सञ्जयः-
ततस्ते सैनिकाश्श्रुत्वा तं युधिष्ठिरनिग्रहम्
सिंहनादरवांश्चक्रुर्बाणशङ्खरवैस्सह
ततस्सर्वं यथावृत्तं धर्मराजेन भारत
आप्तैश्चारैः परिज्ञातं भारद्वाजचिकीर्षितम्
ततस्सर्वान्समानीय भ्रातॄन्सैन्यांश्च भारत
अब्रवीद्धर्मराजो वै धनञ्जयमिदं वचः
युधिष्ठिरः-
श्रुतं ते पुरुषव्याघ्र द्रोणस्य च चिकीर्षितम्
यथा तन्न भवेत्सत्यं तथा नीतिर्विधीयताम्
सान्तरं हि प्रतिज्ञातं द्रोणेनामित्रघातिना
तच्चान्तरममोघेषौ त्वयि तेन समाहितम्
तत् त्वमद्य महाबाहो युध्यस्व मदनन्तरम्
यथा दुर्योधनः कामं नेमं द्रोणादवाप्नुयात्
अर्जुनः-
यथा न मे वधः कार्य आचार्यस्य कथञ्चन
तथा तव परित्यागो न मे राजंश्चिकीर्षितः
अद्यैव पाण्डव प्राणानुत्सृजेयमहं युधि
प्रतियाताऽहमाचार्यं त्वां न जह्यां कथञ्चन
त्वां निगृह्याहवे राजन्धार्तराष्ट्रो यमिच्छति
न स तं जीवलोकेऽस्मिन्कामं प्राप्ता कथञ्चन
प्रपतेद्द्यौस्सनक्षत्रा पृथिवी शकली भवेत्
न त्वां द्रोणो निगृह्णीयाज्जीवमाने मयि ध्रुवम्
यदि तस्य रणे साह्यं कुरुते वज्रभृत्स्वयम्
विष्णुर्वा सहितो देवैर्न त्वां प्राप्ता ह्यसौ रणे
मयि जीवति राजेन्द्र न भयं कर्तुमर्हसि
द्रोणादस्त्रभृतां श्रेष्ठात्सर्वशस्त्रभृतामपि
न स्मराम्यनृतं प्रोक्तं न स्मरामि पराजयम्
न स्मरामि प्रतिश्रुत्य विस्मृत्य मनसाऽकृतम्
सञ्जयः-
ततश्शङ्खाश्च भेर्यश्च मृदङ्गाश्च सहस्रशः
प्रावाद्यन्त महाराज पाण्डवानां निवेशने
सिंहनादश्च सञ्जातः पाण्डवानां महात्मनाम्
धनुर्ज्यातलशब्दश्च गगनस्पृक्सुभैरवः
तं श्रुत्वा शङ्खनिर्घोषं पाण्डवेयस्य धीमतः
त्वदीयेष्वपि सैन्येषु वादित्राण्यभिजघ्निरे
ततो व्यूढानि सैन्यानि तव तेषां च भारत
शनैरुपेयुरन्योन्यं योत्स्यमानानि संयुगे
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम्
पाण्डवानां कुरूणां च द्रोणपाञ्चाल्ययोरपि
यतमानाः प्रयत्नेन द्रोणानीकविशातने
न शेकुस्सृञ्जया राजंस्तद्धि द्रोणेन पालितम्
तथैव तव पुत्रस्य रथोदाराः प्रहारिणः
न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटीना
ते सेने स्तिमिते आस्तां काङ्क्षमाणे परस्परम्
समासक्ते यथा नक्तं वनराजी सुपुष्पिते
ततो रुक्मरथो राजन्नर्केणेव विराजता
वरूथिना विनिष्पत्य व्यचरत्पृतनान्तरे
तमुद्यन्तं रथेनैकमाशुकारिणमाहवे
अनेकमिव सन्त्रसान्मेनिरे पाण्डुसृञ्जयाः
तेन मुक्ताश्शरा घोरा विचेरुस्सर्वतोदिशम्
त्रासयन्तो महाराज पाण्डवेयस्य वाहिनीम्
मध्यन्दिनमनुप्राप्तो गभस्तिशतसंवृतः
यथाऽदृश्यत घर्मांशुस्तथा द्रोणोऽप्यदृश्यत
न चैनं पाण्डवेयानां कश्चिच्छक्नोति भारत
वीक्षितुं समरे क्रुद्धं महेन्द्रमिव दानवाः
मोहयित्वा ततस्सेनां भारद्वाजः प्रतापवान्
धृष्टद्युम्नबलं तूर्णं व्यधमन्निशितैश्शरैः
स दिशस्सर्वतो गत्वा संवृत्य खमजिह्मगैः
पार्षतो यत्र तत्रैनामभिनत्पाण्डुवाहिनीम्