जनमेजयः-
तमप्रतिमसत्वौजोबलवीर्यपराक्रमम्
हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना
धृतराष्ट्रस्तदा राजा शोकव्याकुललोचनः
किमचेष्टत विप्रर्षे हते पितरि वीर्यवान्
तस्य पुत्रो हि भगवन्भीष्मद्रोणमुखै रथैः
पराजित्य महेष्वासान्पाण्डवान्राज्यमिच्छति
तस्मिन्हते तु भगवन्केतौ सर्वधनुष्मताम्
यदचेष्टत कौरव्यस्तन्मे ब्रूहि द्विजोत्तम
वैशम्पायनः-
श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम्
पुत्राणां जयमाकाङ्क्षन् विललाप सुदुःखितः
निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः
लेभे न शान्तिं कौरव्यश्चिन्ताशोकपरायणः
तस्य चिन्तयतो दुःखमनिशं कौरवस्य तत्
आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा
व्यासप्रसादाद्विज्ञाय सर्ववृत्तान्तमुत्तमम्
सैनिकानां च सर्वेषां सेनयोरुभयोरपि
शिबिरात्सञ्जयं प्राप्तं निशि नागाह्वयं पुरम्
आम्बिकेयो माहारज धृतराष्ट्रोऽन्वपृच्छत
धृतराष्ट्रः-
सङ्काल्य तु महात्मानं भीष्मं भीमपराक्रमम्
किमचेष्टन् परं तात कुरवः कालचोदिताः
तस्मिन्तु निहते वीरे भीष्मे युधि महौजसि
कस्य स्म कुरवोऽस्मार्पुर्निमग्नाश्शोकसागरे
तदुदीर्णं महत्सैन्यं त्रैलोक्यस्यापि सञ्जय
भयमुत्पादयेत्तीव्रं पाण्डवानां महात्मनाम्
देवव्रते तु निहते कुरूणामृषभे तदा
किमकुर्वन्नृपतयस्तन्ममाचक्ष्व सञ्जय
सञ्जयः-
शृणु राजन्नेकमना वचनं ब्रुवतो मम
यत्ते पुत्रास्तदाकार्षुर्हते देवव्रते मृधे
निहते तु तदा सङ्ख्ये भीष्मे सत्यपराक्रमे
तावकाः पाण्डवेयाश्च प्रवदन्तः पृथक्पृथक्
विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्मं निशाम्य ते
श्रुत्वा धर्मानुपादाय प्रणिपत्य महात्मने
शयनं कल्पयामासुर्भीष्मायामिततेजसे
सोपधानं नरव्याघ्र शरैस्सन्नतपर्वभिः
विधाय रक्षां भीष्माय प्रणिपत्य पितामहम्
अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम्
क्रोधसंरक्तनयनास्समवेत्य परस्परम्
पुनर्युद्धाय सञ्जग्मुः क्षत्रियाः कालचोदिताः
ततस्तूर्यनिनादैश्च भेरीणां च महास्वनैः
तावकानामनीकानि परेषां चापि निर्ययुः
तस्मिन्नहनि राजेन्द्र पतिते शन्तनोस्सुते
अमर्षवशमापन्नाः कालोपहतचेतसः
अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः
निर्ययुर्भरतश्रेष्टाश्शस्त्राण्यादाय सर्वशः
मोहात्तव च पुत्रस्य वधाच्छान्तनवस्य च
कौरवा मृत्युनाऽऽज्ञप्तास्सहितास्सर्वराजभिः
अजा इय वने गोपान् विना श्वापदसङ्कुले
कर्ण कर्णेति चाक्रुश्य शेषा भारत तावकाः
भृशमुद्विग्नमनसो हीना देवव्रतेन ते
पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी
द्यौरिवापेतनक्षत्रा हीनं खमिव भानुना
विपन्नसस्येव मही वाक्चैवासंस्कृता यथा
आसुरीव रणे सेना निगृहीते पुरा बलौ
विधवा तु यथा नारी शुष्कतोयेव निम्नगा
वृकैरिव वने रुद्धा पृषती हतयूथपा
यथा सिंहे विनिष्क्रान्ते पर्वतस्येव कन्दरा
सा सेना भरतश्रेष्ठे पतिते जाह्नवीसुते
विष्वग्वातहता क्षुब्धा नौरिवासीन्महार्णवे
बलिभिः पाण्डवैर्दृप्तैर्लब्धलक्षैर्भृशार्दिता
सा तथा निहता सेना व्याकुलाश्वरथद्विपा
विषण्णभूयिष्ठनरा कृपणा द्रष्टुराबभौ
तस्यां दृप्ता नृपतयस् सैनिकाश्च पृथग्विधाः
पाताल इव मज्जन्तो हीना देवव्रतेन ते
कर्णस्य कुरवोऽस्मार्षुस् स हि देवव्रतोपमः
सर्वशस्त्रभृतां श्रेष्ठं रोचमानमिवानलम्
बन्धुमापद्गतस्येव तेपामासीद्गतं मनः
चुक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः
राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम्
स हि नायुध्यत तदा दशाहान्येक एव च
सामात्यबान्धवः कर्णस् सेनां तु समचूचुदत्
भीष्णेण हि महाबाहुस् सर्वक्षत्रस्य पश्यतः
रथेषु गण्यमानेषु बलविक्रमशालिषु
सङ्ख्यातोऽर्धरथः कर्णो दोषानुक्त्वा महारथः
रथातिरथसङ्ख्यायां योऽग्रणीश्शूर उत्तमः
पितृवित्ताम्बुदेवेशानपि योद्धुं समुत्सहेत्
कर्णः-
स च तेनैव कोपेन राजन्गाङ्गेयमुक्तवान्
त्वयि युध्यति कौरव्य नाहं योत्स्ये कथञ्चन
त्वया तु पाण्डवेयेषु निहतेषु महामृधे
दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव
हते वा युधि पार्थैस्तु त्वयि स्वर्गं समेयुषि
हन्तास्म्येकरथेनैव कृत्स्नान्यान्मन्यसे रथान्
सञ्जयः-
एवमुक्त्वा महातेजा दशाहान्येक एव सः
नायुध्यत तदा कर्णः पुत्रस्य तव सम्मते
भीष्मस्त्वमितविक्रान्तः पाण्डवेयस्य पार्थिव
जघान समरे योधानसङ्ख्येयपराक्रमान्
तस्मिंस्तु निहते शूरे तव पुत्रा महारथम्
कर्णं र्जंस्तदा जग्मुस् तर्तुकामा इव प्लवम्
तावकास्तव पुत्राश्च सहितास्सर्वराजभिः
हा कर्ण इति चाक्रन्दुः कालोऽयमिति चाब्रुवन्
जामदग्न्याभ्यनुज्ञातमस्त्रैर्दुर्वारपौरुषम्
अगमन्नो मनः कर्णं बन्धूनात्ययिकेष्विव
स हि शक्तो रणे राजंस्त्रातुमस्मान्महाभयात्
त्रिदशानिव गोविन्दस्सततं स्मासुराद्भयात्
वैशम्पायनः-
तथा तु सञ्जे कर्णं कीर्तयाने पुनः पुनः
आशीतमिव निश्वस्य धृतराष्ट्रोऽब्रवीदिदम्
धृतराष्ट्रः-
यत्तद्वैकर्तनं कर्णमगमद्वो मनस्तदा
अप्यरक्षत्स राधेयस्सूतपुत्रस्तनुत्यजः
अपि तन्न मृषा कार्षीद्युधि सत्यपराक्रमः
सम्भग्नानां तदाऽऽर्तानां त्रस्तानां त्राणमिच्छताम्
अपि तत्पूरयाञ्चक्रे धनुर्धरवरो युधि
यत्तद्विनिहते भीष्मे कौरवाणां महाव्रते
तत्खण्डं पूरयन्कर्णः परेषामादधद्भयम्
कृतवान्मम पुत्राणां जयाशां सफलामपि