सञ्जयः-
ततस्संशप्तका राजन्समे देशे व्यवस्थिताः
व्यूढानीकै रथैरेव चन्द्रार्धाख्यैर्मुदा युताः
ते किरीटिनमायान्तं दृष्ट्वा हर्षेण मारिष
अतीव सम्प्रहृष्टास्ते ह्युपलक्ष्य धनञ्जयम्
उदक्रोशन्नरव्याघ्राश्शब्देनापूरयन् दिशः
स दिशः प्रदिशस्सर्वा नभश्चैव समावृणोत्
आवृतत्वाच्च लोकस्य महानासीत्प्रतिस्वनः
अतीव सम्प्रहृष्टांस्ताञ् ज्ञात्वा तत्र धनञ्जयः
किञ्चिदभ्युत्स्मयन्कृष्णमिदं वचनमब्रवीत्
अर्जुनः-
देवकीपुत्र पश्येमान्मुमूर्षूनद्य संयुगे
भ्रातॄंस्त्रैगर्तकानेतान्रोदितव्ये प्रहृष्यतः
अथवा हर्षकालोऽयं त्रैगर्तानां न संशयः
कुनरैर्दुरवापान्हि लोकान्प्राप्स्यन्ति संयुगे
मया हता हि सङ्ग्रामे लोकान्प्राप्स्यन्ति पुष्कलान्
सञ्जयः-
एवमुक्त्वा हृषीकेशं महाबाहुस्ततोऽर्जुनः
आससाद ततो व्यूढां त्रैगर्तानामनीकिनीम्
स देवदत्तमादाय शङ्खं हेमपरिष्कृतम्
दध्मौ वेगेन महता घोषेणापूरयन्दिशः
तेन शब्देन वित्रस्ता संशप्तकवरूथिनी
विचेष्टा विस्मिता सङ्ख्ये अश्मसारमयी यथा
सा सेना भरतश्रेष्ठ निश्चेष्टा शुशुभे तदा
चित्रे पटे यथा न्यस्ता कुशलैश्शिल्पिभिर्नरैः
स्वनेन तेन सैन्यानां दिवमावृण्वता तदा
सस्वना पृथिवी सर्वा तथैव च महोदधिः
स्वनेन सर्वसैन्यानां कर्णास्तु बधिरीकृताः
वाहास्तेषां विवृत्ताक्षास्स्तब्धकर्णशिरोधराः
विष्टब्धचरणा मूत्रं रुधिरं च प्रसुस्रुवुः
ततो व्युपारमच्छब्दः प्रहृष्टास्ते ततोऽभवन्
उपलभ्य ततस्सञ्ज्ञां पर्यवस्थाप्य वाहिनीम्
युगपत्पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः
ततोऽर्जुनस्सहस्राणि दश पञ्चैव चाशुगान्
अनागतानेव शरैश्चिच्छेदाशुपराक्रमः
ततो़ऽर्जुनं शरव्रातैर्दशभिर्दशभिः पुनः
प्रत्यविध्यत पार्थस्तानविध्यत त्रिभिस्त्रिभिः
एकैकस्तु ततः पार्थं पुनर्विव्याध पञ्चभिः
स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी
भूय एव तु संरब्धास्तेऽर्जुनं सहकेशवम्
आपूरयञ्शरैस्तीक्ष्णैस्तटाकमिव वृष्टिभिः
ततश्शरसहस्राणि प्रापतन्नर्जुनं प्रति
भ्रमराणामिव व्राताः फुल्लद्रुमगणान्वने
ततस्सुबाहुस्तु शरैरद्रिसारमयैर्दृढैः
अविध्यद्दशभिर्बाणैः किरीटे सव्यसाचिनः
तैः किरीटी किरीटस्थै रुक्मपुङ्खैरजिह्मगैः
शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः
हस्तावापं सुबाहोस्तु स तु भल्लेन पाण्डवः
चिच्छेद तं चैव पुनश्शरवर्षैरवाकिरत्
ततस्सुशर्मा दशभिस्सुरथश्च किरीटिनम्
सुधन्वा च सुबाहुश्च सुबाणश्च समर्पयत्
तांश्च सर्वान्पृथग्बाणैर्वानरप्रवरध्वजः
प्रत्यविध्यद्ध्वजांश्चैषां भल्लैश्चिच्छेद वीर्यवान्
सुधन्वनो धनुश्छित्त्वा हयांश्च जवनाञ्शरैः
अथास्य सशिरस्त्राणं शिरः कायादपाहरत्
जहार पार्थस्सैन्येषु सहस्रे द्वे च योधिनाम्
तस्मिन्निपतिते वीरे त्रस्तास्तस्य पदानुगाः
भूयिष्ठं प्रतिरुद्धा ये हतैर्योधैर्यशस्विनः
विदुद्रुवुस्दा योधा यत्र दौर्योधनं बलम्
ततो जघान सङ्क्रुद्धो वासविस्तां महाचमूम्
शरजालैरविच्छिन्नैस्तमस्सूर्य इवांशुभिः
ततो बाणैर्बले तस्मिन्प्रविलीने समन्ततः
सव्यसाचिनि सङ्क्रुद्धे त्रैगर्तान्भयमाविशत्
ते हन्यमानाः पार्थेन शरैस्सन्नतपर्वभिः
मुमुहुश्च मुहुस्त्रतास्सिंहं मृगगणा इव
ततस्त्रिगर्तराट् क्रुद्धस्तानुवाच महारथान्
सुशर्मा-
अलं द्रुतेन वश्शूरा न भयं कर्तुमर्हथ
शप्त्वा च शपथान्घोरान्सर्वसैन्यस्य पश्यतः
गत्वा दौर्योधनं सैन्यं किं नु वक्ष्यथ मुख्यगाः
नापहास्याः कथं लोके कर्मणाऽनेन संयुगे
भवेम सहितास्सर्वे निवर्तध्वं महारथाः
सञ्जयः-
एवमुक्तास्ततो राजन्विक्रोशन्तो मुहुर्मुहुः
शङ्खान् प्रदध्मुस्ते वीरा हर्षयन्तः परस्परम्
ततस्ते सन्न्यवर्तन्तं संशप्तकगणाः पुनः
नारायणाश्च गोपाला कृत्वा मृत्युं निवर्तनम्