शुष्कपर्णचयानिव
उह्यमानास्तु ते राजन्बह्वशोभन्त वायुना
प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष
तांस्तथा व्याकुलीकृत्य त्वरमाणो धनञ्जयः
जघान निशितैर्बाणैस्सहस्राणि शतानि च
शिरांसि भल्लैरहरद्बाहूनपि च सायुधान्
हस्तिहस्तोपमाश्चोरूश्शरैरुर्व्यामपातयत्
पृष्ठच्छिन्नान्विचरणान्विमस्तिष्केणाङ्गुलीन्
नानाङ्गावयवैर्हीनांश्चकारारीन्धनञ्जयः
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान्
शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरध्वजान्
मुण्डतालवनानीव तत्र तत्र चकाशिरे
छिन्नध्वजरथव्राताः केचिद्योधाः क्वचित्क्वचित्
सोत्तरायुधिनो नागास्सपताकाङ्कुशध्वजाः
पेतुश्शक्राशनिहता द्रुमवन्त इवाचलाः
चामरापीडकधरास्स्रस्तान्त्रनयनासवः
सारोहास्तुरगाः पेतुः पार्थबाणहताः क्षितौ
विप्रविद्धासिनाराचाश्छिन्नवर्मर्ष्टिशक्तयः
पत्तयश्छिन्नवर्माणः कृपणं शेरते हताः
तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि
कूजद्भिर्निष्टनद्भिश्च क्रूरं विशसनं बभौ
रजश्च सुमहद्भूतं शान्तं लोहितवृष्टिभिः |
मही चाप्यभवद्दुर्गा कबन्धायुतसङ्कुला
तद्बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे
आक्रीडमिव रुद्रस्य घ्नतः कालात्यये पशून्
ते वध्यमानाः पार्थेन व्याकुलाश्वरथा द्विपाः
तमेवाभिमुखाः क्षीणाश्शक्रस्यातिथितां गताः
सा भूमिर्भरतश्रेष्ठ निहतैस्तैर्महारथैः
आस्तीर्णा सम्बभौ सर्वा प्रेतैरिव सचेतनैः
एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि
व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत्
तं प्रत्यगृह्णंस्त्वरिता व्यूढानीकेन पाण्डवाः
युधिष्ठिरं परीप्सन्तस्तदाऽऽसीत्तुमुलं महत्