सञ्जयः-
रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णमवस्थितम्
हृष्टो दुर्योधनो राजा कर्णं वचनमब्रवीत्
दुर्योधनः-
सनाथमिव मेऽत्यर्थं भवता पालितं बलम्
मन्ये किन्तु तदेतद्वै यद्धितं तत्प्रधार्यताम्
कर्णः-
ब्रूहि तत्पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृषु
यथा चार्थपतिः कृत्यं पश्यते न तथेतरः
वयं सर्वे तव वचश्श्रोतुकामा नरेश्वर
तस्यायं हि भवान्वाक्यं ब्रूयादिति मतिर्मम
दुर्योधनः-
भीष्मस्सेनाप्रणेताऽऽसीद्वयसा विक्रमेण च
श्रुतेन च सुसम्पन्नस्सर्वैर्योधगणैस्सह
तेनातिरथिना कर्ण घ्नता शत्रुगणान्मम
सुयुद्धेन दशाहानि पालितास्स्म महात्मना
तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम्
कं नु सेनाप्रणेतारं मन्यसे तदनन्तरम्
ऋते तु नायकं सेना मुहूर्तं नावतिष्ठते
आहवेषु विशेषेण भ्रष्टनेत्रेष्विवाञ्जनम्
आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले
यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा
द्रवेद्यथेष्टं तद्वत्स्यादृते सेनापतेर्बलम्
स भावन्वीक्ष्य सर्वेषु मामकेषु महात्मसु
पश्य सेनापतिं युक्तमनुशास्तु भवानिह
यं हि सेनाप्रणेतारं भवान्वक्ष्यति संयुगे
तं वयं सहितास्सर्वे प्रकरिष्याम नायकम्
कर्णः-
सर्व एव महात्मान इमे पुरुषसत्तमाः
सेनापतित्वमर्हन्ति नात्र कार्या विचारणा
कुलसंहननज्ञानबलविक्रमबुद्धिभिः
युक्ताः श्रुतज्ञा ह्रीमन्त आहवेष्वनिवर्तिनः
युगपन्न तु ते शक्याः कर्तुं सर्वे पुरस्सराः
एक एवात्र कर्तव्यो यस्मिन्वैशेषिका गुणाः
अन्योन्यस्पर्धिनां तेषां यद्येकं त्वं करिष्यसि
शेषा विमनसोऽत्यर्थं न योत्स्यन्तीह भारत
अयं तु सर्वसैन्यानामाचार्यस्स्थविरो गुरुः
युक्तस्सेनापतित्वाय द्रोणश्शस्त्रभृतां वरः
को हि तिष्ठति सङ्ग्रामे द्रोणे ब्राह्मणपुङ्गवे
सेनापतिरिहान्योऽस्माच्छुक्राङ्गिरसदर्शनात्
न च स ह्यस्ति योधस्ते सर्वराजसु भारत
यो द्रोणं समरे यान्तमनुयास्यति संयुगे
एष सेनाप्रणेतॄणामेष शस्त्रभृतां वरः
एष बुद्धिमतां श्रेष्ठो ब्राह्मणस्थविरो गुरुः
एनं दुर्योधनाचार्यमाशु सेनापतिं कुरु
जिगीषन्तोऽसुरान्सङ्ख्ये कार्तिकेयमिवामराः
सञ्जयः-
कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा
सेनामध्यगतं द्रोणमिदं वचनमब्रवीत्
दुर्योधनः-
वर्णश्रैष्ठ्यात्कुलोत्पत्त्या श्रुतेन वयसा धिया
वीर्याद्दाक्ष्यादधृष्यत्वादर्थज्ञानान्नयान्वयात्
तपसा च कृतज्ञत्वाद्वृद्धस्सर्वगुणैस्तथा
युक्तो भवत्समो गोप्ता राज्ञामन्यो न विद्यते
स भवान्पातु नस्सर्वान्विबुधानिव वासवः
त्वाया नेत्रा पराञ्जेतुमिच्छामो द्विजसत्तम
रुद्राणामिव कापालिर्वसूनामिव पावकः
कुबेर इव यक्षाणां मरुतामिव वासवः
वसिष्ठ इव विप्राणां तेजसामिव भास्करः
पितॄणामिव धर्मोऽथ आदित्यानामिवाम्बुराट्
नक्षत्राणामिव शशी वीरुधामंशुमानिव
सर्वेषामिव लोकानां विश्वस्य च यथा क्षयः
विश्वोत्पत्तिस्थितिलये श्रेष्ठो नारायणः प्रभुः
एवं सेनाप्रणेतॄणां मम सेनापतिर्भव
एकादशेमा वशगा अक्षौहिण्यस्तवानघ
ताभिश्शत्रून्प्रतिव्यूह्य जहीन्द्रो दितिजानिव
प्रयातु स भवानग्रे देवानामिव पावकिः
अनुयास्यामहे त्वाऽऽजौ सौरभेया इवर्षभम्
उग्रधन्वा महेष्वासो दिव्यं विष्फारयन्धनुः
दृष्ट्वा भवन्तं सङ्ग्रामे नार्जुनः प्रसहिष्यते
ध्रुवं युधिष्ठिरं सङ्ख्ये ससैन्यं सहबान्धवम्
जेतास्मि पुरुषव्याघ्र भवान्सेनापतिर्यदि
सञ्जयः-
एवमुक्ते ततो द्रोणे जयेत्यूचुर्नराधिपाः
सिंहनादेन संहृष्टा हर्षयन्तस्तवात्मजम्
वेगिताश्च मुदा युक्ता वर्धयन्तो द्विजोत्तमम्
दुर्योधनं पुरस्कृत्य प्रार्थयन्तो महद्यशः
द्रोणः-
वेदान् षडङ्गान् वेदाहमर्थविद्यां च मानवीम्
त्रैय्यम्बकमथेष्वस्त्रं अस्त्राणि विविधानि च
ये चाप्युक्ता मयि गुणा भवद्भिर्जयकाङ्क्षिभिः
चिकीर्षुस्तानहं सत्यान्योधयिष्यामि पाण्डवान्
सञ्जयः-
एवमुक्तोऽभ्यनुज्ञातश्चक्रे सेनापतिं ततः
द्रोणं तव सुतो राजन्विधिदृष्टेन कर्मणा
अथाभिषिषिचुर्द्रोणं दुर्योधनमुखा नृपाः
स्वस्तिवादरवैश्चान्यैश् श्लक्ष्णैश्चान्यैर्मनोरमैः
यथा सेनापतिं स्कन्दं पुरा शक्रमुखास्सुराः
ततो वादित्रघोषेण सह पुंसां महात्मनाम्
प्रादुरासीत् ततो द्रोणे कृते सेनापतौ रवः
ततः पुण्याहघोषेण साशीर्वादस्वनेन च
सूतमागधवन्दिनां संस्तवैर्गीतमङ्गलैः
जयशब्दैर्मनोज्ञैश्च नर्तनैस्तत्र तं प्रति
सत्कृत्य विधिवद्द्रोणं जितान्मन्यन्त पाण्डवान्