सञ्जयः-
तद्बलं सुमहद्दीर्णं त्वदीयं प्रेक्ष्य वीर्यवान्
दधारैको रणे पाण्डून्वृषसेनोऽस्त्रमायया
शरा दश दिशो मुक्ता वृषसेनेन तेजसा
प्रविचेरुर्विनिर्भिद्य नरवाजिरथद्विपान्
तस्य दीप्ता महाबाणा विनिश्चेरुस्सहस्रशः
भानोरिव महाराज दीप्यमाना गभस्तयः
तेनार्दिता महाराज रथिनस्सादिनस्तथा
निपेतुरुर्व्यां सहसा वातनुन्ना इव द्रुमाः
हयौघांश्च गजौघांश्च रथौघांश्च समन्ततः
तापयन् ददृशे राजञ्समरेऽथ सहस्रशः
कर्णात्मजं रणे दृष्ट्वा विचरन्तमभीतवत्
राजानस्सहितास्सर्वे परिवव्रुस्समन्ततः
नाकुलिस्तु शतानीको वृषसेनं समभ्ययात्
विव्याध चैनं दशभिर्नाराचैर्मर्मभेदिभिः
तस्य कर्णसुतश्चापं छित्त्वा केतुमपातयत्
तं भ्रातरमभीप्सन्तो द्रौपदेयास्समभ्ययुः
कर्णात्मजं शरव्रातैश्चक्रुश्चादृश्यमञ्जसा
तान्नदन्तोऽभ्यधावन्त द्रोणपुत्रमुखा रथाः
छादयन्तो महाराज द्रौपदेयान्महारथान्
शरैर्नानाविधैस्तूर्णं पर्वताञ्जलदा इव
तान्पाण्डवाः प्रत्यगृह्णंस्त्वरिताः पुत्रगृद्धिनः
पाञ्चालास्सृञ्जया मात्स्याः केकयाश्चोद्यतायुधाः
तद्युद्धमभवद्घोरं सुमहाद्भुतदर्शनम्
त्वदीयैः पाण्डुपुत्राणां देवानामिव दानवैः
एवमुत्तमसंरम्भा युयुधुः कुरुपाण्डवाः
परस्परमुदीक्षन्तः परस्परकृतागसः
तेषां ददृशिरे कोपाद्वपूंष्यमिततेजसाम्
युयुत्सूनामिवाकाशे पतत्त्रिवरभोगिनाम्
भीमकर्णकृपद्रोणद्रौणिपार्षतसात्यकैः
बभासे स रणोद्देशः कालसूर्यैरिवोदितैः
प्रजानां सङ्क्षये घोरे यथा सूर्योदयो भवेत्
शूराणामुदयस्तद्वत्स आसीत्पुरुषर्षभ
तदाऽऽसीत्तुमुलं युद्धं निघ्नतामितरेतरम्
महारथानां बलिनां दानवानां यथाऽमरैः
ततो युधिष्ठिरानीकमुदीर्णार्णवनिस्स्वनम्
त्वदीयमवधीत्सैन्यं सम्प्रद्रुतमहारथम्
तत्प्रभग्नं बलं दृष्ट्वा शत्रुभिर्भृशमर्दितम्
अलं द्रुतेन वश्शूरा इति द्रोणोऽभ्यभाषत
भारद्वाजममर्षश्च विक्रमश्च समाविशत्
समुद्धृत्य निषङ्गाच्च धनुर्ज्यामवमृज्य च
महाशरधनुष्पाणिर्यन्तारमिदमब्रवीत्
द्रोणः-
सारथे याहि यत्रैष पाण्डरेण विराजता
ध्रियमाणेन च्छत्रेण राजा तिष्ठति धर्मराट्
तदेतद्दीर्यते सैन्यं धार्तराष्ट्रमनेकधा
एतत्संस्तम्भयिष्यामि प्रतिवार्य युधिष्ठिरम्
न हि मामभिवर्षन्ति संयुगे तात पाण्डवाः
मात्स्यपाञ्चालराजानस् सर्वे च सहसोमकाः
अर्जुनो मत्प्रसादाद्धि महास्त्राणि समाप्तवान्
न मामुत्सहते तात न भीमो न च सात्यकिः
मत्प्रसादाद्धि बीभत्सुः परमेष्वासतां गतः
ममैवास्त्रं विजानाति धृष्टद्युम्नोऽपि पार्षतः
नायं संरक्षितुं कालः प्राणांस्तात जयैषिणा
याहि स्वर्गं पुरस्कृत्य यशसे च जयाय च
सञ्जयः-
एवं सञ्चोदितो यन्ता द्रोणमभ्यवहत्ततः
तदाऽश्वहृदयेनाश्वानभिमन्त्र्याशु हर्षयन्
रथेन सवरूथेन भास्वरेण विराजता
तं करूशाश्च मात्स्याश्च चेदयश्च ससात्वताः
पाण्डवाश्च सपाञ्चालाः सहिताः पर्यवारयन्
ततश्शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः
प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत्
तमविध्यच्छितैर्बाणैः कङ्कपत्रैर्युधिष्ठिरः
तस्य द्रोणो धनुश्छित्वा तं द्रुतं समुपाद्रवत्
चक्ररक्षः कुमारस्तु पाञ्चालानां यशस्करः
दधार द्रोणमायान्तं वेलेवोद्भूतमर्णवम्
स शूरमार्यव्रतिनं शस्त्रास्त्रकृतनिश्रमम्
वारयद्द्रोणमायान्तं वेलेव मकरालयम्
द्रोणे निवारिते तेन सुकुमारेण मारिष
सिंहनादरवश्चासीत्साधु साध्विति च स्वनः
कुमारस्ततो द्रोणं सायकेन महाहवे
विव्याधोरसि सङ्क्रुद्धस् सिंहनादमथाकरोत्
संवार्य तु रणे द्रोणस् कुमारं महारथः
शरैरनेकसाहस्रैः कृतहस्तो जितक्लमः
स शूरमार्यव्रतिनं कृतास्त्रं कृतनिस्वनम्
चक्ररक्षमवामृद्नात्सुकुमारं रथर्षभम्
स मध्यं प्राप्य सेनायास् सर्वास्समचरद्दिशः
तव सैन्यस्य गोप्ताऽऽसीद्भारद्वाजो महारथः
शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम्
नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः
युधिष्ठिरं द्वादशभिर्द्रौपदेयांस्त्रिभिस्त्रिभिः
सात्यकिं पञ्चभिर्विद्ध्वा विराटं नवभिश्शरैः
व्यक्षोभयद्रणे मुख्यानथ योधानभिद्रवन्
युगन्धरस्ततो राजन्भारद्वाजं महारथम्
वारयामास सङ्क्रुद्वं वेलेवोद्धृत्तमर्णवम्
युधिष्ठिरं स विद्ध्वाऽथ शरैस्सन्नतपर्वभिः
युगन्धरं तु भल्लेन रथनीडादपाहरत्
तं विजित्य महातेजा भारद्वाजो महामनाः
अभ्यवर्तत सम्प्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम्
ततो विराटद्रुपदौ केकयास्सात्यकिश्शलः
व्याघ्रदत्तश्च पाञ्चल्यस्सिंहसेनश्च वीर्यवान्
एते चान्ये च बहवः परीप्सन्तो युधिष्ठिरम्
आवव्रुस्तस्य पन्थानं किरन्तस्सायकान्बहून्
त्वरितस्सिंहसेनस्तु द्रोणं विद्ध्वा महारथम्
प्राणदत्सहसा नादं रोषयंश्च महारथान्
व्याघ्रदत्तश्च पाञ्चाल्यो द्रोणं विव्याध मार्गणैः
पञ्चाशद्भिस्ततो राजंस्ततस्ते चुक्रुशुर्जनाः
ततो विष्फार्य नयने धनुर्ज्यामवमृज्य च
तलशब्दं महत्कृत्वा क्रुद्धस्तान्समभिद्रवत्
ततस्तत् सिंहसेनस्य शिरः कायात्सकुण्डलम्
व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्यामाहरद्बली
तान्प्रमृज्य शरव्रातैः पाण्डवानां महारथान्
युधिष्ठिरसमभ्याशे तस्थौ मृत्युरिवान्तकः
तत आसीन्महाञ्शब्दो राजन्यौधिष्ठिरे बले
हृतो राजेति योधानां समीपस्थे यतव्रते
जजल्पुस्सैनिकास्तत्र दृष्ट्वा द्रोणस्य विक्रमम्
सैनिकाः-
अद्य राजा धार्तराष्ट्रः पाण्डवं सन्निगृह्य च
आगमिष्यति नो मीलं धार्तराष्ट्ं प्रहर्षयन्
सञ्जयः-
एवं सञ्जल्पतां तेषां पाण्डवानां महारथः
प्रायाज्जवेन कौन्तेयो रथघोषेण नादयन्
शोणितोदां महारौद्रीं कृत्वा विशसने नदीम्
शूरास्थिचयसङ्कीर्णां प्रेतकूलापहारिणीम्
तां शरौघमहावर्तां प्रासमत्स्यसमाकुलाम्
नदीमुत्तीर्य वेगेन कुरून्विद्राव्य पाण्डवः
ततः किरीटि सहसा द्रोणानीकमुपाद्रवत्
छादयन्निषुजालेन महता मोहयन्निव
शीघ्रमभ्यस्यतो बाणान्सन्दधानस्य चानिशम्
नान्तरं ददृशे कश्चित्कौन्तेयस्य यशस्विनः
न दिशो नान्तरिक्षं च न द्यौर्नैव च मेदिनी
अदृश्यन्त महाराज बाणभूतमिवाभवन्
नादृश्यत तदा राजंस्तत्र किञ्चन संयुगे
बाणान्धकारे बलिना कृते गाण्डीवधन्वना
सूर्ये चास्तमनुप्राप्ते रजसा चाभिसंवृते
नाज्ञायत तदा शत्रुर्न सुहृन्न च कश्चन ||
ततोऽपहारं चक्रुस्ते द्रोणदुर्योधनादयः
तान्विदित्वा भृशं त्रस्ता न युद्धमनसः परान्
स्वान्यनीकानि बीभत्सुश् शनकैरपहारयत्
ततोऽभितुष्टुवुः पार्थं प्रहृष्टाः पाण्डुसृञ्जयाः
पाञ्चालाश्च मनोज्ञाभिर्वाग्भिस्सूर्यमिवर्षयः
एवं स्वशिबिरं प्रायाज्जितशत्रुर्धनञ्जयः
पृष्ठतस्सर्वसैन्यानां मुदितस्सहकेशवः
मसारगल्लर्कसुवर्णरूपैर्वज्रप्रवालैस्स्फटिकैश्च जुष्टे
तस्मिन् रथे पाण्डुसुतो रराह नक्षत्रचित्रे वियतीव चन्द्रः