सञ्जयः-
शरतल्पे महात्मानं शयानममितौजसम्
महावातसमुत्थेन समुद्रमिव शोषितम्
उत्साद्य चाखिलामुर्वीं सर्वक्षत्रान्तकं गुरुम्
दिव्यैरस्त्रैर्महेष्वासं पातितं सव्यसाचिना
जयाशां धार्तराष्ट्राणां सम्भग्नां शर्म वर्म नः
अपाराणामिव द्वीपमगाधे गाधमिच्छताम्
स्रोतसा यामुनेनेव शरौघेण परिप्लुतम्
महान्तमिव मैनाकमिन्द्रेणेव च पातितम्
नभश्च्युतमिवादित्यं शक्रस्येवामृतं हृतम्
शतक्रतोरिवाचिन्त्यं सहस्राक्षस्य निर्जयम्
मोहनं सर्वलोकस्य युधि भीष्मं निपातितम्
ककुदं सर्वसैन्यानां लक्ष्यं सर्वधनुष्मताम्
धनञ्जयशरव्याप्तं वृद्धं कुरुपितामहम्
तं वीरशयने ज्येष्ठे शयानं पुरुषर्षभम्
कर्णस्त्वतिरथं दृष्ट्वा भरतानां पितामहम्
प्रस्कन्द्य स रथात्तूर्णं शोकमोहपरिप्लुतः
पन्द्यामेव जगामार्तो बाष्पव्याकुललोचनः
अभिवाद्याञ्जलिं कृत्वा वन्दमानोऽभ्यभाषत
कर्णः-
कर्णोऽहमस्मि भद्रं ते अद्य मां वद भारत
पुण्यया क्षेमया वाचा चक्षुषा चावलोकय
न नूनं सुकृतस्येह फलं कश्चित्समश्नुते
यत्र धर्मपरो वृद्धश् शेते भुवि भवानिह
कोशसञ्जनने मन्त्रे व्यूहे प्रहरणेषु च
नाहमन्यं प्रपश्यामि कुरूणां कुरुसत्तम
बुद्ध्या विशुद्धया युक्तो यः कुरूंस्तारयेद्भयात्
सोऽस्मांस्त्वमप्लवे हित्वा पितृलोकं गमिष्यसि
अद्यप्रभृति सङ्क्रुद्धा व्याघ्रा इव मृगक्षयम्
पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षयम्
अद्य गाण्डीवघोषेण वीर्यज्ञास्सव्यसाचिनः
कुरवस्सन्त्रसिष्यन्ति वज्रघोषादिवासुराः
अद्य गाण्डीवमुक्तानामशनीनामिव स्वनः
निपातश्शरधाराणां कुरून्सन्त्रासयिष्यति
अग्नेरिव समिद्धस्य महाज्वाला वने द्रुमान्
धार्तराष्ट्रान्प्रवक्ष्यन्ति तथा बाणाः किरीटिनः॥
येन येन प्रवहति वायुरग्निर्महावने
तेन तेन प्रदहति भगवान् वायुतेजसा
यादृगग्निस्समिद्धो हि तादृक्पार्थो धनञ्जयः
तादृगेव हि कौन्तेय दवाग्निरिव पर्वते
यथा वायुर्नरव्याघ्र तथा कृष्णो न संशयः
निर्दहन्तमनीकानि प्रधक्ष्यति जनार्दनः
सूर्यचन्द्रप्रकाशस्य पूर्यमाणस्य विष्णुना
नदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च
श्रुत्वा सर्वाणि भूतानि वित्रस्यन्त्यमितौजसः
कपिध्वजस्य चापस्य रथस्यामित्रकर्शिनः
शब्दं सोढुं न शक्ष्यन्ति त्वामृते सर्वपार्थिवाः
को ह्यर्जुनं रणे योद्धुं त्वदन्यः पार्थिवोऽर्हति
यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः
अमानुषश्च सङ्ग्रामस् त्र्यम्बकेण च धीमतः
तस्माच्चैव वरः प्राप्तो दुष्प्रापश्चाकृतात्मभिः
को हि शक्तो रणे जेतुं पूर्वं यो न जितस्त्वया
जितो हि च रणे रामो भवता रणशालिना
क्षत्रियान्तकरो घोरो देवदेवेन पूजितः
अहं ह्येकः पाण्डवं युद्धशौण्डममृष्यमाणो भवताऽनुशिष्टः
आशीविषं दृष्टिविषो यथोरगश् शक्ष्याम्येनं ह्यस्त्रबलेन हन्तुम्