सञ्जयः-
तथा द्रोणमरीन्घ्नन्तं साश्वसूतरथद्विपान्
व्यथिताः पाण्डवा राजन् न चैनं पर्यवारयन्
ततो युधिष्ठिरो राजा धृष्टद्युम्नधनञ्जयौ
अब्रवीत्सर्वतो यत्नात् कुम्भयोनिर्निवार्यताम्
तत्रैनमर्जुनश्चैव धृष्टद्युम्नश्च पार्षतः
ये चान्ये पार्थिवा राजन्पाण्डवस्यानुसैनिकाः
पर्यगृह्णंस्ततस्तत्र समागच्छन्महारथाः
केकया भीमसेनश्च सौभद्रश्च घटोत्कचः
युधिष्ठिरो यमौ मात्स्यो द्रुपदश्चात्मजैस्सह
द्रौपदेयाश्च संहृष्टा धृष्टकेतुस्ससात्यकिः
चेकितानश्च सङ्क्रुद्धो युयुत्सुश्च महारथः
ये चान्ये पार्थिवा राजन्पाण्डवस्यानुयायिनः
बलवीर्यानुरूपाणि चक्रुः कर्माण्यशेषतः
सम्भिद्यमानां तां दृष्ट्वा पाण्डवैर्वाहिनीं रणे
व्यावृत्य चक्षुषी कोपाद्भारद्वाजोऽन्ववैक्षत
स तीव्रं वेगमास्थाय विष्वग्वात इवोत्थितः
व्यधमत्पाण्डवानीकं महाभ्राणीव मारुतः
रथानश्वान्नरान्नागानभ्यधावत्समन्ततः
चचारोन्मत्तवद्द्रोणो वृद्धोऽपि तरुणो यथा
तस्य शोणितदिग्धाङ्गाश्शोणाः पवनरंहसः
आजानेया हया राजन्नभ्रमन्वै शिवं पुनः
तमन्तकमिव क्रुद्धमापतन्तं यतव्रतम्
दृष्ट्वा सम्प्राद्रवन्योधाः कौन्तेयस्य ततस्ततः
तेषां प्राद्रवतां भीमः पुनरावर्ततामपि
वीक्षतां तिष्ठतां चासीच्छब्दः परमदारुणः
शूराणां हर्षजननो भीरूणां भयवर्धनः
द्यावापृथिव्योर्विवरं समालम्बत स स्वनः
ततः पुनरपि द्रोणो नाम विश्राव्य चात्मनः
अकरोद्रौद्रमात्मानं किरञ्छरशतैः परान्
स तथा पाण्डवेयस्य तान्यनीकानि भारत
कालवन्नहनद्द्रोणो युवेव स्थविरो बली
उत्कृत्य तु शिरांस्युग्रो बाहूनपि सुभूषणान्
कृत्वा शून्यान्रथोपस्थानुदक्रोशन्महारवान्
तस्य हर्षप्रणादेन बाणवर्षेण चाभि भो
अकम्पन्त रणे योधा मूत्रं चापि प्रसुस्रुवुः
द्रोणस्य रथघोषेण मौर्वीनिष्पेषणेन च
धनुश्शब्देन चाकाशे शब्दस्समभवन्महान्
अथास्य धनुषो बाणा निस्सरन्तस्सहस्रशः
व्याप्य सर्वा दिशः पेतुर्नागाश्वरथपत्तिषु
तं कार्मुकमहावेगमस्त्रज्वलितपावकम्
द्रोणमासादयाञ्चक्रुः पाञ्चालाः पाण्डवैस्सह
सनागरथपत्त्यश्वान्प्राहिणोद्यमसादनम्
अचिरादकरोद्द्रोणो महीं शोणितकर्दमाम्
तन्वता परमास्त्राणि शरान्सततमस्यता
द्रोणेन विहितं दिक्षु बाणजालमदृश्यत
पदातिषु रथाश्वेषु वारणेषु च सर्वशः
तस्य विद्युदिवाभ्रेषु चरन्केतुरदृश्यत
स केकयानां प्रवरांश्च पञ्च पाञ्चालराजं च शरैः प्रमथ्य
युधिष्ठिरानीकमदीनसत्वो द्रोणोऽभ्ययात्कार्मुकबाणपाणिः
तं भीमसेनश्च धनञ्जयश्च शिनेश्च नप्ता द्रुपदात्मजश्च
तथाऽऽर्जुनिः काशिपतिश्च शैब्यो हृष्टा नदन्तो व्यकिरञ्छरौघैः
तेषां शरा द्रोणशरैर्निकृत्ता भूमावदृश्यन्त विवर्तमानाः
श्रेणीकृतास्संयति मोघवेगा द्वीपे नदीनामिव काशरोहाः
ते द्रोणबाणासनविप्रमुक्ताः पतत्रिणः काञ्चनचित्रपुङ्खाः
भित्त्वा शरीराणि गजाश्वयूनां जग्मुर्महीं बर्हिणबर्हवाजाः
सा योधसङ्घैश्च रथैश्च भूमिश् शरैर्विभिन्नैर्गजवाजिभिश्च
प्रच्छाद्यमाना सहसा बभूव समावृता द्यौरिव लोहिताभ्रैः
शैनेयभीमार्जुनवाहिनीपाञ्छैब्याभिमन्यू च सकाशिराजौ
अन्यांश्च वीरान्सहसा प्रमृद्गाद्द्रोणस्सुतानां तव भूतिकामः
एतानि चान्यानि च भारतेन्द्र कर्माणि कृत्वा समरे महान्ति
प्रताप्य लोकानिव कालसूर्यो द्रोणो गतस्स्वर्गमितो हि राजन्
एवं रुक्मरथश्शूरो हत्वा शतसहस्रशः
पाण्डवानां रणे योधान्पार्षतेन निपातितः
अक्षौहिणीमभ्यधिकां शूराणामनिवर्तिनाम्
निहत्य पश्चाद्युतिमानगच्छत्परमां गतिम्
पाण्डवैस्सहपाञ्चालैरशिवैः क्रूरकर्मभिः
हतो रुक्मरथो राजन्कृत्वा कर्म सुदुष्करम्
हा हा दिगिति भूतानां शब्दस्समभवन्महान्
देवाश्च पितरश्चैव पूर्वे ये चास्य मानवाः
ददृशुर्निहतं तत्र भारद्वाजं महारथम्
पाण्डवास्तु जयं लब्ध्वा सिंहनादान्प्रचक्रिरे
ततो निनादो भुतानामाकाशे समपद्यत
सैन्यानां च ततो राजन्नाचार्ये निहते युधि
धरां व्योम दश दिशः प्दिशश्चान्वनादयत्
तेन नादेन महता समकम्पत मेदिनी
विचित्रजाम्बूनदभूषितध्वजं महारथं रुक्मरथं निपातितम्
निशम्य कश्चिद्धि न हर्षमेयिवानृते मृधे द्रुपदसुतात्सृञ्जयात्