सञ्जयः-
ततस्ते पार्थिवास्सर्वे जग्मुस्स्वानालयान्प्रति
तूष्णीं भूते महाराज भीष्मे शन्तनुनन्दने
श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः
ईषदागतसन्त्रासस्त्वरयोपजगाम ह
स ददर्श महात्मानं शरतल्पगतं तदा
वीरशय्यागतं वीरं गाङ्गेयं पुरुषर्षभम्
निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषा
अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः
राधेयोऽहं कुरुश्रेष्ठ नित्यमक्षिगतस्तव
द्वेष्योऽत्यन्तमनागास्सन्निति भीष्ममुवाच ह
तच्छ्रुत्वा कुरुवृद्धस्तु बली संवृतलोचनः
शनैरुद्वीक्ष्य सस्नेहमिदं वचनमब्रवीत्
राधेयं मन्युरहितस्समुत्सार्य च रक्षिणः
पितेव पुत्रं गाङ्गेयः परिरभ्यैकबाहुना
भीष्मः-
न विप्रियं ममैवेह यत्स्पर्धेथा मया सह
यदि मां नाधिगच्छेथा न ते श्रेयो भवेद्ध्रुवम्
कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता
सूर्यजस्त्वं महाबाहो विदितोऽसि सदा मम
कृष्णद्वैपायनाच्चैव तेजसा च न संशयः
न च द्वेषोऽस्ति मे तात त्वयि सत्यं ब्रवीमि ते
तेजोवधनिमित्तं तु परुषं त्वाऽहमब्रुवम्
अकस्मात्पाण्डवान्हि त्वं द्विषसीति मतिर्मम
तेनासि बहुशो रूक्षं श्रावितः कुरुसंसदि
जानामि समरे वीर्यं शत्रुभिर्दुःसहं भुवि
ब्रह्मण्यतां च शौर्यं च दाने च परमां मतिम्
न त्वया सदृशः कश्चित्पुरुषेष्वमरोपम
कुलभेदभयाच्चाहं सदा परुषमुक्तवान्
इष्वस्त्रे भारसन्धाने लाघवेऽस्त्रबले तथा
सदृशः फल्गुनेनासि कृष्णेन च महात्मना
कर्ण भूमेः परं गत्वा त्वयैकेन धनुष्मता
कन्यार्थे कुरुराजस्य राजानो मृदिता युधि
तथाऽतिबलवान्राजा जरासन्धो महाबलः
तेजसा यशसा धैर्यान्न त्वया सदृशो भवेत्
ब्रह्मण्यस्सत्यवादी त्वं तेजसाऽर्कसमो ह्यसि
देवगर्भो भवान्सङ्ख्ये मनुष्येष्वधिको भवान्
व्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः
दैवं पुरुषकारेण न शक्यमतिवर्तितुम्
सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन
सङ्गच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम्
मया भवतु निर्वृत्तं वैरमादित्यनन्दन
पृथिव्यां सर्वराजानो भवन्त्वद्य निरामयाः
कर्णः-
जानाम्येव महाबाहो सर्वमेतन्न संशयः
यथा वदसि दुर्धर्ष कौन्तेयोऽहं न सूतजः
अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः
पुरा दुर्योधनेनाहं स्नेहं वै कृतावन्मुदा
तव कार्यं करिष्यामि यद्यत्सर्वं दुरासदम्
इत्येवं वै प्रतिज्ञातं वचनं वै सुयोधने
तत्सत्यवचनं चाद्य न मिथ्या कर्तुमुत्सहे
वसु चैव शरीरं च पुत्रदारस्तथा यशः
सर्वं दुर्योधनस्यार्थे त्यजेयं भूरिदक्षिण
कोपिताः पाण्डवा नित्यं मयाऽऽश्रित्य सुयोधनम्
अवश्यभावी यश्चार्थस्स यो न शक्यो निवर्तितुम्
दैवं पुरुषकारेण को निवर्तितुमुत्सहेत्
पृथिवीक्षयशंसीनि निमित्तानि पितामह
भवद्भिरुपलब्धानि कथितानि च संसदि
पाण्डवा वासुदेवश्च विदिता मम सर्वशः
अजेयाः पुरुषै पार्था इति पश्चात्सहामहे
अधर्म्यं व्याधिमरणं क्षत्रियस्य पितामह
अनुजानीहि मां तात युद्धाय धृतनिश्चयम्
अनुज्ञातस्त्वया वीर युध्येयमिति मे मतिः
दुरुक्तस्त्वं प्रतीपं वा संरम्भसाच्चापलात्तथा
यन्मयाऽपकृतं वीरं तत्तत्क्षन्तुं त्वमर्हसि
भीष्मः-
अपमार्ष्टुं न चेच्छक्यं वैरमेतत्सुदारुणम्
अनुजानामि कर्ण त्वां युध्यस्व स्वर्गमाप्नुहि
निर्मन्युर्गतसंरम्भः कृतकर्मा रणे भव
यथाशक्ति यथोत्साहं सर्वपौत्रेषु वृत्तवान्
अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि
क्षत्रधर्मजिताल्ँलोकानवाप्स्यसि न संशयः
युध्यस्व निरहङ्कारो बलवीर्यव्यपाश्रयः
धर्म्याद्धि युद्धादधिकं क्षत्रियस्य न विद्यते
प्रशमे हि कृतो यत्नस्सुमहान्सुचिरं मया
न चैव शक्तस्तं कर्तुं यतो धर्मस्ततो जयः
सञ्जयः-
इत्युक्तवन्तं गाङ्गेयम् अभिवाद्य प्रसाद्य च
राधेयो रथमारुह्य प्रायात्तव सुतं प्रति
वैशम्पायनः-
इत्येतद्बहुवृत्तान्तं भीष्मपर्वाखिलं मया
शृण्वते ते महाराज प्रोक्तं पापहरं शुभम्
यश्श्रावयेत्सदा राजन्ब्राह्मणान्वेदपारगान्
श्रद्धावन्तश्च ये चापि श्रोष्यन्ति मनुजा भुवि
विधूय सर्वपापानि विहायान्ते कलेबरम्
प्रयान्ति तत्पदं विष्णोर्यत्प्राप्य न निवर्तते
तस्मात्सर्वप्रयत्नेन भारतं भरतर्षभ
शृणुयात्सिद्धिमन्विच्छन्निह चामुत्र मानवः
भोजनं भोजयेद्विप्रान्गन्धमाल्यैरलङ्कृतान्
भीष्मपर्वणि राजेन्द्र दद्यात्पानीयमुत्तमम्