धृतराष्ट्रः-
बहूनि सुविचित्राणि द्वन्द्वयुद्धानि सञ्जय
त्वयोक्तानि निशम्याहं स्पृहयामि सचक्षुताम्
न हि देवासुरं युद्धमीदृग्रूपं भवेदिति
चिन्तयामि च युद्धानि श्रुत्वा घोराणि सञ्जय
आश्चर्यभूतं लोकेऽस्मिन् कथयिष्यन्ति मानवाः
कुरूणां पाण्डवानां च युद्धं देवासुरोपमम्
न हि मे तृप्तिरस्तीह शृण्वतो युद्धमद्भुतम्
तस्मादार्तायनेर्युद्धं सौभद्रस्य च शंस मे
सञ्जयः-
सादितं प्रेक्ष्य यन्तारं शल्यस्सर्वायसीं गदाम्
समुत्क्षिप्यानदच्छीग्रं प्रचस्कन्द रथोत्तमात्
सौभद्रोऽप्यशनिप्रख्यामादाय स्वरथाद्गदाम्
एह्येहीत्याह्वयच्छल्यं यत्नाद्भीमेन वारितः
वारयित्वा तु सौभद्रं भीमसेनः प्रतापवान्
शल्यमासाद्य समरे तस्थौ मेरुरिवाचलः
तथैव मद्रराजोऽपि भीमं दृष्ट्वा महागदम्
ससाराभिमुखस्तूर्णं शार्दूल इव कुञ्जरम्
तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम्
जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम्
ततस्तूर्यनिनादाश्च शङ्खानां च सहस्रशः
सिंहनादश्च सञ्जज्ञे भेरीणां च महास्वनः
पश्यतां शतशो ह्यासीदन्योन्यगतचेतसाम्
पाण्डवानां कुरूणां च साधु साध्विति निस्स्वनः
न हि मद्राधिपादन्यस् सर्वराजसु भारत
सोढुमुत्सहते वेगं भीमसेनस्य संयुगे
तथा मद्राधिपस्यापि गदावेगं महात्मनः
सोढुमुत्सहते लोके युधि कोऽन्यो वृकोदरात्
पट्टैर्जाम्बूनदैर्बद्धा बभूव जनहर्षिणी
अग्निज्वालेव चाविद्धा भीमेन महती गदा
साग्निदीप्ता महारौद्रा गदा सा शुशुभे तदा
तथैव चरतो मार्गान्मण्डलानि च भागशः
विद्युद्गर्भप्रतीकाशा शल्यस्य शुशुभे गदा
तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः
आवर्जितगदाशृङ्गावुभौ शल्यवृकोदरौ
क्रोपताम्रेक्षणौ वीरौ शत्रुसङ्घविमर्दनौ
महामात्रौ महोत्साहौ गदायुद्धविशारदौ
मण्डलावर्तवेगेषु गदाप्रहरणेषु च
निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः
ताडिता भीमसेनेन शल्यस्य महती गदा
साग्निज्वाला महारौद्रा गदा चूर्णममुञ्चत
तथैव भीमसेनस्य द्विषताऽभिहता गदा
वर्षाप्रदोषे खद्योतैर्वृतो वृक्ष इवाबभौ
गदा क्षिप्ता तु समरे मद्रराजेन धीमता
व्योम दीपयमाना सा ससृजे पावकं मुहुः
तथैव भीमसेनेन प्रेषिता शत्रुघातिना
भीमरूपा महावेगा गदा शल्यं रणेऽतुदत्
त्रातयामास तत्सैन्यं महावेगोग्रदर्शना
ते गदानां गदे श्रेष्ठे समासाद्य परस्परम्
तथा विसृजतां वह्निं नागकन्ये इवोज्ज्वले
पुनश्शल्येन भीमस्य गदाग्राद्गदया हतात्
सङ्गर्षणादुत्थितोऽग्निर्दीपयामास मेदिनीम्
पुनश्च भीमसेनेन शल्यस्य महती गदा
ताडिता सहसा राजन् विससर्जाथ पावकम्
नखैरिव महाव्याघ्रौ दन्तैरिव महागजौ
तौ विचेरतुरासाद्य गदाग्राभ्यां परस्परम्
तौ गदाग्राहतैर्गात्रैः क्षणेन रुधिरोक्षितौ
ददृशाते महात्मानौ किंशुकाविव पुष्पितौ
शुश्रुवुर्दिक्षु सर्वासु तयोः पुरुषसिंहयोः
गदासङ्घातसंह्रादश् शक्राशनिरिवा इव
गदया मद्रराजेन सव्यदक्षिणमाहतः
न स स्म विव्यथे भीमो भिद्यमान इवाचलः
तथा भीमगदावेगैस्ताड्यमानो महाबलः
हसन्मद्राधिपस्तस्थौ वज्रैर्गिरिरिवाहतः
आपेततुर्गदामार्गात् समुच्छ्रितमहागदौ
पुनरावृत्तमार्गस्थौ मण्डलानि विचेरतुः
अथाप्लुत्य पदान्यष्टौ सन्निपत्य गजाविव
सहसा लोहदण्डाभ्यामन्योन्यमभिजघ्नतुः
तौ परस्परवेगाच्च गदाभ्यां च दृढाहतौ
युगपत्पेततुर्वीरौ क्षिताविन्द्रध्वजाविव
तथा विह्वलगात्रं तं निश्श्वसन्तं पुनः पुनः
शल्यमभ्यपतत्तूर्णं कृतवर्मा महारथः
दृष्ट्वा चैनं महाराज गदयाभिनिपीडितम्
वेष्टमानं महाराज मूर्च्छयाभिपरिप्लुतम्
ततस्सगदमारोप्य मद्राणामधिपं रथम्
अपोवाह रणाद्राजन् कृतवर्मा महारथः
भूमौ निपतितो वीरो निमेषात्पुनरुत्थितः
भीमसेनो महाबाहुर्गदापाणिरदृश्यत
ततो मद्राधिपं दृष्ट्वा धार्तराष्ट्राः पराङ्मुखम्
सनागरथपत्त्यश्वास्समकम्पन्त मारिष
ते पाण्डवैरर्द्यमानास्तावका जितकाशिभिः
निर्जित्य धार्तराष्ट्रांस्ते पाण्डवेया महारथाः
भीता दिशो व्यकीर्यन्त वायुनुन्ना यथा घनाः
व्यरोचन्त रणे राजन्दीप्यमाना इवाग्नयः
अथ मड्डुकभेरिमहामुरजाः पणवानकदुन्दुभिझर्झरिभिः
विनदन्ति भृशं सह शङ्खरवैर्विविधैश्च नरोत्तम सिंहरवैः