धृतराष्ट्रः-
कथमासंस्तदा योधा हीना भीष्मेण सञ्जय
बलिना देवकल्पेन कौमारब्रह्मचारिणा
तदैव निहतान्मन्ये कुरूनन्यांश्च पार्थिवान्
न प्राहरद्यदा भीष्मो घृणी च द्रुपदात्मजे
इतो दुःखतरं मन्ये किमन्यत्प्रभविष्यति
अद्येह निहतं श्रुत्वा पितरं मम दुर्मतेः
अश्मसारमयं नूनं हृदयं मम सञ्जय
श्रुत्वा विनिहतं भीष्मं शतधा यन्न दीर्यते
किं कृतं कुरुवृद्धेन तन्मे कथय सञ्जय
पुनःपुनर्न मृष्यामि हतं देवव्रतं रणे
न हतो जामदग्न्येन दिव्यैरस्त्रैश्च यः पुरा
यदद्य निहतेनाजौ भीष्मेण जयमिच्छता
चेष्टितं नरसिंहेन तन्मे कथय सञ्जय
सञ्जय उवाच
सायाह्ने न्यपतद्भूमौ धार्तराष्ट्रान्विषादयन्
पाञ्चालान्हर्षयंश्चैव कुरुवृद्धः पितामहः
स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा
भीष्मो रथात्प्रपतितस्सञ्छिन्नो बहुभिश्शरैः
हाहेति तुमुलश्शब्दो भूतानां समपद्यत
सीमावृक्षे निपतिते कुरूणां समितिञ्जये
उभयोस्सेनयो राजन्क्षत्रियान्भयमाविशत्
भीष्मं शान्तनवं दृष्ट्वा विशीर्णकवचध्वजम्
कुरवः पर्यवर्तन्त पाण्डवाश्च विशां पते
खं तमोवृतमासीच्च नासीद्भानुमतः प्रभा
ररास पृथिवी चैव भीष्मे शान्तनवे हते
अयं ब्रह्मविदां श्रेष्ठस्सदा ब्रह्मविदां गतिः
इत्यभाषन्त भूतानि शयानं पुरुषर्षभम्
ऋषयः-
अयं पितरमाज्ञाय कामार्तं शन्तनुं पुरा
ऊर्ध्वरेतसमात्मानं चकार भरतर्षभः
सञ्जयः-
इति स्म शरतल्पस्थं भरतानां पितामहम्
ऋषयः प्रत्यभाषन्त सहितास्सिद्धचारणैः
हते शान्तनवे भीष्मे भरतानां पितामहे
न किञ्चित्प्रत्यपद्यन्त पुत्रास्तव विशां पते
विवर्णवदनाश्वासन्गतश्रीकाश्च भारत
अतिष्ठन्मिलिताश्चैव ह्रिया युक्ता ह्यधोमुखाः
पाण्डवाश्च जयं लब्ध्वा सङ्ग्रामशिरसि स्थिताः
सर्वे दध्मुर्महाशङ्खांस्तप्तेहेमपरिष्कृतान्
भृशं तूर्यनिनादेषु वर्तमानेषु चासकृत्
अपश्याम रणे राजन्भीमसेनं महाबलम्
आक्रीडमानं कौन्तेयं हर्षेण महता वृतम्
निहत्य तरसा शत्रुं महाबलसमन्वितम्
सम्मोहश्चापि तुमुलः कुरूणामभवत्तदा
कर्णदुर्योधनौ चापि निश्श्वसेतां मुहुर्मुहुः
तथा निपातिते भीष्मे कौरवाणां धुरन्धरे
हाहाकृतमभूत्सर्वं निर्मर्यादमवर्तत
दृष्ट्वा च पतितं भीष्मं पुत्रो दुश्शासनस्तव
उत्तमं जवमास्थाय द्रोणानीकभुपाद्रवत्
भ्रात्रा प्रस्थापितो वीरस्स्वेनानीकेन दंशितः
प्रययौ पुरुषव्याघ्रस्स्वसैन्यमभिहर्षयन्
तमायान्तमभिप्रेक्ष्य कुरवः पर्यवारयन्
दुश्शासनं महाराज किमयं वक्ष्यतीति वै
ततो द्रोणाय निहतं भीष्ममाचष्ट भारत
द्रोणस्तदाप्रियं श्रुत्वा सहसा मिहमागतः
स सञ्ज्ञामुपलभ्याशु भारद्वाजः प्रतापवान्
निवारयामास तदा स्वान्यनीकानि भारत
विनिवृत्तान्कुरून्दृष्ट्वा पाण्डवाश्च स्वसैनिकान्
रथैश्शीघ्राश्वसंयुक्तैस्समन्तात्पर्यवारयन्
विनिवृत्तेषु सैन्येषु पारम्पर्येण सर्वशः
विमुक्तकवचास्सर्वे भीष्ममीयुर्नराधिपाः
उपरम्य ततो युद्धाद्योधाश्शतसहस्रशः
उपतस्थुर्महात्मानं प्रजापतिमिवामराः
ततो भीष्मं समासाद्य शयानं पुरुषर्षभम्
अभिवाद्य व्यतिष्ठन्त पाण्डवाः कुरुभिस्सह
अथ पाण्डून्कुरूंश्चैव प्रणिपत्याग्रतस्स्थितान्
अभ्यभाषत धर्मात्मा भीष्मश्शान्तनवस्तदा
भीष्मः-
स्वागतं वो महाभागास्स्वागतं वो महारथाः
तुष्यामि दर्शनाच्चाहं युष्माकममरोपमाः
सञ्जयः-
अभिनन्द्य स तानेवं शिरसा लम्बताऽब्रवीत्
परिपार्श्वे तव सुतान्स्थितानुद्वीक्ष्य भारत
शिरो मे लम्बतेऽत्यर्थमुपधानं प्रदीयताम्
सञ्जयः-
ततो नृपास्समाजह्रुस्तनूनि च मृदूनि च
उपधानानि मुख्यानि नैच्छत्तानि पितामहः
भीष्मः-
अथाब्रवीच्च नरव्याघ्रः प्रसहन्निव तान्नृपान्
नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः
सञ्जयः-
ततो वीक्ष्य भरतश्रेष्ठमभ्यभाषत पाण्डवम्
धनञ्जयं महाबाहुं सर्वलोकमहारथम्
भीष्मः-
धनञ्जय महाबाहो शिरो मे प्रतिलम्बते
दीयतामुपधानं मे यद्युक्तमिह मन्यसे
सञ्जयः-
स सन्न्यस्य महच्चापमभिवाद्य पितामहम्
नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत्
अर्जुनः-
आज्ञापय कुरुश्रेष्ठ सर्वधर्मविदां वर
प्रेष्योऽहं तव दुर्धर्ष क्रियतां किं पितामह
सञ्जयः-
तमब्रवीच्छान्तनवश्शिरो मे तात लम्बते
दीयतामुपधानं मे यद्युक्तमिह मन्यसे
उपधानं कुरुश्रेष्ठ उपधेहि ममार्जुन
वीरशय्यानुरूपं वै शीघ्रं वीर प्रयच्छ मे
त्वं हि तात समर्थो वै श्रेष्ठस्सर्वधनुष्मताम्
क्षत्रधर्मस्य वेत्ता च बुद्धिसत्त्वगुणान्वितः
फल्गुनोऽथ तथेत्युक्त्वा व्यवसायपुरोगमः
गृह्यानुमन्त्र्य गाण्डीवं शरांश्च नतपर्वणः
अनुमान्य महात्मानं भरतानां पितामहम्
त्रिभिस्तीक्ष्णैर्महावेगैरुदगृह्णाच्छिरश्शरैः
अभिप्राये तु विदिते धर्मात्मा स्वयसाचिना
अाश्वस्य भरतश्रेष्ठो भीष्मो धर्मार्थतत्त्ववित्
उपधानेन दत्तेन प्रत्यनन्दद्धनञ्जयम्
कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम्
भीष्मः-
शयनस्यानुरूपं मे उपधानं त्वया कृतम्
यद्यन्यथा प्रपद्येथाश्शपेयं त्वामहं पुरा
एवमेतन्महाबाहो धर्मेषु परिनिश्चितम्
स्वप्तव्यं क्षत्रियेणाजौ शरतल्पगतेन वै
सञ्जयः-
एवमुक्त्वा तु बीभत्सुं सर्वांस्तानब्रवीद्वचः
राज्ञश्च राजपुत्रांश्च पाण्डवैरभिसंवृतान्
शयेऽहमस्यां शय्यायां यावदावर्तनाद्रवेः
ये तदा धारयिष्यन्ति ते मां द्रक्ष्यन्ति वै नृपाः
दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः
अर्चिष्मान्प्रतपँल्लोकान् रथेनोत्तमतेजसा
रक्ष्येऽहं वै मम प्राणान्सुहृदस्सुप्रियानिव
परिखा खन्यतामत्र ममावसथतो नृपाः
उपासिष्ये विवस्वन्तमेवं शरशताचितः
उपारमध्वं सङ्ग्रामाद्वैरमुत्सृज्य पार्थिवाः
स़ञ्जयः-
उपातिष्ठस्तदा वैद्याश्शल्योद्धरणकोविदाः
सर्वोपकरणैर्युक्ताः कुशलास्साधुशिक्षिताः
तान्दृष्ट्वा जाह्नवीपुत्रः प्रोवाच तनयं तव
भीष्मः-
दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः
एवं गतस्य नेदानीं वैद्यकार्यमिहास्ति मे
क्षत्रधर्मप्रशस्तां हि प्राप्तोऽस्मि परमां गतिम्
नैष धर्मो महीपालाश्शरतल्पगतस्य मे
एभिरेव शरैश्चाहं दग्धव्योऽग्नौ नराधिपाः
सञ्जयः-
तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव
वैद्यान्विसर्जयामास पूजयित्वा यथार्हतः
ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वराः
स्थितं धर्मे परां दृष्ट्वा भीष्मं त्वमिततेजसम्
उपधानं ततो दत्त्वा पितुस्तव जनेश्वराः
सहिताः पाण्डवास्सर्वे कुरवश्च महारथाः
उपगम्य महात्मानं शयानं शयने शुभे
तेऽभिवाद्य ततो भीष्मं कृत्वा चापि प्रदक्षिणम्
विधाय रक्षां भीष्मस्य सर्व एव समन्ततः
वीरास्स्वशिबिराण्येव ध्यायन्तः परमातुराः
निवेशायाभ्युपागच्छन्सायाह्ने रुधिरोक्षिताः
निविष्टान्पाण्डवांश्चापि प्रीयमाणान्महारथान्
भीष्मस्य पतनं दृष्ट्वा चोपगम्य महारथम्
उवाच देवकीपुत्रो धर्मपुत्रं युधिष्ठिरम्
श्रीभगवान्-
दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः
अवध्यो मानुषैरेव सत्यसन्धो महारथः
अथवा दैवतैः पार्थ सर्वशास्त्रास्त्रपारगः
त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुषा
सञ्जयः-
एवमुक्तो धर्मराजः प्रत्युवाच जनार्दनम्
युधिष्ठिरः-
तव प्रसादाद्विजयः क्रोधात्तव पराजयः
त्वं हि नश्शरणं कृष्ण भक्तानामभयङ्करः
अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव
रक्षिता समरे नित्यं नित्यं चापि हिते रतः
सर्वथा त्वां समासाद्य रक्षितास्तव तेजसा
श्रीभगवान्-
सञ्जयः-
एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः
त्वय्येवैतद्युक्तरूपं वचनं पार्थिवोत्तम