सञ्जयः-
श्रुत्वा तु कर्णः पुरुषेन्द्रमच्युतं निपातितं शान्तनवं रिपुघ्नम्
अथोपायात्तूर्णममित्रघाती धनुर्धराणां प्रवरः क्षितौ रुषा
हतं भीष्मं चातिरथिर्विदित्वा भिन्नां नावं वारिधावत्यगाधे
सोदर्यवद्व्यसनात्सूतपुत्रस् सन्तारयिष्यंस्तव पुत्रसेनाम्
हते तु भीष्मे रथसत्तमे तदा निमज्जतीं नावमिवार्णवे कुरून्
पितेव पुत्रांस्त्वरितोऽभ्यगात्तदा सन्तारयिष्यंस्तव पुत्रस्य सेनाम्
सम्मृज्य दिव्यं धनुराततज्यं स रामदत्तं रिपुसङ्घहन्ता
बाणांश्च कालानलवायुकल्पानुल्लालयन्वाक्यमिदं बभाषे॥
कर्णः-
यस्मिन्धृतिर्धर्मदमौ बलं ह्रीस्सत्यं च दानं च पराक्रमश्च
शस्त्राणि दिव्यान्यथ सन्नतिश्श्रीर् धीश्चापि भीष्मे नियतास्सदैव
ब्रह्मद्विपघ्ने सततं कृतज्ञे सनातनी चान्द्रमसीव लक्ष्मीः
स चेत्प्रशान्तः परवीरहन्ता सर्वानन्यानातुरानद्य मन्ये
नेह ध्रुवं किञ्चन जातु विद्यते अस्मिल्ँलोके कर्मणोऽनित्ययोगात्
सूर्योदये को हि विमुक्तसंशयो भावं कुर्वीताद्य महाव्रते हते
वसुप्रभावे वसुवीर्यसम्भवे गते वसूनेव वसुन्धराधिपे
वसूनि पुत्रांश्च वसुन्धरां तथा कुरूंश्च शोचध्वमिमां च वाहिनीम्
सञ्जयः-
महाप्रभावे वरदे निपातिते लोकज्येष्ठे शान्तवनेऽमितौजसि
पराजितेषु भरतेषु दुर्मनाः पराजितो निश्वसन्नश्ववर्तयत्
इदं तु राधेयवचो निशम्य ते सुताश्च राजंस्तव सैनिकाश्च ये
परस्परं चुक्रुशुरम्बु चार्तिजं तदाऽश्रु नेत्रैर्मुमुचुर्हि शब्दवत्
प्रवर्तमाने तु महारवे तदा महारथानां च मदे समुत्थिते
अथाब्रवीद्धर्षकरं वचस्तदा रथर्षभान्सर्वमहारथर्षभः
कर्णः-
जगत्यनित्ये सततं प्रधाविते विचिन्तयन्नस्थिरमद्य लक्षये
भवत्सु तिष्ठत्स्विह पातितो रणे गिरिप्रकाशः कुरुपुङ्गवः परैः
निपातिते शान्तनवे नरर्षभे दिवाकरे भूतलमाश्रिते यथा
न पार्थिवास्सोढुमलं धनञ्जयं गिरिप्रवोढारमिवानिलं द्रुमाः
हतप्रधानं त्विदमार्तमातुरं परैरभिग्रस्तमनाथवद्द्रुतम्
मया कुरूणां परिपाल्यमाहवे बलं तथा तेन महात्मना यथा
समाहितं चात्मनि भारमीदृशं जगत्तथाऽनित्यमहं च लक्षये
निपातितं चाहवशौण्डमाहवे कथं नु कुर्यामहमाहवे भयम्
अहं हि तं कुरुवृषभं महाबलं प्रधावितं यमसदनं विचिन्तयन्
यशः परं जगति विभाव्य वर्तये परैर्हतस्स इव भवामि वा पुनः
युधिष्ठिरो धृतिमतिसत्यसत्ववान् वृकोदरो गजशततुल्यविक्रमः
अथार्जुनस्त्रिदशवरात्मजो यतो न तद्बलं सुजयमिहामरैरपि
यमौ रणे यत्र यमोपमौ बले ससात्यकिर्यत्र च देवकीसुतः
न तद्बलं कः पुरुषोऽभ्युपेयिवान्निवर्तते मृत्युमुखादिवासकृत्
तपोऽभ्युदीर्णं तपसैव धार्यते बलं बलेनाप्यरिणा मनस्विना
मनश्च मे शत्रुनिवारणे ध्रुवं स्वरक्षणे चाचलवद्व्यवस्थितम्
एवं तेषां जायमानः प्रभावं गन्ता चाहं ताञ्जयायैव सूत
मित्रद्रोहो मर्षणीयो न मे स्यात् भग्ने सैन्ये यस्सहायास्स मित्रम्
आहुर्ह्येतत्सत्पुरुषस्य कर्म त्यक्त्वा प्राणान्योधयेद्यत्सपत्नैः
सर्वाञ्शत्रूनाहवेऽहं हनिष्ये तैर्वा हतो मृत्युलोकं गमिष्ये
विप्रक्रुष्टे रुदितस्त्रीकुमारे पराजिते पौरुषे धार्तराष्ट्रे
मया कार्यं साह्यमद्यैव सूत तस्माच्छत्रून्धार्तराष्ट्रस्य ज्येष्ये
कुरून्रक्षन्पाण्डुपुत्राञ्जिघांसंस्त्यक्त्वा प्राणाननुयास्यामि भीष्मम्
सर्वान् वाऽहं शत्रुसङ्घान्विजित्य तस्मै दास्ये धार्तराष्ट्राय राज्यम्
निबध्यतां मे कवचं विचित्रं हैमं चित्रं मणिमत् स्वावभासि
शिरस्त्राणं चार्कसमानभासं धनुश्शरांश्चापि विषाग्निकल्पान्
उपासङ्गान्षोडश योजयन्तु धनूंषि दिव्यानि समाहरन्तु
असीञ् शतघ्नीश्च गदाश्च गुर्वीश् शङ्खं च जाम्बूनदचित्रनाभम्
स्फीतां रौक्मीं नागकक्ष्यां विचित्रां छत्रं श्वेतं ध्वजमिन्दीवराभम्
श्लक्ष्णैर्वस्त्रैर्विप्रमृज्यानयस्व चित्रां मालां तत्र वध्वा सजालाम्
अश्वानग्र्यान्पाण्डुराभ्रप्रकाशान् पुष्टान्स्नातान्मन्त्रपूताभिरद्भिः
तप्तैर्भाण्डैः काञ्चनैरभ्युपेतान् शीघ्राञ्शीघ्रं सूतपुत्रानयस्व
रथं चाग्र्यं हेममालावनद्धं रत्नैश्चित्रं चन्द्रसूर्यप्रकाशैः
द्रव्यैर्युक्तं सम्प्रहारोपपन्नैर्वाहैर्युक्तं तूर्णमावर्तयस्व
चित्राणि चापानि च वेगवन्ति ज्याश्चोत्तमास्सन्नहनोपपन्नाः
तूणानि पूर्णानि च मर्मभिद्भिरासज्य तत्रावरणानि चैव
प्रायात्रिकं चानय सर्वमासु पूर्णं कान्त्या वीरकांस्यं च हैमम्
आनीय मालामवबध्य चाङ्गे प्रवादयित्वा विजयाय भेरीम्
प्रयाहि सूताशु यतः किरीटी वृकोदरो धर्मसुतो यमौ च
तान्वा हनिष्यामि समेत्य सङ्ख्ये भीष्माय वैष्यामि हतो द्विषद्भिः
यत्र राजा सत्यधृतिर्युधिष्ठिरस् समास्थितो भीमसेनार्जुनौ तौ
वासुदेवस्सात्यकिस्सृञ्जयाश्च यमौ पाञ्चालाः केकयाश्चैव सर्वे
तिष्ठेन्मृत्युस्सर्वहरोऽभिरक्षन्कथं प्रमत्तस्समरे किरीटिनम्
तं वा हनिष्यामि समेत्य सङ्ख्ये यास्यामि वा भीष्ममुखो यमाय
न त्वेव चाहं न गमिष्यामि तेषां मध्ये शूराणां तच्च सत्यं ब्रवीमि
मित्रद्रुहो दुर्बलभक्तयो ये पापात्मानो मम न स्युस्सहायाः
सञ्जयः-
तं सिद्धिमन्तं दृढमुत्तमं रथं सकूबरं हेमपरिष्कृतं शुभम्
पताकिनं वातजवैर्हयोत्तमैर्युतं समास्थाय ययौ जयाय
सम्पूज्यमानः कुरुभिर्महात्मा रथर्षभो पाणडववाजिवाहः
ययौ तदायोधनमुग्रधन्वा यत्रावसानं भरतर्षभस्य
वरूथिना महता सध्वजेन सुवर्णमुक्तामणिवज्रशालिना
सदश्वयुक्तेन रथेन कर्णो मृधे घनेनार्क इवाबभासे
हुताशनाभस्स हुताशनप्रभे शुभश्शुभे धनुर्धरे रथे
स्थितो रराजातिभृशं महारथो यथा विमाने सुरराडिवास्थितः