वैशम्पायनः-
एवं पृष्ट्वा सूतपुत्रं हृच्छोकेनार्दितो भृशम्
जये निराशः पुत्राणां धृतराष्ट्रोऽपतत्क्षितौ
तं विसञ्ज्ञं निपतितं सिषिचुः परिचारिकाः
जलेनात्यन्तशीतेन जीवन्त्यः पुण्यगन्धिना
पतितं चैनमाज्ञाय समस्ता भरतस्त्रियः
परिवव्रुर्महात्मानं संस्पृशन्त्यश्च पाणिभिः
उत्थाप्य चैनं शनकै राजानं पृथिवीतलात्
आसनं प्रापयामासुर्बाष्पकण्ठ्यो वराननाः
आसनं प्राप्य राजा तु मूर्च्छयाऽभिपरिप्लुतः
निश्चेष्टोऽतिष्ठत तदा वीज्यमानस्समन्ततः
स लब्ध्वा शनकैस्सञ्ज्ञां वेपमानो मुहुर्मुहुः
पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम्
धृतराष्ट्रः-
यस्सदोद्यन्निवादित्यस्तेजसा प्रणुदेत्तमः
आयादजातशत्रुर्वा कस्तं द्रोणमवारयत्
प्रभिन्नमिव मातङ्गं तथा क्रुद्धं तरस्विनम्
असक्तमनसं दृप्तं प्रतिद्विरदगामिनम्
वाशितासङ्गमे यान्तमजय्यं प्रतियूथपैः
अतीत्यान्यान्रणे वीरान्वीरः पुरुषसत्तमः
स ह्येको हि महाबाहुर्निर्दहेद्घोरचक्षुषा
कृत्स्नं दुर्योधनबलं धृतिमान्सत्यसङ्गरः
चक्षुष्मन्तं जये सक्तमिष्वासवररक्षितम्
दान्तं लोके बहुमतं कस्तं द्रोणमपानुदत्
के दुष्प्रधर्षं राजानमिष्वासवरमच्युतम्
समासेदुर्नरव्याघ्रं मदीया वै युधिष्ठिरम्
तरसैवाभिपद्याथ यो वै द्रोणमुपाद्रवत्
तं भीमसेनमायान्तं के वीराः पर्यवारयन्
स यदा जलदप्रख्यो रथघोषेण वीर्यवान्
पर्जन्य इव बीभत्सुस्तुमुलामशनीं सृजन्
विसृजञ्छरवर्षाणि वर्षाणि मघवानिव
इषुसम्बाधमाकाशं कुर्वन् कपिवरध्वजः
अवस्फूर्जन्दिशस्सर्वा रथनेमिस्वनेन च
चापविद्युन्महामेघो रथबृन्दबलाहकः
नेमिस्वनाभिस्तनितः क्षुरसङ्घातनिस्वनः
रोषनिर्जितजीमूतो मनोभिप्रायसर्वगः
मर्मातिगः क्षुरधरस्तुमुलश्शोणितोदकैः
दिशश्च प्रदिशस्सर्वा मानवैरास्तृणोन्महीम्
गदासिविद्युत्कलिलश् शात्रवाणां भयङ्करः
युद्धेऽभ्यवर्षन् कौन्तेयो गृध्रपत्रैश्शिलाशितैः
गाण्डीवं धनुरादाय क्व तदा प्रत्यवस्थितः
कच्चिद्गाण्डीवशब्देन न प्रणश्यति वै बलम्
यदा वो भैरवं कुर्वन्नर्जुनो भृशमत्यगात्
वातो मेघानिवाविध्य बलवान्भीमविक्रमः
को हि शक्तो रणे जेतुं मानवः पार्थमीक्षितुम्
कच्चिन्नापानुदत्प्रामानिषुभिर्वो धनञ्जयः
वायुर्मेघानिवादित्यात् रेणूनिव महाबलः
को हि गाण्डीवधन्वानं नरस्सोढुं रणेऽर्हति
यत्सेनास्समकम्पन्त यद्वीरानस्पृशद्भयम्
के तत्र न जहुर्द्रोणं के क्षुद्राः प्राद्रवन्भयात्
क वा तत्र तनुं त्यक्त्वा प्रतीपं मृत्युमाव्रजन्
अमानुषाणां जेतारं युद्धेष्वपि धनञ्जयम्
न वै वेगं सिताश्वस्य विसहिष्यन्ति मानवः
गाण्डीवस्य च निर्घोषं प्रावृड्जलदनिस्स्वनम्
विष्वक्सेनो यत्र यन्ता यत्र योद्धा धनञ्चयः
अजय्यं तं रथं मन्ये देवैरपि सवासवैः
सुकुमारो युवा वीरो दर्शनीयश्च पाण्डवः
मेधावी निपुणो धीमान्युद्धे सत्यपराक्रमः
तं राथानां रथं वीरं सदा युद्धेषु दुर्जयम्
नकुलं पाण्डवश्रेष्ठं के वीराः पर्यवारयन्
आशीविष इव क्रुद्धस्सहदेवो यदभ्ययात्
अमोघबाणस्सिद्धेषुश्त्रुभिर्युधि दुर्जयः
आरावं तुमुलं कुर्वन् व्यथयन् बैरवान्रणे
यदाऽभ्ययात् तदा द्रोणं के वीरास्तमवारयन्
यस्स सौवीरराजस्य प्रसह्य महतीं चमूम्
आदत्त महिषीं भोज्यां कन्यां सर्वाङ्गशोभनाम्
सत्यं धृतिश्च शौर्यं च ब्रह्मचर्यं च केवलम्
सर्वाणि युयुधानेऽस्मिन्नित्यानि पुरुषर्षभे
बलिनं सत्यकर्माणमभीतमपराजितम्
वासुदेवसमं युद्धे वासुदेवादनन्तरम्
युक्तं धनञ्जयहिते ममानर्थाय कल्पितम्
पार्थेन सममस्त्रेषु कस्तं द्रोणादवारयत्
वृष्णीनां प्रवरं शूरं शूरं सर्वधनुष्मताम्
रामेण सममस्त्रेषु यशसा विक्रमेण च
सत्यं धृतिश्च शौर्यं च ब्राह्मचर्यमनुत्तमम्
यस्मिन नित्यानि सन्ति स्म वीरे सत्यपराक्रमे
तमेवं गुणसम्पन्नं दुर्वारमपि दैवतैः
समासाद्य महेष्वासं के शूराः पर्यवारयन्
पाञ्चालेषूत्तमं वीरमुत्तमाभिजनप्रियम्
नित्यमुत्तमकर्माणमुत्तमौजसमाहवे
युक्तं धनञ्जयहिते ममानर्थार्थमुत्थितम्
यमवैश्रवणादित्यमहेन्द्रवरुणोपमम्
महारथं समाख्यातं द्रोणा योद्यन्तमाहवे
त्यजन्तं तुमुले प्राणान् सात्यकिं के न्यवारयन्
एकोऽपसृत्य चेदिभ्यः पाण्डवान्यस्समाश्रितः
धृष्टकेतुं समायान्तं द्रोणात् कस्समवारयत्
योऽवधीत्केतुमान्वीरो राजपुत्रं सुदर्शनम्
अपरान्ते गिरिद्वारे कस्तं द्रोणादवारयत्
स्त्रीपुंसोः पुरुषव्याघ्र यस्स वेद गुणागुणान्
शिखण्डिनं याज्ञसेनिमस्यन्तमपराजितम्
देवव्रतस्य समरे हेतुं मृत्योर्महात्मनः
द्रोणायाभिमुखं यान्तं के शूराः पर्यवारयन्
यस्मिन्नभ्यधिका वीरे गुणास्सर्वे धनञ्जयात्
यस्य शस्त्राणि दिव्यानि ब्रह्मचर्यं च नित्यशः
वासुदेवसमं वीर्ये धनञ्जयसमं बले
तेजसाऽऽदित्यसङ्काशं बृहस्पतिसमं मतौ
अभिमन्युं महात्मानं व्यात्ताननमिवान्तकम्
द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन्
तरुणस्तरुणप्रख्यस् सौभद्रः परवीरहा
यदाऽभ्ययात्स तं द्रोणं तदाऽऽसीद्वो मनः कथम्
द्रौपदेया नरव्याघ्रास्समुद्रमिव सिन्धवः
यद्द्रोणमाद्रवन्सङ्ख्ये के वीरास्तानवारयन्
येऽपि द्वादश वर्षाणि क्रीडामुत्सृज्य बालकाः
अस्त्रार्थमवसन्भीष्मे बिभ्रतो व्रतमुत्तमम्
क्षत्रञ्जयः क्षत्रदेवः क्षत्रवर्मा च मानदः
धृष्टद्युम्नात्मजान् वीरान् कस्मात् द्रोणादवारयत्
यस्माद्विशिष्टं सङ्ग्रामे न चामन्यन्त वृष्णयः
चेकितानं महेष्वासं कस्तं द्रोणादवारयत्
वार्धक्षेमिः कलिङ्गानां यः कन्यामाहरद्युधि
अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत्
कैकेया भ्रातरः पञ्च धार्मिकास्सत्यविक्रमाः
इन्द्रगोपकसवर्ण्णाश्च रुक्मवर्णायुधध्वजाः
मातृष्वसृसुता वीराः पाण्डवानां जयैषिणः
तान्द्रोणं हन्तुमायातान्के वीराः पर्यवारयन्
यं योधयन्तो राजानो नाजयन्वारणावते
षण्मासानभिसंरब्धा जिघांसन्तो युधां पतिम्
धनुष्मतां वरं वीरं सत्यसन्धं जितेन्द्रियम्
द्रोणात्कस्तं नरव्याघ्रं युयुत्सुं समवारयत्
यः पुत्रं काशिराजस्य वाराणस्यां महारथम्
समरे स्त्रीषु गृध्यन्तं भल्लेनापाहरद्रथात्
धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारणम्
युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च
निर्दहन्तं रणे द्रोणं वारयन्तं च सर्वशः
द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन्
उत्सङ्ग इव संवृद्धं द्रुपदस्यास्त्रवित्तमम्
शैखण्डिनं शस्त्रगुप्तं के तु द्रोणादवारयन्
य इमां पृथिवीं सर्वां चर्मवत्समवेष्टयत्
महता रथवंशेन मुख्यारिघ्नो महारथः
दशाश्वमेधानाजह्रे समाप्तवरदक्षिणान्
निरर्गलान्सर्वमेधान्पुत्रवत्पालयन्प्रजाः
विसृष्टा दक्षिणा यस्य गङ्गाजलमवारयत्
तावतीर्गा ददौ धीमानुशीनरसुतोऽध्वरे
न पूर्वे नापरे चक्रुरिदं केचन मानवाः
इति सञ्चुक्रुशुर्देवाः कृते कर्मणि दुष्करे
पश्यामस्त्रिषु लोकेषु न च स्थास्नु चारिष्णु च
जातं वापि जनिष्यद्वा न च सम्प्रति वर्तते
अन्यमौशीनराच्छैब्याद्धुरो वोढारमित्युत
गतिं यस्य न यास्यन्ति मनुष्या लोकवासिनः
तस्य नप्तारमायान्तं के वीराः पर्यवारयत्
द्रोणायाभिमुखं यान्तं व्यात्ताननमिवान्तकम्
विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः
प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन्
सद्यो वृकोदराज्जातो महाबलपराक्रमः
मायावी राक्षसो घोरो यस्मान्मम महद्भयम्
पार्थानां जयकामं तं पुत्राणां मम कण्टकम्
घटोत्कचं महाकायं हैडिम्बं को न्यवारयत्
पितुर्यमाहुः पितरं वासुदेवं द्विजातयः
स एष नियतः कृष्ण आपदर्थं धनञ्जये
सन्नह्यते यथाऽनर्थे दार्तराष्ट्रस्य सञ्जय
स्थातारं नाधिगच्छामि प्रत्यनीके महौजसि
सङ्कर्षणगदौ चोभौ प्रद्युम्नोऽथ विडूरथः
अंशावहश्च साम्बश्च वृष्णिवीराः प्रहारिणः
एते वै सहितास्तत्र पाण्डवार्थे जिगीषवः
केशवो यत्र तत्रैते यत्रैते तत्र केसवः
अर्जुनः केशवस्यात्मा कृष्णश्चात्मा किरीटिनः
अर्जुने तु जयो नित्यं कृष्णे कीर्तिश्च शाश्वती
प्राधान्यादपि भूयांसो ह्यमेयाः केशवे गुणाः
मोहात् तु वशिनं कृष्णं न सर्वो वेत्ति माधवम्
मोहितो देवपाशेन मृत्युपाशपुरस्कृतः
न वेद कृष्णं दाशार्हमर्जुनं जयतां वरम्
आदिदेवौ महात्मानौ नरनारायणावुभौ
मनसाऽपि हि दुर्धर्षौ सेनामेतां तरस्विनौ
नाशयेतामिहेच्छन्तौ मानुषत्वात्तु नेच्छतः
युगस्येव विपर्यासो भूतानामिव मोहनम्
इति मां प्रतिभात्येतद्भीष्मद्रोणनिपातनम्
लोकस्य स्थविरौ वीरौ मन्त्रज्ञौ मन्त्रधारिणौ
भीष्मद्रोणौ हतौ युद्धे मनुष्यान्मोहयिष्यतः
यां तां श्रियमसूयामि पुरा दृष्ट्वा युधिष्ठिरे
अद्य तामनुजानामि भीष्मद्रोणौ यदा हतौ
अथवा मत्कृते प्राप्तः कुरूणामेव सङ्क्षयः
पक्वानां हि वधे सूत वज्रायन्ते तृणान्यपि
एते चान्ये च बहवो येषामर्थाय सञ्जय
त्यक्तारस्संयुगे प्राणान्किं तेषामजितं युधि
येषां च पुरुषव्याघ्रश्शार्ङ्गधन्वा व्यपाश्रयः।
हितार्थी चैव पार्थानां कथं तेषां पराजयः
लोकानां गुरुरत्यन्तं लोकनाथस्सनातनः
नारायणो रणे नाथो दिव्यो दिव्यात्मकः प्रभुः
यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः
तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः