सञ्जयः-
व्युष्टायां तु तथा राजन्रजन्यां सर्वपार्थिवाः
पाण्डवा धार्तराष्ट्राश्च ह्यभिजग्मुः पितामहम्
तं वीरशयने वीरं शयानं कुरुसत्तमम्
अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम्
कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः
अवाकिरञ्छान्तनवं तत्र गत्वा पितामहम्
स्त्रियो बालाश्च प्रेक्षकाश्च पृथग्जनाः
तमभ्ययुश्शान्तनवं भूतानीव तमोनुदम्
तूर्याणि गणिका वीरास्तथैव नटनर्तकाः
उपानृत्यञ्जगुश्चैव वृद्धं कुरुपितामहम्
उपागम्य च राजेन्द्र सन्नहान्प्रतिमुच्य च
आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः
अन्वासन्त दुराधर्षं देवव्रतमरिन्न्दमम्
अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावयः
सा पार्थिवसमाकीर्णा समितिर्भीष्मसंयुता
शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम्
विबभौ च नृपाणां सा पितामहमुपासताम्
देवानामिव देवेशं पितामहमुपासताम्
भीष्मस्तु वेदनां धैर्यान्निगृह्य भरतर्षभ
अभितप्तश्शरैश्चैव नातिहृष्टमनाऽब्रवीत्
भीष्मः-
शराभितप्तकायोऽस्मि शस्त्रसन्तापमूर्च्छितः
पानीयमिति सम्प्रेक्ष्य राज्ञस्तान्प्रत्यभाषत
सञ्जयः-
ततस्ते क्षत्रिया राजन्समाजह्रुस्समन्ततः
भक्ष्यांश्चोच्चावचांस्तत्र वारिकुम्भांश्च शीतलान्
उपानीतं तु तद्दृष्ट्वा भिष्मश्शान्तनवोऽब्रवीत्
भीष्मः-
नाद्य शक्या मया भोक्तुं भोगाः केवलमानुषाः
अपक्रान्तो मनुष्येभ्यश्शरशय्यां गतो ह्यहम्
सञ्जयः-
प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः
एवमुक्त्वा तदोवाच भीष्मश्शरशतैश्चितः
भीष्मः-
पयः पास्यामि गोपाला गोमयं न तु गोमयम्
गोमयेनाग्निवर्णेन गोमयं न तु गोमयम्
सञ्जयः-
एवमुक्त्वा शान्तनवो दीनवक्सर्वपार्थिवान्
अर्जुनं द्रष्टुमिच्छामि इत्यभाषत पाण्डवान्
अथोपेत्य महाबाहुरर्जुनस्सर्वधर्मवित्
प्रदक्षिणीकृत्य तदा अभिवाद्य पितामहम्
अतिष्ठत्प्राञ्जलिर्भूत्वा किं ते कुर्मीति चाब्रवीत्
तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतस्स्थितम्
अब्रवीत्सर्वधर्मज्ञो भीष्मः प्रीतो धनञ्जयम्
भीष्मः-
दह्यते च शरीर मे तापितोऽस्मि तवेषुभिः
मर्माणि परिदूयन्ते वदनं परिशुष्यति
ह्लादनार्थं शरीरस्य प्रयच्छापो ममार्जुन
त्वं हि शक्तो महेष्वास दातुमापो यथाविधि
सञ्जयः-
अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीर्यवान्
अधिज्यं गाण्डिवं कृत्वा व्याक्षिपत्तद्धनुर्महत्
तस्य ज्यातलनिर्घोषं विष्फूर्जितमिवाशनेः
वित्रेसुस्सर्वभूतानि श्रुत्वा सर्वे च पार्थिवाः
ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः
शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम्
प्रदक्षिणकृत्य तदा स सम्मन्त्र्य महारथः
पर्जन्यास्त्रेण बीभत्सुस्सर्वलोकस्य पश्यतः
अभिन्दत्पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे
उत्पपात ततो धारा विमला वारिणश्शुभा
शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च
अतर्पयत्ततः पार्थस्स तया जलधारया
भीष्मं कुरूणामृषभं दिव्यं दिव्यपराक्रमम्
कर्मणा तेन पार्थस्य शक्रस्येव विकुर्वतः
विस्मयं परमं जग्मुस्सुतास्तव नराधिपाः
तत्कर्म प्रेक्ष्य बीभत्सोरतिमानुषमद्भुतम्
सम्प्रावेपन्त कुरवो गावश्शीतार्दिता इव
विस्मयाच्चोत्तरीयाणि व्याविध्यन्सर्वतो नृपाः
शङ्खदुन्दुभिनिर्घोषस्तुमुलस्सर्वतोऽभवत्
तृप्तश्शान्तनवश्चापि राजन्बीभत्सुमब्रवीत्
सर्वपार्थिववीराणां सन्निधौ पूजयन्निव
भीष्मः-
नैतच्चित्रं महाबाहो त्वयि कौरवनन्दन
कथितो नारदेनासि पूर्वर्षिरमितद्युते
वासुदेवसहायस्त्वं महत्कर्म करिष्यसि
यन्नोत्सहेत देवेन्द्रस्सह देवैरपि ध्रुवम्
विदुस्त्वां निधनं पार्थ सर्वक्षत्रस्य धन्विनः
धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु
मनुष्यो जगति श्रेष्ठो गरुडः पक्षिणां वरः
सरसां सागरश्श्रेष्ठश्श्रेष्ठस्त्वमसि धन्विनाम्
आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान्वरः
जातीनां ब्राह्मणश्श्रेष्ठश्श्रेष्ठस्त्वमसि धन्विनाम्
न वै श्रुतं धार्तराष्ट्रेण वाक्यं मयोच्यमानं विदुरेणसकृच्च
द्रोणेन रामेण जनार्दनेन मुहुर्मुहुस्सञ्जयेनैव चोक्तम्
परीतबुद्धिर्हि विसञ्ज्ञकल्पो दुर्योधनो नाभ्यनन्दद्वचो मे
स शेष्यते वै निहतोऽथाचिरेण शास्त्रातिगो भीमबलाभिभूतः
सञ्जयः-
ततश्श्रुत्वा तद्वचः कौरवेन्द्रो दुर्योधनो दीनमना बभूव
तमब्रविच्छान्तनवोऽभिवीक्ष्य पुत्रं च राजंस्तव वीतमन्युः
भीष्मः-
दृष्टं दुर्योधनैतत्ते यथा पार्थेन धीमता
जलस्य धारा जनिता शीतस्यामृतगन्धिनः
एतस्य कर्ता लोकेऽस्मिन्नान्यः कश्चन विद्यते
आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम्
ऐन्द्रं पाशुपतं ब्रह्मं पारमेष्ठ्यं प्रजापतेः
धातुस्त्वष्टुश्च सवितुस्सर्वाण्यस्त्राणि सर्वशः
सर्वस्मिन्मानुषे लोके ह्येको वेत्ति धनञ्जयः
कृष्णो वा देवकीपुत्रो नान्यो वै वेद कश्चन
अशक्यः पाण्डवस्तात युद्धे जेतुं कथञ्चन
अमानुषाणि कर्माणि यान्येतानि महात्मनि
तेन सत्त्ववता सङ्ख्ये शूरेणाहवशोभिना
जिष्णुना समरे राजन्सन्धिस्ते तात युज्यताम्
यावत्कृष्णो महाबाहुस्स्वाधीनः कुरुसंसदि
तावत्पार्थेन शूरेण सन्धिस्ते तेन युज्यताम्
यावत्तिष्ठन्ति समरे हतशेषस्सहदराः
नाशयत्यर्जुनस्तावत्सन्धिस्ते तात युज्यताम्
निर्दहन्निव हि क्षत्रं क्रोधात् संरक्तलोचनः
युधिष्ठिरो रणे तावत्सन्धिस्ते तात युज्यताम्
नकुलस्सहदेवश्च भीमसेनश्च पाण्डवः
यावत्क्षत्रं न निघ्नन्ति तावत्सन्धिः प्रयुज्यताम्
यावच्चमूं महाराज नाशयन्ति न पाण्डवः
तावत्ते पाण्डवैस्सार्धं सौभ्रात्रमभिरोचताम्
युद्धं मदन्तमेवास्तु तावत्संशाम्य पाण्डवैः
एतत्ते रोचतां वाक्यं यदुक्तोऽसि मयाऽनघ
एतत्क्षममहं मन्ये तव चैव कुलस्य च
त्यक्त्वा मन्युं त्वमुपशाम्युस्व पार्थैः पर्याप्तमेतद्यत्कृतं फल्गुनेन
भीष्मस्यान्ते सुभृशं सौहृदोऽस्तु न ते प्रलोभस्साधु राजन्प्रसीद
राज्यस्यार्दं दीयतां पाण्डवानामिन्द्रप्रस्थे धरमराज्ञो निवासः
मा मित्रध्रुक्पार्थिवानां जघन्यः पापां कीर्तिं प्राप्स्यसे कौरवेन्द्र
ममावसाने शान्तिरस्तु प्रजानां सङ्गच्छन्तां पाण्डवाः प्रीतिमन्तः
पिता पुत्रं मातुलं भागिनेयो भ्राता चैव भ्रातरं प्रैतु राजन्
न चेदतत्प्राप्तकालं वचो मे मोहाविष्टः प्रतिपद्यस्व बुद्ध्या
दिष्टं गन्ता त्यक्तधर्मार्थकामः पुत्रज्ञातिभ्रातृसम्बन्धिहीनः
एवं वोऽस्तु विदितं कौरवेयास्सत्यामेतां भारतीमीरयामि॥
सञ्जयः-
एतद्वाक्यं सौहृदादापगेयो मध्ये राज्ञां भारतीं प्राहयित्वा
तूष्णीमासीच्छल्यसन्तप्तमर्मा स्मृत्वाऽऽत्मानं वेदनां सन्निगृह्य