सञ्जयः-
असंव्यूढेष्वनीकेषु भूयिष्ठमनुवर्तिषु
ब्रह्मलोकपरास्सर्वे समयुद्यन्त भारत
न ह्यनीकमनीकेषु समसज्जत सङ्कुले
रथा न रथिभिस्सार्धं पादाता न पदातिभिः
अश्वा नाश्वैरयुध्यन्त गजा न गजयोधिभिः
महान्व्यतिकरो रौद्रस्सेनयोस्समपद्यत
नरनागरथाश्वेषु व्यवकीर्णेषु सर्वशः
क्षयेतस्मिन्महारौद्रे निर्विशेषमजायत
ततश्शल्यः कृपश्चैव चित्रसेनश्च भारत
दुश्शासनो विकर्णश्च रथानास्थाय दंशिताः
पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन्
सा वध्यमाना समरे पाण्डुसेना महात्मभिः
त्रातारं नाध्यगच्छद्वै मञ्जमानेव नौर्जले
यथा हि शैशिरः कालो गवां मर्माणि कृन्तति
तथा पाण्डुसुतानां वै भीष्मो मर्माण्यकृन्तत
अतीव तव सैन्यस्य पार्थेन च महात्मना
नवमेघप्रतीकाशाः पातिता बहुधा गजाः
सोमकास्सृञ्जयैस्सार्धं सर्वे ते युद्धदुर्मदाः
अभ्यद्रवन्त गाङ्गेयं शरवृष्ट्या समाहताः
वध्यमानस्ततो राजन्पिता देवव्रतस्तव
अमर्षवशमापन्नो योधयामास सृञ्जयान्
तस्य कीर्तिमतस्तात पुरा रामेण धीमता
सम्यग्दत्ताऽस्त्रशिक्षा परानीकविनाशनी
स तां विद्यामधिष्ठाय कुर्वन्परबलक्षयम्
अहन्यहनि पार्थानां वृद्धः कुरुपितामहः
भीष्मो दश सहस्राणि जघान परवीरहा
तस्मिंस्तु दशमे प्राप्ते दिवसे भरतर्षभ
एको भीष्मो हि मत्स्येषु पाञ्चालेषु च संयुगे
गजाश्वं चामितं हत्वा हत्वा चैव महारथान्
हत्वा पञ्च सहस्राणि रथानां पृथिवीपते
नराणां चायुतं युद्धे सहस्राणि चतुर्दश
तथा दन्तिसहस्रं च हयानामयुतं पुनः
शिक्षवशेन न्यहनत्पिता तव विशां पते
ततस्सर्वान्महीपालान् क्षोभयित्वा विशां पते
विराटस्य प्रियो भ्राता शतानीको निपातितः
शतानीकं च समरे हत्वा भीष्मः प्रतापवान्
सहस्राणि महाराज राज्ञां भल्लैरपातयत्
ये च केचन पाण्डूनाम् अन्वगीयुर्धनञ्जयम्
राजानो भीष्ममासाद्य गतास्ते यमसादनम्
किरन्दश दिशो भीष्मश्शरजालैस्समन्ततः
अतीत्य सेनां पार्थानामवतस्थे चमूमुखे
स कृत्वा सुमहत्कर्म तस्मिन्वै दशमेऽहनि
सेनयोरन्तरा तिष्ठन्प्रगृहीतशरासनः
न चैनं पार्थिवास्तत्र शेकुः केचिन्निरीक्षितुम्
मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि
यथा दैत्यचमूं शक्रस्तापयामास संयुगे
तथा भीष्मः पाण्डुसेनां तापयामास भारत
तथा च तं पराक्रान्तमालोक्य मधुसूदनः
उवाच देवकीपुत्रः प्रीयमाणो धनञ्जयम्
श्रीभगवान्-
एक्शशान्तनवो भीष्मस्सेनयोरन्तरे स्थितः
तं निहत्य बलादेनं विजयस्ते भविष्यति
यत्तस्संस्तम्भयस्वैनं यत्रैषोऽभ्येति ते चमूम्
न हि भीष्मशरानन्यस्सोढुमुत्सहते पुमान्
सञ्जयः-
ततस्तस्मिन्क्षणे राजंश्चोदितो वानरध्वजः
सरथं सध्वजं साश्वं भीष्ममन्तर्दधे शरैः
स चापि कुरुमुख्यानामृषभः पाण्डवेरितान्
शरव्रतैश्शरव्रातान्बहुधा विदुधाव तान्
तथा पुनर्जघानाशु पाण्डवानां महारथान्
शरैरशनिकल्पैश्च शिताग्रैश्च सुपर्वभिः
ततः पाञ्चालराजश्च धृष्टकेतुश्च वीर्यवान्
पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः
यमौ च चेकितानश्च सात्यकिश्च महारथः
सौभद्रो रथिनां श्रेष्ठो राक्षसश्च घटोत्कचः
द्रौपदेयाश्शिखण्डी च कुन्तिभोजश्च वीर्यवान्
विराटश्च महाराज पाण्डवेयाश्च सर्वशः
एते चान्ये च बहवो निकृत्ता भीष्मसायकैः
समुद्धृता महाराज निमग्नाश्शोकसागरे
अथोद्यता महाराज प्रगृहीत शरासनाः
रणोद्यतं महावीरं भीष्ममेवाभिदुद्रिुवुः
ततश्शिखण्डी वेगेन प्रगृह्य परमायुधम्
भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना
ततोऽस्य तुरगान् हत्वा सर्वान्तरविभागवित्
भीष्ममेवाभिदुद्राव बीभत्सुरपराजितः
सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः
विराटो द्रुपदश्चैव माद्रीपुत्रौ युधिष्ठिरः
दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना
अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः
ददृशुस्समरे भीष्मं समुद्यतदृढायुधम्
ते सर्वे दृढधन्वानस्संयुगेष्वपलायिनः
बहुधा भीष्ममानर्च्छुर्मार्गणैः कृतमार्गणाः
विधूय तान्बाणगणान्ये मुक्ताः पार्थिवोत्तमैः
पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम्
कृत्वा शरविघातं च क्रीडन्निव महारथः
नाभिसन्धत्त पाञ्चाल्ये स्मयमानो मुहुर्मुहुः
स्त्रीत्वं च समनुस्मृत्य भीष्मस्तत्र शिखण्डिनः
जघान द्रुपदानीके रथान्सप्त महारथः
ततः किलकिलाशब्दः क्षणेन समजायत
मध्ये पाञ्चालचेदीनां तमेकमभिधावताम्
ते नराश्वरथव्रातैर्वारणैश्च पदातिभिः
तमेकं छादयामासुर्मेघा इव दिवाकरम्
भीष्मं भागीरथीपुत्रं प्रतपन्तं रणे रिपून्
ततस्तस्य च तेषां च युद्धे देवासुरोपमे
किरीटी भीष्ममानर्च्छत्पुरस्कृत्य शिखण्डिनम्