सञ्जयः-
ते सेने शिबिरं गत्वा न्यविशेतां यथातथम्
यथान्यायं यथागुल्मं यथाभागं च सर्वशः
कृत्वाऽपहारं सैन्यानां द्रोणः परमदुर्मनाः
दुर्योधनमिदं वाक्यं सव्रीडमिदमब्रवीत्
द्रोणः-
उक्तमेतन्मया पूर्वं न तिष्ठति धनञ्जये
शक्यो ग्रहीतुं समरे देवैरपि युधिष्ठिरः
इति तद्वचनं सत्यं जानीध्वं साधु संयुगे
माऽतिशङ्कीर्वचो मह्यमजेय्यौ कृष्णपाण्डवौ
अपनीते तु योगेन केनचिच्छ्वेतवाहने
तत एष्यति ते राजन्वशमद्य युधिष्ठिरः
कश्चिदाह्रियतां सङ्ख्ये देशमन्यमितोऽर्जुनम्
तमजित्वा न कौन्तेयो निवर्तेत कथञ्चन
एतस्मिन्नन्तरे शून्यं धर्मराजमहं नृपम्
ग्रहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः
अर्जुनेन परित्यक्तो न चेत्त्रासात्पलायति
मामुपायान्तमालोक्य गृहीतमिति विद्धि तम्
क्षोभयित्वा बलं तेषां पाण्डवनां महात्मनाम्
तमानेष्यामि सगणं वशं तव न संशयः
यदि स्थास्यति सङ्ग्रामे मुहूर्तमपि भारत
यद्यप्येष्यति सन्त्रासाद् ग्रहणात्तद्विशिष्यते
सञ्जयः-
द्रोणस्य तु वचश्श्रुत्वा त्रिगर्ताधिपतिस्ततः
भ्रातृभिस्सहितो राजन्निदं वचनमब्रवीत्
त्रैगर्तः-
वयं विनिकृता राजन्सदा गाण्डीवधन्वना
अनागसोऽपि चाकस्मात्प्रेप्याः प्रभवता यथा
ते वयं स्मरमाणास्तान्विप्रकारान्पृथग्विधान्
क्रोधाग्निना दह्यमाना ह्यशेष्म बहुलास्समाः
स नो दिव्यास्त्रसम्पन्नश्चक्षुर्विषयमागतः
यदि कुर्याम तत्कर्म यच्चिकीर्षाम हृद्गतम्
भवतश्च प्रियं तत्स्यादस्माकं च यशस्करम्
अद्यास्त्वनर्जुना भूमिरत्रिगर्ताऽथवा पुनः
वयमेनं हनिष्यामो निकृष्यायोधनाद्बहिः
सत्यं ते प्रतिजानीमो नैतन्मिथ्या भविष्यति
सञ्जयः-
एवं सत्यरथश्चोक्त्वा सत्यवर्मा च भारत
सत्यवर्माऽपि सत्येषुस्सत्यधर्मा च भारत
सहिता भ्रातरः पञ्च रथानामयुतेन च
न्यवर्तन्त महाराज कर्तुं समयबन्धनम्
मालवास्तुण्डिकेराश्च रथानामयुतैस्त्रिभिः
सुशर्मा च नरव्याघ्रस्त्रैगर्तः प्रस्थलाधिपः
मच्चिल्लकैर्लिलिन्ध्रैश्च सहितो मद्रकैरपि
रथानामयुतेनैवमगमद्धातृभिस्सह
मलदाश्च करूशाश्च दरदाश्च महारथाः
तङ्कणाश्च परादाश्च युगपत्ते समागताः
नानाजनपदेभ्यश्च रथानामयुतं पुनः
समुच्छ्रितं विशिष्टानां संशप्तानां समागतम्
ततो ज्वलनमाधाय हुत्वा सर्वे पृथक्पृथक्
जगृहुः कुशचीराणि चित्राणि कवचानि च
ते च बद्धतनुत्राणा घृताक्ताः कुशचीरिणः
मौर्वीमेखलिनो वीरास् सहस्रशतदक्षिणाः
यज्वानः पुत्रिणस्सर्वे कृतकृत्यास्तनुत्यजः
योक्तुकामास्तदाऽऽत्मानं यशसा विक्रमेण च
ब्रह्मचर्यश्रुतिसुतैः क्रतुभिश्चाप्तदक्षिणैः
प्राप्ताल्ँलोकान्सुयुद्धेन क्षिप्रमेव यियासवः
ब्राह्मणांस्तर्पयित्वा च निष्कं दत्वा पुनः पुनः
गाश्च वासांसि च पुनस्समाभाष्य परस्परम्
द्विजमुख्यैस्समुदितैः कृतस्वस्त्ययनाशिषः
मुदिताश्च प्रहृष्टाश्च जलं संस्पृश्य निर्मलम्
ते ज्वालयित्वा ज्वलनमुपागम्य रणव्रतम्
तस्मिन्नग्नौ तश्चक्रुः प्रतिज्ञां दृढनिश्चयाम्
शृण्वतां सर्वभूतानामत्युच्चैर्वाक्यमीरयन्
धृत्याऽर्जुनवधे शूराः प्रतिज्ञामथ चक्रिरे
संशप्तकाः-
अनृतस्य च ये लोका ये लोका ब्रह्मघातिनाम्
पानपस्य च ये लोका गुरुदाररतस्य च
ब्रह्मस्वहारिणां चैव राजपिण्डापहारिणाम्
शरणागतं च त्यजतां याचमानाभिघातिनाम्
अगारदाहिनां चापि ये च गां निघ्नतामपि
अतिचारिणां च ये लोका ये च ब्रह्मद्विषामपि
भार्यां चाप्यृतुकालेषु ये लोका नाभिगच्छताम्
श्राद्धसङ्गतिकानां च ये चाप्यात्मापहारिणाम्
क्लीबेन सान्त्व्यमानानां ये दीनानुसारिणाम्
न्यासापहारिणां ये च श्रुतं नाशयतां च ये
नास्तिकानां च ये लोका येऽग्निमातृपितृत्यजाम्
सस्यमाक्रमतां ये च प्रत्यादित्यं प्रमेहताम्
तानाप्नुयामहे लोकान्ये च पापकृतामपि
यद्यहत्वा निवर्तेम वयं सङ्ख्ये धनञ्जयम्
तेन चाभ्यर्दितास्त्रासाद्यास्याम पराङ्मुखाः
यद्यप्यसुकरं कर्म लोके कुर्याम संयुगे
इष्टान् पुण्यकृतां लोकान्प्राप्नुयाम सुवर्चसः
सञ्जयः-
एवमुक्त्वा ततो राजंस्तेऽभ्यवर्तन्त संयुगम्
आह्वयन्तो महाबाहुं पितृजुष्टां दिशं प्रति
आहूतस्तैर्नरव्याघ्रः पार्थः परपुरञ्जयः
धर्मराजमिदं वाक्यमपदान्तरमब्रवीत्
अर्जुनः-
एष वै भ्रातृभिस्सार्धं सुशर्माऽऽह्वयते रणे
वधार्थं सगणस्यास्य मामनुज्ञातुमर्हसि
आहूतो न निवर्तेयमिति मे व्रतमाहितम्
संशप्तकाश्च ते राजन्नाह्वयन्ते महामृधे
न शक्नोमि संसोढुमाह्वानं पुरुषर्षभ
सत्यं ते प्रतिजानेऽहं हतान्विद्धि परान्युधि
न ह्यर्जुनो रणे राजन् मिथ्या किञ्चित् प्रवक्ष्यति
हतांस्त्रिगर्तकान् पश्य मा स्म ते कश्मलं भवेत्
युधिष्ठिरः-
अश्रौषीस्तात तत् प्रोक्तं यद्द्रोणस्य चिकीर्षितम्
यथाऽनृतं तस्य भवेत्तथा नीतिर्विधीयताम्
द्रोणो हि बलवाञ्शूरः कृतास्त्रश्च जितश्रमः
प्रतिज्ञातं च तस्यैतद्ग्रहणं मे महारथ
अर्जुन उवाच
सर्वथा न निवर्तेयमाहूतोऽहं परन्तप
त्रिगर्तो भ्रातृभिस्सार्धं स मामाह्वयते भृशम्
तवापि तु रणे रक्षा विहिता मे जनाधिप
निरपेक्षो गमिष्यामि वधायैषां दुरात्मनाम्
एष वै सत्यजिद्राजन्नद्य त्वां रक्षिता युधि
ध्रियमाणे च पाञ्चाल्ये नाचार्यः काममाप्स्यति
हते तु पुरुषव्याघ्रे रणे सत्यजित्यनिवर्तिनि
परैरपि सहामात्यैर्न स्थातव्यं कथञ्चन
सञ्जयः-
अनुज्ञातस्ततो राज्ञा परिष्वक्तस्तथैव च
ततो दृष्टश्च बहुधा आशिष चैव योजितः
वधायैव ततः पार्थस्त्रिगर्तानां बलं ययौ
क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणानिव
ततो दौर्योधनं सैन्यं मुदा परमया युतम्
ग्रहणे धर्मराजस्य कृतोत्साहं महामृधे
ततोऽन्योन्यं तु ते सेने समाजग्मतुरञ्जसा
वेगेन शङ्खनापूर्य हर्षयुक्ते महास्वने
गङ्गासरय्वौ वेगेन प्रावृषीवोल्बणोदके