धृतराष्ट्रः-
किं कुर्वाणं रणे द्रोणं जघ्नुः पाण्डवसृञ्जयाः
तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि
रथः पर्यपतद्वाऽस्य धनुर्वाऽशीर्यतास्यतः
प्रमत्तो वाऽभवद्द्रोणो यथा मृत्युमुपेयिवान्
कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम्
किरन्तमिषुसङ्घांस्तान्रुक्मपुङ्खाननेकशः
क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम्
दूरेषुपातिनं दान्तमस्त्रयुद्धे च पारगम्
पाञ्चालपुत्रो न्यहनदिष्वासवरमच्युतम्
कुर्वाणं दारुणं कर्म रणे यत्तं महाबलम्
व्यक्तं दिष्टं हि बलवत्पौरुषादिति मे मतिः
यत्र द्रोणो हतश्शूरः पार्षतेन दुरात्मना
शस्त्रं चतुर्विधं शूरे यस्मिन्नित्यं प्रतिष्ठितम्
तमिष्वासवराचार्यं द्रोणं शंससि मे हतम्
श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम्
जातरूपपरिष्कारं नाद्य शोकमपानुदे
न नूनं परदुःखेन कश्चिन्म्रियति सञ्जय
यत्र द्रोणं रणे श्रुत्वा हतं जीवामि न म्रिये
अश्मसारमयं नूनं सुदृढं हृदयं मम
श्रुत्वा च निहतं द्रोणं शतधेदं न दीर्यते
ब्राह्मे वेदे तथेष्वस्त्रे यमुपासन्गुणार्थिनः
ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हतः
शोषणं सागरस्येव मेरोः पर्यसनं यथा
पतनं भास्करस्येव न मृष्ये द्रोणपातनम्
दुष्टानां प्रतिरोद्धाऽऽसीद्धार्मिकाणां तु रक्षिता
अत्याक्षीत् स नृपस्यार्थे प्राणानपि सुदुस्त्यजान्
मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे
बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम्
सर्वेषां तु गुणानां यस्स्थितिरासीन्महाद्युतिः
मृत्युर्वशगस्तिष्ठेत्स कथं मृत्युना हतः
ते हि शोणा बृहन्तोऽश्वाश्छन्ना जालैर्हिरण्मयैः
रथे वातजवा युक्तास्सर्वशस्त्रातिपातिनः
बलिनो घोषिणो दान्तास् सैन्धवास्साधुवाहिनः
दृढास्सङ्ग्राममध्ये तु कच्चिदासन्न विह्वलाः
वारणारवगा युद्धे शङ्खदुन्दुभिघोषिणः
ज्याक्षेपशरवर्षाणां मुख्यानां च सहिष्णवः
आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः
हयाः पराजिताश्शीघ्रा भारद्वाजरथोद्वहाः
ते च रुक्मरथे युक्ता नरवीरसमास्थिताः
कथं नाभ्यतरञ्शीघ्रं पाण्डवानामनीकिनीम्
तं तु रुक्मरथं दृष्ट्वा विद्रवन्ति स्म शत्रवः
दिव्यमस्त्रं विकुर्वाणं सङ्गतास्सर्वतः परे
जातरूपपरिष्कारामास्थितो रथमुत्तमम्
भारद्वाजः किमकरोच्छूरस्सङ्क्रन्दनो यथा
विद्यास्त्वस्योपजीवन्ति सर्वलोकधनुर्भृतः
स सत्यसन्धो बलवान्द्रोणः किमकरोद्युधि
दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम्
के तु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः
ननु रुक्मरथं दृष्ट्वा प्राद्रवन्ति स्म पाण्डवाः
दिव्यमस्त्रं विकुर्वाणं सेनां क्षिण्वन्तमव्ययाम्
उताहो सर्वसैन्येन धर्मराजस्सहानुजः
पाञ्चालप्रग्रहो द्रोणं सर्वतः पर्यवारयत्
नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः
ततो द्रोणं तदाऽरौत्सीत्पार्षतः क्रूरकर्मकृत्
न ह्यन्यं परिपश्यामि हन्तारं तस्य शुष्मिणः
धृष्टद्युम्नादृते पापात्पाल्यमानात्किरीटिना
उताहो सर्वसैन्येन धर्मराजस्सहानुजः
उत्सृज्य सर्वसैन्यानि द्रोणमेवाभिदुद्रुवे
तैर्वृतस्सर्वतः क्षुद्रैः पाञ्चालापशदैस्तदा
केकयैश्चेदिकारूशैर्मत्स्यैरन्यैश्च भूमिपैः
व्याकुलीभूतमाचार्यं पिपीलैरुरगं यथा
कर्मण्यसुकरे युक्तं जघानैकं सहायवान्
योऽधीत्य चतुरो वेदान्सर्वानाख्यानपञ्चमान्
ब्राह्मणानां प्रतिष्ठाऽऽसीत्स्रोतसामिव सागरः
दृप्तानां प्रतिषेद्धा च चक्षुरासीदचक्षुषाम्
अमर्षी चावलिप्तेषु धार्मिकेषु च धार्मिकः
स कथं ब्राह्मणो वृद्धश्शस्त्रेण वधमाप्तवान्
अमर्षिणो मर्षितवान्क्लिश्यमानो मयाऽसकृत्
अनर्हमाणान्कौन्तेयान्कर्मणस्तस्य तत्फलम्
यस्य कर्मानुवर्तन्ते लोके सर्वधनुर्भृतः
सत्यसन्धस्सत्यधृतिश् श्रीकामैर्निहतः कथम्
दिवि शक्र इव श्रेष्ठो महासत्त्वो महाबलः
स कथं निहतः पार्थैः क्षुद्रमत्स्यैस्तिमिर्यथा
क्षिप्रहस्तो महाबाहुः दृढवर्माऽरिमर्मभित्
न ह्यस्य जीविताकाङ्क्षी विषयं प्राप्य जीवति
यं द्वौ न जहतुश्शब्दौ जीवमानं कदाचन
ब्राह्मश्च वेदकामानां ज्याशब्दश्च धनुष्मताम्
अस्त्रं चतुष्पात् सकलं यस्मिन्नासीत् प्रतिष्ठितम्
तमिष्वासवराचार्यं द्रोणं जघ्नुः कथं रथाः
नाहं मन्ये हतं द्रोणं स हि लोकमयोत्स्यत
को हि शक्तो रणे जेतुमनाधृष्ययशोबलम्
ब्रह्मकल्पो भवेद्ब्राह्मे क्षात्रे नारायणोपमः
ब्रह्मक्षत्रे च यस्यास्तां वशे स्थाणोरिवाखिले
सर्वान्हि मामकान्वीरान्सहाश्वरथकुञ्जरान्
युधिष्ठिरस्य तपसा हतान्मन्यामहे कुरून्
केऽरक्षन्दक्षिणं चक्रं के सव्यं के च पृष्ठतः
पुरस्तात्के च वीरस्य युध्यमानस्य संयुगे
के नु तत्र तनुं त्यक्त्वा प्रतीपं मृत्युमाव्रजन्
द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम्
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय
यथाशक्ति च युद्ध्येत द्विषद्भिस्स्वांश्च पालयेत्
कच्चिन्नैनं भयात्क्षुद्राः पार्थेभ्यः प्रददू रणे
गोप्तृभिस्तैस्समुत्सृष्टः कच्चिन्नैष परैर्हतः
धृष्टद्युम्नं प्रपश्यामि निघ्नन्तमिव ब्राह्मणम्
वार्यमाणं रणे तात द्रौणिनाऽमिततेजसा
मुह्यते मे मनस्तात मा तावत्किञ्चिदुच्यताम्
भूयस्तु लब्धसञ्ज्ञस्सन् परिप्रक्ष्यामि सञ्जय