सञ्जयः-
सैनापत्यं तु सम्प्राप्य भारद्वाजो महारथः
युयुत्सुर्व्यूह्य सैन्यानि प्रायात्तव सुतैस्सह
सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजः
दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः
प्रपक्षं शकुनिस्तेषां प्रवरैर्हयसादिभिः
ययौ गान्धारकैस्सार्धं विमलप्रासयोधिभिः
कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः
दुःशासनमुखा यत्तास्सव्यं पक्षमपालयन्
तेषां पक्षप्रपक्षाश्च सुदक्षिणपुरस्सराः
ययुरश्वैर्महावेगैश्शकाश्च यवनैस्सह
अङ्गास्त्रिगर्तास्साम्बष्ठाः प्रतीच्योदीच्यवासिनः
शिबयश्शूरसेनाश्च पल्लाश्च मलदैस्सह
सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः
तवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः
हर्षयन् स्वसैन्यानि बलेषु बलमादधत्
ययौ वैकर्तनः कर्णः प्रमुखः सर्वधन्विनाम्
तस्य दीप्तो महाकायस्स्वान्यनीकानि हर्षयन्
हस्तिकक्ष्यो महाकेतुर्बभौ सूर्यसमद्युतिः
न भीष्मव्यसनं कश्चिद्दृष्ट्वा कर्णममन्यत
विशोकास्समपद्यन्त राजानः कुरुभिस्सह
हृष्टाश्च बहवो योधास्तत्राजल्पन्ति संयुगे
योधाः-
न हि कर्णं रणे दृष्ट्वा जये स्थास्यन्ति पाण्डवाः
कर्णो हि समरे शक्तो जेतुं देवानपि ध्रुवम्
भीष्मेण समरे पार्थाः पालिता बलशालिना
किं पुनः पाण्डवान्युद्धे हीनवीर्यपराक्रमान्
तांस्तु कर्णश्शरैस्तीक्ष्णैर्नाशयिष्यत्यसंशयम्
सञ्जयः-
एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशाम्पते
राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः
अस्माकं शकटव्यूहो द्रोणेन विहितोऽभवत्
परेषां क्रौञ्च एवासीद्व्यूहो राजन्महात्मनाम्
प्रीयमाणेन विहितो धर्मराजेन मारिप
व्यूहप्रमुखतस्तेषां आस्थितौ भरतर्षभ
वानरध्वजमुच्छ्रित्य विष्वक्सेनधनञ्जयौ
ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम्
आदित्यपथगः केतुः पार्थस्यामिततेजसः
दीपयामास तत्सैन्यं पाण्डवस्य महात्मनः
यथा प्रज्वलितस्सूर्यो युगान्ते वै वसुन्धराम्
अस्यतामर्जुनश्श्रेष्ठो गाण्डीवं धनुषां वरम्
वासुदेवश्च भूतानां चक्राणां च सुदर्शनम्
चत्वार्येतानि तेजांसि वहञ्श्वेतहयो रथः
परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम्
एवमेतौ महात्मानौ बलसागरगावुभौ
तावकानां मुखं कर्णः परेषां तु धनञ्जयः
यौ तौ जाताभिसंरम्भौ परस्परवधैषिणौ
दृष्ट्वाऽन्योन्यं रणे कोपात् पेततुः कर्णपाण्डवौ
सम्प्रयाते तु सहसा भारद्वाजे महारथे
सिंहनादेन महता वसुधा समकम्पत
ततस्तुमुलमाकाशमावृणोत्सदिवाकरम्
वातोद्धूतं रजस्तीव्रं कौशेयनिकरोपमम्
अनभ्रे वर्षति व्योम्नि मांसास्थिरुधिराण्युत
गृध्राः कङ्का बलश्येना वायसाश्च सहस्रशः
उपर्युपरि सेनां ते तदा पर्यपतन्नृप
गोमायवश्च प्राक्रोशन्भैरवा दारुणस्वराः
अकार्षुरपसव्यं च पृतनां बहुशस्तव
चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम्
अपतन्दीप्यमानाश्च निर्घाताश्च सुदारुणाः
उल्का ज्वलन्त्यस्सेनां ते उच्चैरावृत्य सर्वशः
परिवेषो महांश्चैव सविद्युत्स्तनयित्नुमान्
भास्करस्याभवद्राजन्प्रयाते वाहिनीपतौ
एते चान्ये च बहवः प्रादुरासन्सुदारुणाः
उत्पातास्तव सेनायां प्रयाते सत्यविक्रमे
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम्
कुरुपाण्डवयोधानां शब्देनापूरयज्जगत्
ते त्वन्योन्यं समारब्धाः पाण्डवास्सह कौरवैः
अभ्यघ्नन्निशितैः शस्त्रैर्जयगृद्धाः प्रहारिणः
स पाण्डवानां महतीं महेष्वासो महाद्युतिः
वेगेनाभ्यद्रवत्सेनां किरञ्शरशतैश्शितैः
द्रोणमभ्यागतं दृष्ट्वा पाण्डवास्सहसृञ्जयैः
प्रत्यगृह्णंस्तदा राजञ्छरवर्षैः पृथक्पृथक्
सङ्क्षोभ्यमाणा द्रोणेन भिद्यमाना च सा चमूः
व्यशीर्यत सपाञ्चाला वातेनेव बलाहकाः
बहून्यपि विकुर्वाणो दिव्यान्यस्त्राणि संयुगे
अपीडयत्क्षणेनैव द्रोणः पाण्डवसृञ्जयान्
ते हन्यमाना द्रोणेन वासवेनेव दानवाः
पाञ्चालास्समकम्पन्त धृष्टद्युम्नपुरोगमाः
ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महाबलः
अच्छिनच्छरवर्षेण द्रोणानीकमनेकधा
द्रोणस्य शरवर्षाणि शरवर्षेण पार्षतः
सन्निवार्य ततस्सर्वान्कुरूनप्यपतद्बली
सङ्गृह्य तु ततो द्रोणस् समवस्थाप्य चाहवे
स्वमनीकं महाबाहुः पार्षतं समभिद्रवत्
स तु बाणमयं वर्षमसृजत्पार्षतं प्रति
मघवान्समभिक्रुद्धस्सहसा दानवेष्विव
ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः
पुनःपुनरभज्यन्त सिंहेनेवेतरे मृगाः
अथ पर्यपतद्द्रोणः पाण्डवानामनीकिनीम्
अलातचक्रवद्राजंस्तदद्भुतमिवाभवत्
खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या पवनचलपताकं ह्लादिनं वल्गिताश्वम्
स्फटिकविमलकेतुं तापनं शात्रवाणां रथवरमधिरूढश्शत्रुसेनां जगाहे