सञ्जयः-
शिखण्डी तु रणे भीष्मम्विजिगीषुर्महारथम्
जयाय पाण्डुपुत्राणामासाद्य पुरुषर्षभम्
तरस्वी बलवान् सङ्ख्ये प्रत्युद्यातो महारथः
दशभिर्निशितैर्भल्लैराजघान स्तनान्तरे
शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषा
अवैक्षत कटाक्षेण निर्दहन्निव भारत
स्त्रीत्वं तत्संस्मरन्राजन्सर्वलोकस्य पश्यतः
नाजघान रणे भीष्मो बाणोगोचरमागम्
अर्जुनस्तु महाराज शिखण्डिनमभाषत
अर्जुनः-
अभित्वरस्वास्य वधे शिखण्डिन्रथसत्तम
किं ते विवक्षया वीर जहि भीष्मं महारथम्
न ह्यन्यमनुपश्यामि कञ्चिद्यौधिष्ठिरे बले
यश्शक्तस्समरे भीष्मं योधयेत पितामहम्
ऋते त्वां पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते
सञ्जयः-
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ
शरैर्नानाविधैस्तूर्णं पितामहमुपाद्रवत्
अचिन्तयित्वा तान्बाणान्पिता देवव्रतस्तव
अर्जुनं समरे क्रुद्धं वारयामास सायकैः
तथैव च चमूं सर्वां पाण्डवानां महारथः
अप्रैषीत्समरे भीष्मः परलोकाय सायकैः
तथैव पाण्डवा राजन्सैन्येन महता वृताः
भीष्मं सम्प्रच्छादयामासुर्मेघा इव दिवाकरम्
स समन्तात्परिवृतो भीष्मो हि भरतर्षभ
निर्ददाह रणे शूरान्वने वह्निरिव ज्वलन्
तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम्
अयोधयच्च यत्पार्थं जुगोप च महाव्रतम्
कर्मणा तेन समरे तव पुत्रस्य धन्विनः
दुश्शासनस्य तुतुषुस्सर्वे लोका महात्मनः
यदेकस्समरे पार्थान्सानुगान्समयोधयत्
न चैनं पाण्डवा युद्धे वारयामासुरुल्बणम्
दुश्शासनेन समरे रथिनो विरथीकृताः
सादिनश्च महेष्वासा दन्तिनश्च महाबलाः
विनिर्भिन्नाश्शरैस्तीक्ष्णैर्निपेतुर्धरणीतले
शरातुरास्तथैवान्ये दन्तिनो विद्रुता दिशः
यथाग्निरिन्धनं प्राप्य ज्वलेद्दीप्तार्चिरुल्बणम्
तथा जज्वाल पुत्रस्ते पाण्डुसेनां विनिर्दहन्
तं भारतमहामात्रं पाण्डवानां महारथः
जेतुं नोत्सहते कश्चिन्नाभ्युद्यातुं कथञ्चन
ऋते महेन्द्रतनयं श्वेताश्वं कृष्णसारथिम्
स हि तं समरे राजन्निर्जित्य विजयोऽर्जुनः
भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः
विजितस्तव पुत्रोऽपि भीष्मबाहुव्यपाश्रयः
पुनस्समाश्वस्य प्रायुध्यत रणोत्कटः
अर्जुनं च रणे राजन्योधयन्बह्वशोभत
शिखण्डी तु रणे राजन्विव्याध च पितामहम्
शरैरशनिसंस्पर्शैस्तथा सर्पविषोपमैः
न च स्म ते रुजं चक्रुः पितुस्तव जनेश्वर
स्मय्रमानस्तु गाङ्गेयस्तान्बाणाञ्जगृहे तदा
उष्णार्तो हि नरो यद्वज्जलधाराः प्रतीच्छति
तथा जग्राह गाङ्गेयश्शरधाराश्शिखण्डिनः
तं क्षत्रिया महाराज ददृशुर्घोरमाहवे
भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनाम्
ततोऽब्रवीत्तव सुतस्सर्वसैन्यानि मारिष
दुर्योधनः-
अभिद्रवत सैन्यानि फल्गुनं सर्वतो रथैः
भीष्मो वस्समरे सर्वान्पालयिष्यति धर्मवित्
तद्भयं सुमहत्त्यक्त्वा पाण्डवान्प्रति युध्यत
एष तालेन महता भीष्मस्तिष्ठति पालयन्
सर्वेषां धार्तराष्ट्राणां रणे वर्म च शर्म च
देवा अपि समुद्युक्ता नालं भीष्मं समासितुम्
किमु पार्था महात्मानं मर्त्यभूता वृथाबलाः
तस्माद्द्रवत हे योधाः फल्गुनं प्राप्य संयुगे
अहमद्य रणे यत्तो योधयिष्यामि फल्गुनम्
सहितस्सर्वतो यत्तैर्भवद्भिर्वसुधाधिपैः
सञ्जयः-
तच्छ्रुत्वा तु वचो राजंस्तव पुत्रस्य धन्विनः
अर्जुनं प्रति संयत्ता बलवन्तो महारथाः
विदेहास्तं कलिङ्गाश्च दासेरुकगणाैस्सह
अभिपेतुर्निषादाश्च सौवीराश्च महारणे
बाह्लीका दरदाश्चैव प्रतीच्योदीच्यमालवाः
अभीषाहाश्शूरसेनाश्शिबयोऽथ वसातयः
साल्वाश्शूरास्त्रिगर्ताश्च अम्बष्ठाः केकयैस्सह
अभिपेतू रणे पार्थं पतङ्गा इव पावकम्
स तान्सर्वान्सहानीकान्महाराज महारथान्
दिव्यान्यस्त्राणि सञ्चिन्त्य प्रसन्धाय धनञ्जयः
स तैरस्त्रैर्महावेगैर्ददाहाशु महाबलः
शरप्रतापैर्बीभत्सुः पतङ्गानिव पावकः
तस्य बाणसहस्राणि सृजतो दृढधन्विनः
दीप्यमानमिवाकाशे गाण्डीवं समदृश्यत
ते शरार्ता महाराज विप्रकीर्णरथध्वजाः
नाभ्यवर्तन्त राजानस्सहिता वानरध्वजम्
सध्वजा रथिनः पेतुर्हयारोहा हयैस्सह
गजाश्च सगजारोहाः किरीटिशरपीडिताः
ततोऽर्जुनभुजोत्सृष्टैरावृताऽऽसीद्वसुन्धरा
विद्रुतं दिक्षु सर्वासु शरैर्बलमदृश्यत
अथ पार्थो महाबाहुर्द्रावयित्वा वरूथिनीम्
दुश्शासनाय समरे प्रेषयामास सायकान्
ते तु भित्त्वा तव सुतं दुश्शासनमयोमुखाः
धरणीं विविशुस्सर्वे वल्मीकमिव पन्नगाः
हयांश्चास्य ततो जघ्ने सारथिं च न्यपातयत्
विविंशतिं च विंशत्या विरथीकृतवान्प्रभुः
आजघान भृशं चैव नवभिर्नतपर्वभिः
कृपं शलं च शल्यं च विद्ध्वा बहुभिरायसैः
चकार विरथांश्चैव कौन्तेयश्श्वेतवाहनः
एवं ते विरथास्सर्वे कृपश्शल्यश्च मारिष
दुश्शासनो विकर्णश्च तथैव च विविंशतिः
सम्प्राद्रवन्त समरे निर्जितास्सव्यसाचिना
पूर्वाह्णे तु महाराज पराजित्य महारथान्
प्रजज्वाल रणे पार्थो विधूम इव पावकः
तथैव शरवर्षेण भास्करो रश्मिवानिव
अन्यानपि महाराज तापयामास पार्थिवान्
पराङ्मुखीकृत्य तथा शरवर्षैर्महारथान्
प्रावर्तयत सङ्ग्रामे शोणितोदां महानदीम्
मध्येन कुरुसैन्यानां पाण्डवानां च भारत
तस्मिन्नतिमहाभीमे राजन्वीरवरक्षये
भीष्मं प्रति पराक्रान्ताः पाण्डवास्सह सृञ्जयैः
तैः पराक्रान्तमालोक्य युधि राजन्पितामहम्
न न्यवर्तन्त ते पुत्रा ब्रह्मलोकपुरस्कृताः
इच्छन्तो निधनं युद्धे स्वर्गलोकपरायणाः
पाण्डवानभ्यवर्तन्त तावका युद्धदुर्मदाः
पाण्डवाश्च महाराज स्मरन्तो विविधान्बहून्
क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप
भयं त्यक्त्वा रणे शूरास्स्वर्गलोकपुरस्कृताः
तावकांस्तव पुत्रांश्च योधयन्ति स्म हृष्टवत्
गजाश्वरथसङ्घाश्च बहुधा रथिभिर्हताः
रथाश्च निहता नागैर्नागा हयपदातिभिः
अन्तरा च्छिद्यमानानि शरीराणि शिरांसि च
निपेतुर्दिक्षु सर्वासु गजाश्वरथयोधिनाम्
छन्नमायोधनं राजे कोदण्डाङ्गदधारिभिः
पतितैः पात्यमानैश्च राजपुत्रैर्महारथैः
रथनेमिनिकृत्ताङ्गा रथाश्वैरवपोथितैः
पादातश्चा व्यदृश्यन्त साश्वाश्च हयसादिनः
गजाश्च रथसङ्घाश्च परिपेतुस्समन्ततः
विकीर्णाश्च रथा भूमौ भग्रचक्रयुगध्वजाः
तद्धताश्वरथौघानां रुधिरेण समुक्षितम्
छन्नमायोधनं रेजे रक्ताभ्रमिव चाम्बरम्
श्वानः काकाश्च गृध्राश्च वृका गोमायुभिस्सह
प्रणेर्दुर्भक्षमासाद्य विविधाश्च मृगद्विजाः
ववुर्बहुविधश्चैव दिक्षु सर्वासु मारुताः
दृश्यमानेषु रक्षस्सु भूतेषु च नदत्सु च
काञ्चनानि च दामानि पताकाश्च महाधनाः
धूयमाना व्यदृश्यन्त सहसा मारुतेरिताः
श्वेतच्छत्रसहस्राणि सध्वजाश्च महारथाः
विकीर्णास्समदृश्यन्त शतशोऽथ सहस्रशः
सपताकाश्च मातङ्गा दिशो जग्मुश्शरातुराः
क्षत्रियाश्च मनुष्येन्द्र गदाशक्तिधनुर्धराः
समन्ततश्च दृश्यन्ते पतिता धरणीतले
इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः
पेतुरार्तस्वरं कृत्वा तत्र तत्र महागजाः
सेनापतिस्तु समरे धृष्टद्युम्नः प्रतापवान्
अभिदुद्राव वेगेन तव सना महाबलः
धृष्टद्युम्नः-
सेनापतिः पुनः क्रुद्धस्स्वसेनां प्राह वै तदा
अभिद्रवन्त गोङ्गेयं सोमकाः किं चिरेण वः
सञ्जयः-
सेनापतिवचश्श्रुत्वा सोमकास्सह सृञ्जयैः
अभ्यद्रवन्त गाङ्गेयं शस्त्रवृष्ट्या समन्ततः
तदा भीष्मो महाराज दिव्यमस्त्रमुदीरयन्
अभ्यद्रवत कौन्तेयं मिषतां सर्वधन्विनाम्
तं शिखण्डी रणे क्रुद्धमभ्यधावत दंशितः
असंहरत्ततो भीष्मस्तदस्त्रं पावकोपमम्
एतस्मिन्नेव काले तु कौन्तेयश्श्वेतवाहनः
निजघ्ने तावकं सैन्यं मोहयित्वा पितामहम्