सञ्जयः-
शुश्रूषस्व स्थिरो भूत्वा शंसतो मम भारत
हन्त ते कथयिष्यामि सर्वं प्रत्यक्षदर्शिवान्
यथा सत्यपरो द्रोणस् सादितः पाण्डुसृञ्जयैः
सेनापतित्वं सम्प्राप्य द्रोणो हर्षमुपेयिवान्
मध्ये सैन्यस्य राजानम् इदं वचनमब्रवीत्
द्रोणः-
यत्कौरवाणामृषभादापगेयादनन्तरम्
सैनापत्ये त्वया राजन्नद्य सत्कृतवानहम्
अनुरूपं फलं तस्य कर्मणो लभ्यतां त्वया
सदृशं कर्मणस्तस्य फलमाप्नुहि पार्थिव
करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि
सञ्जयः-
ततो दुर्योधनो राजा कर्णदुःशासनादिभिः
सम्मन्त्र्योवाच दुर्धर्षमाचार्यं जयतां वरम्
दुर्योधनः-
ददासि चेद्वरं मह्यं जीवग्राहं युधिष्ठिरम्
गृहीत्वा रथिनां श्रेष्ठं मत्समीपमिहानय
इच्छेयं वै महात्मानं धर्मात्मानं युधिष्ठिरम्
भ्रातॄणां पश्यतामेव जीवग्राहेण मे द्विज
प्रीणाम्यनेन कार्येण ससुहृज्जनबान्धवः
सञ्जयः-
ततः कुरूणामाचार्यश् श्रुत्वा पुत्रस्य ते वचः
सेनां प्रहर्षयन्सर्वामिदं वचनमब्रवीत्
द्रोणः-
धन्यः कुन्तीसुतो राजन्यस्य ग्रहणमिच्छसि
न वधं तस्य दुर्धर्ष वरमद्य प्रयाचसे
किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसे
नाशंससे क्रियामेतां मयि दुर्योधन ध्रुवम्
आहोस्विद्धर्मराजस्य द्वेष्टा कश्चिन्न विद्यते
यमिच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनः
अथवा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान्
राज्यांशं प्रति दत्त्वा च सौभ्रात्रं कर्तुमिच्छसि
धन्यः कुन्तीसुतो राजा सुजातं चास्य धीमतः
अजातशत्रुता यस्य येन सन्न्निह्यते भवान्
सञ्जयः-
द्रोणेन चैवमुक्तस्य तव पुत्रस्य भारत
सहसा निस्सृतो भावो यस्तु नित्यं हृदि स्थितः
नाकारो गूहितुं शक्यो बृहस्पतिसमैरपि
तस्मात्तव सुतो राजन्प्रहृष्टो वाक्यमब्रवीत्
दुर्योधनः-
वधे कुन्तीसुतस्याजावाचार्य नजयो मम
हते युधिष्ठिरे पार्थास् सर्वानस्मान्वधिष्यति
नैव शक्यो रणे सर्वैर्निहन्तुममरैरपि
यदि सर्वे हनिष्यन्ते पाण्डवास्ससुता मृधे
ततः कृत्स्नं वशे कृत्वा निःशेषं नृपमण्डलम्
ससागरवनां स्फीतां विजित्य वसुधामिमाम्
विष्णुर्दास्यति कृष्णायै कुन्त्यै वा पुरुषोत्तमः
यद्येष चैषां शेषस्स्यात्स एवास्मान्न शेषयेत्
सत्यप्रतिज्ञे त्वानीते पुनर्द्यूतेन निर्जिते
तस्मिञ्जीवति चानीते ह्युपायैर्बहुभिः कृतैः
पुनरेष्यन्त्यरण्यानि कौन्तेयास्तमनुव्रताः
सोऽयं मम जयो नित्यो दीर्घकालं भविष्यति
अतो न वधमिच्छामि धर्मराजस्य कर्हिचित्
सञ्जयः-
तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोऽर्थतत्त्ववित्
तं वरं सान्तरं तस्मै ददौ सञ्चिन्त्य बुद्धिमान्
द्रोणः-
न चेत् कुन्तीसुतं पार्थं पालयेदर्जुनो युधि
मन्येऽहं पाण्डवश्रेष्ठमानीतं वशमात्मनः
न हि पार्थो रणे यत्तश्शक्यो देवासुरैरपि
प्रत्युद्यातुमतस्तात नैतस्माद्धर्षयाम्यहम्
असंशयं स शिष्यो मे मत्पूर्वश्चास्त्रकर्मणि
तरुणस्सुकृती युक्त एकायनगतश्च सः
अस्त्राणीन्द्राच्च रुद्राच्च भूयांसि समवाप्तवान्
अमर्षितश्च ते राजन् सततं मर्षयाम्यहम्
स त्वपक्रम्यतां युद्धाद्येनोपायेन शक्यते
अपनीते ततः पार्थे धर्मराजो जितस्त्वया
ग्रहणं हि यथा तस्य धर्मराजस्य मन्यसे
अनेनैवाभ्युपायेन ग्रहणं समुपैष्यसि
अहं गृहीत्वा राजानं सत्यवादिनमाहवे
आनयिष्यामि ते राजन्वशमद्य न संशयः
यदि स्थास्यति सङ्ग्रामे मुहूर्तमपि पाण्डवः
अपनीते नरव्याघ्रे कुन्तीपुत्रे धनञ्जये
फल्गुनस्य समक्षं तु न हि शक्यो युधिष्ठिरः
ग्रहीतुं समरे राजन्सेन्द्रैरपि सुरासुरैः
सञ्जयः-
एवमुक्ते तदा तस्मिन्युद्धे देवासुरोपमे
सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे
गृहीतमेवामन्यन्त तव पुत्रास्सुबालिशाः
ततो दुर्योधनश्चापि ग्रहणं पाण्डवस्य तत्
स्कन्धावारेषु सर्वेषु यथास्थानेषु मारिष
सैन्यस्थानेषु सर्वेषु घोषयामास पार्थिवः
पाण्डवेषु च सापेक्षं द्रोणं जानाति ते सुतः
ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः