सञ्जयः-
ततस्स पाण्डवानीके जनयंस्तुमुलं भयम्
व्यधमत् पाण्डवान्द्रोणो दहन्कक्षमिवानलः
निर्दहन्तमनीकानि साक्षादग्निमिवोत्थितम्
दृष्ट्वा रुक्मरथं सङ्ख्ये समकम्पन्त सृञ्जयाः
सततं चास्यमानस्य धनुषोऽस्याशुकारिणः
ज्याघोषश्शुश्रुवेऽत्यर्थं विस्फूर्जितमिवाशनेः
रथिनस्सादिनः पत्तीन् द्विपान् द्विपगतानपि
द्रोणचापविनिर्मुक्ताः प्रमथ्नन्ति स्म सायकाः
नानद्यमानः पर्जन्यस् साशनि्श्शुचिसङ्क्षये
अश्मवर्षमिवावर्षत्परेषामाधद्भयम्
विचरत्स दिशस्सर्वास्सेनां विक्षोभयन्मुहुः
वर्धयामास सन्त्रासं शत्रूणामतिमानुषम्
तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम्
भ्राजमानं रथे तस्मिन्दृश्यते स्म महाभयम्
स वीरस्सत्यवाक्प्राज्ञो धर्मनित्यो दुरासदः
युद्धकाले प्रयत्नेन रौद्रीं प्रास्यन्दयन्नदीम्
अमर्षशैलप्रभवां शरवेगमहारवाम्
बलौघैस्सर्वतः पूर्णां वीरवृक्षापहारिणीम्
शोणितोदां रथावर्तां हस्त्यश्वकृतरोधसम्
कवचद्वीपसंयुक्तां मांसपङ्कसमाकुलाम्
मेदोमज्जास्थिसिकतामुष्णीषचयफेनिलाम्
सङ्ग्रामरजसा पूर्णामत्युग्रां वीरसेविताम्
नरनागाश्वसम्भूतां शरवेगौघवाहिनीम्
शरीरदारुसङ्घाटां भुजनागसमाकुलाम्
मत्तद्वीपोपलवतीं निस्त्रिंशझषसेविताम्
रथनागह्रदोपेतां नानाभारणनम्
महारथशतावर्तां भूमिरेणूर्मिमालिनीम्
महावीर्यवतां सङ्ख्ये सुतरां भीरुदुस्तराम्
शरीरशतसम्बाधां गृध्रकङ्कनिषेविताम्
महारथसहस्राणि नयन्तीं यमसादनम्
शूरव्यालमृगाकीर्णां प्राणिवारिजसेविताम्
छिन्नक्षत्रमहाहंसां मुद्गरोडुपसङ्कुलाम्
चक्रकूर्माङ्गदानक्रां शरशङ्कुरझषाकुलाम्
बलगृध्रसृगालानां घोरैस्सङ्घैर्निषेविताम्
नदीं प्रास्यन्दयद्द्रोणः केशशेवलशाद्वलम्
सा ततः प्राणिनस्सङ्ख्ये द्रोणेन बलिना कृता
उवाह शतशो राजन् परलोकाय वाहिनी
शरीरशतसम्बाधा क्रव्यादगणसङ्कुला
बभूव सा नदी राजन्भीरूणां घोरदर्शना
तर्जयन्तमनीकानि तानि तानि नरर्षभ
सर्वतोऽभ्यद्रवन्द्रोणं युधिष्ठिरपुरोगमाः
तानपि प्राद्रवञ् शूरास्तावका जितकाशिनः
प्रत्यगृह्णंस्ततो राजन् तदाऽभूद्रोमहर्षणम्
यतमानस्तु शकुनिस् सहदेवमुपाद्रवत्
सादियन्तृध्वजहयं विव्याध निशितैश्शरैः
तस्य माद्रीसुतः केतुं धनुस्सूतं हयानपि
नातिक्रुद्धश्शरैश्छित्त्वा षष्ट्या विव्याध सौबलम्
भित्त्वा च शरवर्षेण शकुनिं प्रत्यवारयत्
गदां गृहीत्वा शकुनिः प्रचस्कन्द रथोत्तमात्
स तस्य गदया राजन्रथात्सूतमपातयत्
ततस्तौ विरथौ राजन्गदाहस्तौ महाबलौ
चिक्रीडतू रणे शूरौ सशृङ्गाविव पर्वतौ
द्रोणः पाञ्चालदायादं विव्याध दशभिश्शरैः
तयोस्तत्र महाराज बाणवर्षैः प्रकाशितम्
खद्योतैरिव चाकाशं प्रदोषे पुरुषर्षभ
विविंशतिं भीमसेनो विंशत्या निशितैश्शरैः
विद्ध्वा नाकम्पयद्वीरस्तदद्भुतमिवाभवत्
विविंशतिस्तु प्रहसन् व्यश्वकेतुशरासनम्
चक्रे तं सर्वसैन्यानि प्रहृष्टान्यभ्यपूजयन्
स तन्न ममृषे भीमश्शत्रोर्विजयमाहवे
तस्याश्वान् गदया दान्तान्सैन्धवान् समपोथयत्
भूरिश्रवा रणे राजन्याज्ञसेनिं महारथम्
महता सायकौघेन च्छादयामास हृष्टवत्
शिखण्डी तु ततः क्रुद्धस्सौमदत्तिं महाहवे
छादयामास नाराचैस्तिष्ठ तिष्ठेति चाब्रवीत्
ऋक्षचर्मपिनद्धौ तु चक्रतुस्तौ स्वरस्वनम्
बाह्यमाभ्यन्तरं मार्गं सम्प्लवन्तौ यशस्विनौ
ददृशाते महात्मानौ सपक्षाविव पर्वतौ
पिशिताशनसंयुक्तौ वाहैरुल्बणपातिभिः
बृहत्पताकातूणीरौ घोररूपौ भयानकौ
कालमेघाविव गतौ लोकानाबर्त्स्य गर्जनैः
रथघोषेण महताऽप्यास्थितौ स्यन्दनोत्तमौ
बृहत्पताकातूणीरौ पैशाचैर्वाहनैर्युतौ
राक्षसौ रौद्रकर्माणौ हेडिम्बालम्बुसौ रणे
चक्रातेऽत्यद्भुतं युद्धं परस्परवधैषिणौ
मायाशतसृजौ दृप्तौ मायाभिरितरेतरम्
अन्तर्धानेन द्रष्टॄणां भृशं विस्मयकारिणौ
चेकितानोऽनुविन्देन युयुधे त्वतिभैरवम्
यथा देवासुरे युद्धे बलशक्रौ महारणे
लक्ष्मणः क्षत्रदेवेन विमर्दमकरोन्महत्
यथा विष्णुः पुरा राजन्हिरण्याक्षेण संयुगे
शल्यस्तु नकुलं शूरं स्वस्रीयं प्रियमात्मनः
विव्याध प्रहसन्बाणैर्लीलया कोपयन्निव
तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः
निपातयित्वा नकुलो दध्मौ शङ्खं मुदान्वितः
धृष्टकेतुः कृपेणास्ताञ्छित्त्वा बहुविधाञ्छरान्
कृपं विव्याध सप्तत्या ध्वजं चास्य त्रिभिश्शरैः
तं कृपश्शरवर्षेण महता समवाकिरत्
निहत्य ताञ्शरान्क्षिप्रं धृष्टकेतुरपोथयत्
सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे
विद्ध्वा विव्याध सप्तत्या पुनरन्यैस्स्मयन्निव
तं भोजस्सप्तसप्तत्या विद्ध्वा सुनिशितैश्शरैः
नाकम्पयत शैनेयं वीरो वायुर्यथाऽचलम्
सेनापतिस्सुशर्माणं भृशं मर्मण्यताडयत्
स चापि तं तोमरेण जत्रुदेशेऽभ्यताडयत्
वीरं वैकर्तनं कर्णं विराटः प्रत्यवारयत्
सह मत्स्यैर्महावीर्यैस्तदद्भुतमिवाभवत्
तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम्
तत्सैन्यं वारयामास शरैस्सन्नतपर्वभिः
द्रुपदस्तु स्वयं राजा भगदत्तेन सङ्गतः
तयोर्युद्धं महाराज चित्ररूपमिवाभवत्
श्रोतॄणां वीक्षितॄणां च मोहकारणमाहवे
स पौरवरथस्येषामाप्लुत्य सहसा नदन्
भूतानां त्रासजननं चक्रातेऽस्त्रविशारदौ
पौरवं रथमास्थाय केशपक्षे परामृशत्
ततः प्रजविताश्वेन विधिवत्कल्पितेन च
रथेनाभ्यद्रवद्राजन्सौभद्रं पौरवो नदन्
तेनाभियातस्त्वरितश् शतमन्योस्सुतात्मजः
तस्मिंश्चक्रे महामन्युमभिमन्युररिन्दमः
पौरवस्त्वथ सौभद्रं शरव्रातैरवाकिरत्
तस्यार्जुनिर्धनुश्चित्रं ध्वजं चोर्व्यामपातयत्
सौभद्रः पौरवं त्वन्यैर्विद्ध्वा सप्तभिराशुगैः
पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः
ततस्संहर्षयन्सेनां सिंहवद्विनदन्मुहुः
समाधत्तार्जुनिस्तूर्णं पौरवान्तकरं शरम्
द्वाभ्यां शराभ्यां हार्दिक्यश्चकर्त सशरं धनुः
तदुत्सृज्य धनुश्शीर्णं सौभद्रः परवीरहा
उद्बबर्ह शितं खड्गमादधानश्शरावरम्
स तेनानेकतारेण चर्मणा कृतहस्तवत्
भ्रान्तासिना चरन्मार्गान्दर्शयन्वीर्यमात्मनः
भ्रामितं पुनरुद्भ्रान्तमाधूतं पुनरुच्छ्रितम्
चर्मनिस्त्रिंशयो राजन्निर्विशेषमदृश्यत
जघानास्य पदा सूतमसिनाऽपातयद्ध्वजम्
विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव चाग्रहीत्
तमाकुलितकेशान्तं ददृशुस्सर्वपार्थिवाः
उक्षाणमिव सिंहेन पात्यमानमचेतनम्
तमार्जुनिवशं प्राप्तं कृष्यमाणमनाथवत्
पौरवं पातितं दृष्ट्वा नामृष्यत जयद्रथः
स बर्हिणमहावाजं किङ्किणीशतजालवत्
चर्म चादाय खड्गं च नदन्पर्यपतद्रथात्
प्रासपट्टिशनिस्त्रिंशान्सौभद्रेणाहितेरतान्
अपश्याम महाराज विधूतानसिचर्मणा
दर्शयन् सर्वसैन्यानां स्वबाहुबलमात्मनवान्
उत्पपात रथात्तूर्णं श्येनवन्निपपात ह
ततस्सैन्धवमालोक्य कार्ष्णिः पौरवमुत्सृजन्
दुद्राव सहसा खड्गं चर्म चातिरथः पुनः
वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम्
ससाराभिमुखश्शूरश्शार्दूल इव कुञ्जरम्
तौ परस्परमाप्लुत्य खड्गदन्तनखायुधौ
हृष्टवत्सम्प्रजह्राते व्याघ्रकेसरिणाविव
सम्पातेष्वभिपातेषु निपातेष्वसिचर्मणोः
न तयोरन्तरं कश्चिद्ददर्श नरसिंहयोः
अवक्षेपोऽसिनिर्ह्रादश् शस्त्रान्तरविवर्जनम्
बाह्वन्तरनिपातश्च निर्विशेषमदृश्यत
बाह्यमाभ्यन्तरं मार्गं सम्पतन्तौ यशस्विनौ
ददृशाते महात्मानौ सपक्षाविव पर्वतौ
ततो विक्षिपतः खड्गं सौभद्रस्य यशस्विनः
शरावरणपक्षान्ते प्रजहार जयद्रथः
रुक्मपक्षान्तरे सक्तस्तस्मिंश्चर्माणि भास्वरे
सिन्धुराजकरोद्धूतस्सोऽभज्यत महानसिः
भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट्
सोऽदृश्यत निमेषेण स्वरथं पुनरास्थितः
ततश्चर्म च खड्गं च समुत्सृज्य महारथः
ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम्
सिन्धुराजं परित्यज्य सौभद्रः परवीरहा
तापयामास तत्सैन्यं भुवनं भास्करो यथा
तं कार्ष्णिं समरान्मुक्तमास्थितं रथमुत्तमम्
सहसा सर्वराजानः परिवव्रुस्समन्ततः
तस्य सर्वायसीं शल्यस् शक्तिं कनकभूषिताम्
प्रजहार भुजाग्रेण दीप्तामग्निशिखामिव
तामवप्लुत्य जग्राह विकोशं कृतवानसिम्
वैनतेयो यथा कार्ष्णिः पतन्तीमुरगाङ्गनाम्
तस्य लाघवमाज्ञाय सत्त्वं चामिततेजसः
सहितास्सर्वराजानस्सिंहनादमथानदन्
ततस्तामेव शल्याय सौभद्रः परवीरहा
प्रजहार महाशक्तिं वैडूर्यविकृतां स्थिराम्
सा कार्ष्णिभुजनिर्मुक्ता सहसा भुजगोपमा
जघान सूतं शल्यस्य रथाच्चैनमपातयत्
ततो विराटद्रुपदौ धृष्टकेतुर्युधिष्ठिरः
सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ
यमौ च द्रौपदेयाश्च साधु साध्विति चुक्रुशुः
सादुवादाश्च विविधास्सिंहनादाश्च पुष्कलाः
प्रादुरासन्हर्षयन्तस्सौभद्रमपराजितम्
पर्वव्रुस्स ते सर्वे पाण्डवानां महारथाः
हर्षयन्तश्च सौभद्रं रोषयन्तस्सुतांश्च ते
तन्नामृष्यन्त पुत्रास्ते शत्रोर्विजयलक्षणम्
अथैनं सहितास्सर्वे समन्तान्निशितैश्शरैः
अभ्याकिरन्महाराज तोयदा इव पर्वतम्
तेषां तु प्रियमन्विच्छन्सूतस्य च पराभवात्
आर्तायनिरमित्रघ्नः क्रुद्धस्सौभद्रमभ्ययात्