सञ्जयः-
एवं ते पाण्डवास्सर्वे पुरस्कृत्य शिखण्डिनम्
विव्यधुस्समरे भीष्मं परिवार्य समन्ततः
शतघ्नीभिस्सुघोराभिः पट्टसैश्च परश्वथैः
मुद्गरैर्मुसलैः प्रासैः क्षेपणीयैश्च सर्वतः
शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः
नाराचैर्वत्सदन्तैश्च भुसुण्ठीभिश्च सर्वशः
अताडयन्रणे भीष्मं सहितास्सर्वसृञ्जयैः
स विशीर्णतनुत्रामाः पीडितो बहुभिश्शरैः
विव्यथे नैव गाङ्गेयो भिद्यमानेषु मर्मसु
सुदीप्तशरजालार्चिरस्त्रप्रसृतमारुतः
नेमिनिर्ह्रादसन्नादो महास्त्रोदयपावकः
चित्रचापमहाज्वालो वीरक्षयमहेन्धनः
युगान्ताग्निसमो भीष्मः परेषां समपद्यत
निवृत्य रथसङ्घानामन्तरेण विनिस्सृतः
दृश्यते स्म नेरन्द्राणां पुनर्मध्यगतश्चरन्
ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च
पाण्डवानीकिनीमध्यमाससादातिवेगितः
ततस्सात्यकिभीमौ च पाण्डवं च धनञ्जयम्
द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम्
भीमघोषैर्महावेगैर्मर्मावरणभेदिभिः
षडेतान्षड्भिरानर्च्छद्भास्करप्रतिमैश्शरैः
तस्य ते निशितान्बाणात्सन्निवार्य महारथाः
दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा
शिखण्डी तु महाबाणान्मुमोचन्यान् महाव्रते
ते भीष्मं विविशुस्तूर्णं स्वर्मपुङ्खाश्शिलाशिताः
ततः किरीटी संरब्धो भीष्ममेवाभ्यधावत
शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत्
भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः
द्रोणश्च कृतवर्मा च सैन्धवश्च जयद्रथः
भूरिश्रवाश्शलश्शल्यो भगदत्तस्तथैव च
निजघ्नुः परमक्रुद्धाः किरीटिनमभिद्रुताः
उत्तमास्त्राणि दिव्यानि दर्शयन्तो महारथाः
अभिपेतुस्स्म संरब्धाश् छादयन्ति स्म पाण्डवम्
तेषामापततां शब्दश्शुश्रुवे फल्गुनं प्रति
उद्धूतानां यथा शब्दस्समुद्राणां युगक्षये
घ्नत त्वरत गृह्णीत युध्यत प्रनिकृन्तत
इत्यासीत्तुमुलश्शब्दः फल्गुनस्य रथं प्रति
तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः
अभ्यधावन्परीप्सन्तः फल्गुनस्य रथं प्रति
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः
विराटद्रुपदौ चोभौ राक्षसश्च घटोत्कचः
अभिमन्युश्च सङ्क्रुद्धस्सप्तैते क्रोधमूर्च्छिताः
समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः
तेषां समभवद्युद्धं तुमुलं रोमहर्षणम्
पुरा वै भरतश्रेष्ठ देवानां दानवैरिव
शिखण्डी तु रथश्रेष्ठो रक्ष्ममाणः किरीटिना
अविध्यद्दशभिर्भीष्मं छिन्नधन्वानमाहवे
सारथिं दशभिश्चास्य ध्वजमेकेन चिच्छिदे
सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम्
जघान निशितैर्बाणैरर्जुनं परवीरहा
तदप्यस्य शितैर्भल्लैस्त्रिदा चिच्छेद फल्गुनः
एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः
धनुश्चिच्छेद भीष्मस्य सव्यसाची धनञ्जयः
स च्छिन्नधन्वा सङ्क्रुद्धस्सृक्किणी परिसंलिहन्
शक्तिं जग्राह वेगेन गिरीणामपि दारणीम्
तां च चिक्षेप सङ्क्रुद्धः फल्गुनस्य रथं प्रति
तामापतन्तीं सम्प्रेक्ष्य ज्वलन्तीमशनीमिव
समधत्त शितान्भल्लान्पञ्च पाण्डवनन्दनः
ततश्चिच्छेद तां शक्तिं पञ्चधा पञ्चभिश्शरैः
सङ्क्रुद्धो भरतश्रेष्ठो भीष्मबाहुबलेरिताम्
सा पपात तथा च्छिन्ना सङ्क्रुद्धेन किरीटिना
मेघबृन्दादिव भ्रष्टा विच्छिन्नेव शतह्रदा
छिन्नां शक्तिमथालोक्य भीष्मः क्रोधसमन्वितः
अचिन्तयद्रणे वीरो बुद्ध्या परपुरञ्जयः
शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्
यद्येषां न भवेद्गोप्ता विष्णुः कारणमानुषः
अजय्यश्चैव लोकानां सर्वेषामिति मे मतिः
कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवैः
अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः
पित्रा तुष्टेन मे पूर्वं यदाऽम्बां स्वामुदावहत्
स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा
तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः
एवज्ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः
ऋषयो देवताश्चापि वियत्स्था भीष्ममब्रुवन्
देवाः-
यत्ते व्यवसितं तात तदस्माकमपि प्रियम्
तत्कुरुष्व महाराज युद्धे बुद्धिं निवर्तय
सञ्जयः-
अस्य वाक्यस्य निधने प्रादुसासीच्छिवोऽनिलः
अनुलोमस्सुगन्धी च पृषतैश्च समन्वितः
देवदुन्दुभयश्चैव सम्प्रणेदुरनेकशः
पपात पुष्पवृष्टिश्च भीष्मस्योपरि पार्थिव
न च ताश्शुश्रुवे कश्चित्तेषां संवदतां गिरः
ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा
सम्भ्रमश्च महानासीत्त्रिदशानां विशां पते
पतिष्यति रणे भीष्मस्सर्वलोकप्रिये रतः
इति देवगणानां च श्रुत्वा वाक्यं महात्मनाम्
ततश्शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत
भिद्यमानश्शितैर्बाणैस्सर्वावरणभेदिभिः
शिखण्डी तु महाराज भरतानां पितामहम्
आजघानोरसि क्रुद्धो नवभिर्निशितैश्शरैः
न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाश्शिलीमुखाः
स तेनाभिहतस्सङ्ख्ये भीष्मः कुरुपितामहः
नाकम्पत महाराज क्षितिकम्पे यथाऽचलः
शिखण्डिनि रणे बाणं न मुमोच नराधिप
ततः प्रहस्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः
गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्
पुनश्शरशतेनाजौ त्वरमाणो धनञ्जयः
सर्वगात्रेषु सङ्क्रुद्धस्तदा मर्मस्वताडयत्
एवमन्यैरपि भृशं विद्ध्यमानो महारथः
नाकम्पत महाराज क्षितिकम्पे यथाऽचलः
न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाश्शिलाशिताः
ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत
शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत्
विध्वा च नवभिर्बाणैर्धव्जमेकेन चाच्छिनत्
सारथिं दशभिश्चास्य विशिखैस्समकम्पयत्
सोऽन्यत्कार्मुकमादाय गाङ्गेयो बलवत्तरम्
तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरथाच्छिनत्
निमेषार्धेन कौन्तेय आत्तमात्तं महारथः
एवमेव धनूंष्याजौ चिच्छेद सुबहून्यथ
ततश्शान्तनवो भीष्मो बीभत्सुं नात्यवर्तत
बीभत्सुरेनं विंशत्या क्षुद्रकाणां समार्पयत्
सोऽतिविद्धो महेष्वासो दुश्शासनमभाषत
भीष्मः-
एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः
शरैरनेकसाहस्त्रैर्मामेवाभ्यपतद्रणे
न चैष समरे शक्यो जेतुं वज्रभृता स्वयम्
न चापि समरे क्रुद्धो देवदानवराक्षसैः
एष शक्त्यो रणे जेतुं किमु मर्त्यैर्महारथैः
न चाहमपि शक्तस्स्यां सर्वैरपि महारथैः
ऋतेऽर्जुनं सुसङ्क्रुद्धैरेतत्सत्यं ब्रवीमि ते
सञ्जयः-
तयोस्संवदतोरेव फल्गुनो निशितैश्शरैः
शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे
ततो दुःशासनं भीष्मस्स्मयमान इवाब्रवीत्
अर्दितो निशितैर्बाणैर्भृशं गाण्डीवधन्वना
भीष्मः-
वज्राशनिसमस्पर्शास्सुपुङ्खास्सुप्रतेजनाः
सुमुखा अव्यवच्छिन्ना नेमे बाणाश्शिखण्डिनः
भुजङ्गा इव सङ्क्रुद्धा लेलिहाना विषोल्बणाः
इमे विशन्ति मर्माणि नेमे बाणाश्शिखण्डिनः
नाशयन्तीव मम प्राणान्यमदूता इवागताः
गदापरिघसंस्पर्शा नेमे बाणाश्शिखण्डिनः
इमे कृन्तन्ति गात्राणि माघमासे गवामिव
अर्जुनस्य इमे बाणा नेमे बाणाश्शिखण्डिनः
निकृन्तमाना मर्माणि दृढावरणभेदिनः
मुसलानीव निघ्नन्ति नेमे बाणाश्शिखण्डिनः
ब्रह्मदण्डसमस्पर्शा वज्रवेगा दुरासदाः
मम प्राणान्निकृन्तन्ति नेमे बाणाश्शिखण्डिनः
सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाः
वीरं गाण्डीवधन्वानमृते जिष्णुं कपिध्वजम्
सञ्जयः-
इति ब्रुवञ्छान्तनवो दिधक्षुरिव पाण्डवम्
सविष्कुलिङ्गां दीप्ताग्रां शक्तिं चिक्षेप भारत
तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत्
पश्यतां कुरुवीराणां सर्वेषां तत्र भारत
अर्जुनस्समरश्लीघी विननाद महाबलः
चर्मा चादत्त गाङ्गेयो जातरूपपरिष्कृतम्
खङ्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जयाय वा
तस्य तच्छतधा चर्म व्यधमच्छंसितात्मनः
रथादनवरूढस्य तदद्भुतमिवाभवत्
स सिंहवद्विनद्योच्चैस्स्वान्यनीकानि हर्षयन्
अब्रवीत्परमक्रुद्धो जयेप्सुस्संयुगेऽर्जुनः
अर्जुनः-
अभिद्रवत गाङ्गेयं मा वोऽस्तु भयमण्वपि
सञ्जयः-
अथ ते तोमरैः प्रासैर्बाणौघैश्च समन्ततः
पट्टसैश्च सुनिस्त्रिंशैर्नानाशस्त्रैस्तथा शितैः
वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः
सिंहनादस्ततो घोरः पाण्डवानामजायत
तथैव तव पुत्राणां राजन्भीष्मजयैषिणाम्
तमेकमभ्यरक्षन्त कुरवस्सनृपा रणे
तत्रासीत्तुमुलं युद्धं तावकानां परैस्सह
दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे
आसीद्धोर इवावर्तो मुहूर्तमुदधेरिव
सैन्यानां युध्यमानानां युघ्नतामितरेतरम्
अगम्यरूपा पृथिवी शोणिताक्ता तदाऽभवत्
समं च विषमं चैव न प्राज्ञायत किञ्चन
योधानामयुतं हत्वा स तस्मिन्दशमेऽहनि
अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु
ततस्सेनामुखे तस्मिन्स्थितः पार्थो धनञ्जयः
मध्ये तु कुरुसैन्यानां द्रावयामास वाहिनीम्
तथा च तव सैन्यानि तापयामासुरोजसा
शरैरशनिसङ्काशैः पाण्डवाश्वेतरे नृपाः
तत्राद्भुतमपश्याम पाण्डवानां पराक्रमम्
द्रावयामासुरिषुभिस्सर्वान्भीष्मपदानुगान्
वयं श्वेतहयाद्भीताः कुन्तीपुत्राद्धनञ्जयात्
भिद्यमानाश्शितैर्बाणैः प्राद्रवाम रणे तदा
पाण्डवैः पञ्चभिस्सार्धं सात्यकेन च धन्विना
धृष्टद्युम्नसुखैस्सर्वैः पाञ्चालैश्च समन्ततः
भिद्यमानाश्शरैस्तीक्ष्णैस्सर्वे कार्ष्णिपुरोगमाः
द्रोणद्रौणित्रिगर्तैश्च सर्वे शल्यकृपादयः
तावकास्समरे राजन्जहुर्भीष्मं महाहवे
सौवीराः कितवाः प्राच्याःप्रतीच्योदीच्यमालवाः
अभीषाहाश्शूरसेनाश्शिबयोऽथ वसातयः
साल्वाश्शूरास्त्रिगर्ताश्च अम्बष्ठाः केकयैस्सह
चतुर्दशैते शूराश्चा राजानः क्षत्रियर्षभाः
सङ्ग्रामे प्रजहुर्भीष्मं युध्यमानाः किरीटिना
ततस्तमेकं बहवः परिवार्य समन्ततः
परिताप्य कुरून्सर्वाञ्शरर्षैरवाकिरन्
निपातयत गृह्णीत युध्यतावचकर्तत
इत्यासीत्तुमुलश्शब्दो राजन्भीष्मरथं प्रति
शरैघैरभिवृष्टस्य शतशोऽथ सहस्रशः
न तस्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम्
सह भीष्मेण सर्वेषामेवं युद्धमभूत्किल
नृपाणां पाण्डवेयानां पुनर्भीष्ममुपेयुषाम्
एवं विभो तव पिता शरैर्विशकलीकृतः
किञ्चिच्छेषे दिनकरे पुत्राणां तव पश्यताम्
शिताग्रैः फल्गुनेनाजौ प्राक्शिराः प्रापतद्रथात्
हाहेति दिवि देवानां पार्थिवानां च सर्वशः
पतमाने रथाद्भीष्मे बभूव सुमहन्स्वनः
तं पतन्तमभिप्रेक्ष्य भारतानं पितामहम्
सह भीष्मेण सर्वेषां प्रापतन्हृदयानि नः
स पपात महाबाहुर्वसुधामनुनादयन्
इन्द्रध्वज इवोत्सृष्टः केतुस्सर्वधनुष्मताम्
धरणीं नास्पृशच्चापि शरसङ्घैस्समाचितः
शरतल्पे महेष्वासश्शयानः पुरुषर्षभः
रथात्प्रपतितं चैनं दिव्यो भावस्समाविशत्
अभ्यवर्षच्च पर्जन्यः प्राकम्पत च मेदिनी
पतन्स ददृशे चापि दक्षिणेन दिवाकरम्
सञ्ज्ञां चैवालभद्वीरः कालं सञ्चिन्त्य भारत
अन्तरिक्षे च शुश्राव दिव्यानां च शुभा गिरः
दैवी वाक्-
कथं महात्मा गाङ्गेयस्सर्वशस्त्रभृतां वरः
कथं ह्यकाले पतितः सर्वधर्मभृतां वरः
कालकर्ता नरव्याघ्रस्सम्प्राप्ते दक्षिणायने
सञ्जयः-
स्थितोऽस्मीति च गाङ्गेयस्तच्छ्रुत्वा वाक्यमब्रवीत्
भीष्मः-
धारयिष्याम्यहं प्राणान्पतितिऽपि महीतले
उत्तरायणमन्विच्छन्सुगतिप्रतिकाङ्क्षया
सञ्जयः-
एवं वदन्महाप्राज्ञः शरतल्पगतश्चिरम्
उत्तरायणमन्विच्छद्भीष्मः कुरुपितामहः
तस्य तं मतमाज्ञाय गङ्गा हिमवतस्सुताः
महर्षीन्हंसरूपेण प्रेषयामास तत्र वै
ततस्सम्पतिता हंसास्त्वरमाणा महौजसः
आजग्मुस्सहिता द्रष्टुं भीष्मं कुरुपितामहम्
यत्र शेते नरश्रेष्ठश्शरतल्पे पितामहः
ते तु भीष्मं समासाद्य मुनयो हंसरूपिणः
अपश्यञ्छरतल्पस्थं भीष्मं कुरुकुलोद्वहम्
ते तं दृष्ट्वा महात्मानं परिवृत्य प्रदक्षिणम्
गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम्
हंसाः-
इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः
अयं भीष्मो महाबुद्धिः संस्थितो दक्षिणायने
सञ्जयः-
इत्युक्त्वा प्राद्रवन्हंसा दक्षिणामभितो दिशम्
सम्प्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत
ततोऽब्रवीच्छान्तनवो नाहं गन्ता कथञ्चन
दक्षिणावर्त आदित्ये एतन्मे मनसि स्थितम्
गमिष्यामि स्वकं स्थानमासीद्यन्मे पुरातनम्
उदगावृत्त आदित्ये हंसास्सत्यं ब्रवीमि वः
धारयिष्याम्यहं प्राणानुत्तरायणकाङ्क्षया
प्राणानां च समुत्सर्ग ऐश्वर्यं नियतं मम
तस्मात्प्राणान्धारयिष्ये मुमूर्षुरुदगायने
यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना
छन्दतस्ते भवेन्मृत्युरिति तत्सत्यमस्तु मे
धारयिष्ये ततः प्राणानुत्सर्गे नियते सति
इत्युक्तास्ते गता हंसास्स शेते शरतल्पगः
एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि
पाण्डवास्सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे
तस्मिन्हते महासत्त्वे भारतानां पितामहे
न किञ्चित्प्रत्यपद्यन्त पुत्रास्तव विशां पते
सम्मोहश्चैव तुमुलः करूणामभवत्तदा
नृपा दुर्योधनमुखा निश्श्वस्य रुरुदुस्ततः
विषादाच्च चिरं कालमतिष्ठन्विगतेन्द्रियाः
ते दीर्घकालं ध्यायन्तो न युद्धे दधिरे मनः
ऊरुस्तम्भगृहीताश्च नाभ्यधावन्त पाण्डवान्
अवध्ये शन्तनोः पुत्रे हते भीष्मे महौजसि
दुःखार्तास्ते तदा राजन्कुरूणां पतयोऽभवन्
विमोहस्सहसा राजन्कुरूणामभवत्तदा
हतप्रवीरा वित्रस्ता निकृत्ता निशितैश्शरैः
कर्तव्यं नाभिजानीमो निर्जितास्सव्यसाचिना
पाणडवास्तु जयं लब्ध्वा प्रहृष्टमनसोऽभवन्
सर्वे दध्मुर्मुदा शङ्खञ्शूराः परिघबाहवः
सोमकाश्च सपाञ्चालाः प्राहृष्यन्त जनेश्वर
ततस्तूर्यसहस्रेषु प्रणदत्सु महाबलाः
सिंहनादं प्रचक्रुश्च पाञ्चालास्सह सोमकैः
आस्फोटयामास भृशं भीमसेनो ननाद च
सेनयोरुभयोर्मध्ये गाङ्गेये विनिपातिते
सन्त्यज्य विराश्शस्त्राणि प्राध्यायन्तस्समन्ततः
प्राक्रोशन्विप्रमूढाश्च जग्मुर्मोहं तथाऽपरे
क्षुद्राश्चैके निविन्दन्ति भीष्मं चैकेऽभ्यपूजयन्
ऋषयः पितरश्चैव प्रशशंसुर्महाव्रतम्
भरतानां च ये पूर्वे ते चैव प्रशशंसिरे
महोपनिषदं चैव योगमास्थाय विर्यवान्
जपञ्शान्तनवो धीमान्कालाकाङ्क्षी स्थितोऽभवत्